SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ शतकं-९, वर्ग:-, उद्देशकः-१ ४५५ नदीवृन्देनापरंसपूर्वापरंतेन चोद्दस सलिलासहयसहस्साछप्पन्नंचसहस्सा भवंतीतिमक्खाय'त्ति इह 'सलिलाशतसहस्राणि नदीलक्षाणि, एतत्सङ्ग्या चैवं-भरतैरावतयोगङ्गासिन्धरक्तारक्तवत्यः प्रत्येकं चतुर्दशभिर्नदीनां सहस्रैर्युक्ताः, तथा हैमवतैरण्यवतयोः रोहिद्रोहितांशा सुवर्णकूला रूप्यकूलाः प्रत्येकमष्टाविंशत्या हौर्युक्ताः, तथा हरिवर्षरम्यकवर्षयोहरिहरिकान्तानरकान्तानारीकान्ताः प्रत्येकंषट्पञ्चाशता हनैर्युक्ताः समुद्रमुपयान्ति, तथा महविदेहे शीताशीतोदे प्रत्येक पञ्चभिर्लक्षात्रिंशताच सहस्रैर्युक्ते समुद्रमुपयात इति, सर्वासांच मीलने सूत्रोक्तंप्रमाणं भवति वाचनान्तरे पुनरिदं दृश्यते-'जहा जंबूद्दीवपन्नत्तीए तहा नेयव्वं जोइसविहूणं जाव॥१॥ खंडा जोयण वासा पव्वय कूडा य तित्थ सेढीओ। विजयद्दहसलिलाउ य पिंडए होति संगहणी ॥ति। तत्र 'जोइसविहूणं'ति जंबूद्वीपप्रज्ञप्त्यां ज्योतिष्कवक्तव्यताऽस्तिं तद्विहीनं समस्तं जम्बूद्वीपप्रज्ञप्तिसूत्रमस्योद्देशकस्य सूत्रंज्ञेयं, किंपर्यवसानं पुनस्तद्? इत्याह- 'जावखंडे'त्यादि, तत्र 'खंडे'त्ति जम्बूद्वीपो भरतक्षेत्रप्रमाणानि खण्डानि कियन्ति स्यात् ?, उच्यते, नवत्यधिकं खण्डशतं, जोयण'त्ति जम्बूद्वीपः कियन्ति योजनप्रमाणानि खण्डानि स्यात् ?, उच्यते॥१॥ 'सत्तेव य कोडिसया णउया छप्पन्नसयसहस्साइं। चउनउइंच सहस्सा सयं दिवइंच साहीयं ।। इति, ॥२॥ गाउयमेगं पन्नरस धनुस्सया तह धनूणि पन्नरसा। सद्धिं च अंगुलाई जंबु दीवस्स गणियपयं ॥ गणितपदमित्येवंप्रकारस्य गणितस्य सज्ञा 'वास'त्ति जम्बूद्वीपे भरतहेमवतादीनि सप्त वर्षाणि क्षेत्राणीत्यर्थः, 'पव्वय'त्ति जम्बूद्वीपे कियन्तः पर्वताः ?, उच्यन्ते, षड् वर्षधरपर्वता हिमवदादयःएको मन्दरः एकश्चित्रकूटः एक एव विचित्रकूटः, एतौचदेवकुरुषु, द्वौ यमकपर्वतो, एतौ चोत्तरकुरुषु, द्वेशतेकाञ्चनकानाम्, एतेच शीताशीतोदयोः पावतो, विंशति वक्षस्काराः, चतुस्त्रिंशद्दीर्घविजयाद्धपर्वताश्चत्वारोवर्तुलविजयार्धाः, एवं द्वेशते एकोनसप्तत्यधिके पर्वतानां भवत । 'कूड'त्ति कियन्तिपर्वकूटानि?,उच्यते, षट्पञ्चाशद्वर्षघरकूटानिपन्नवतिर्वक्षस्कारकूटानित्रीणि षडुत्तराणि विजयार्द्धकूटानांशतानि नवचमन्दरकूटानि, एवं चत्वारिसप्तषष्ट्यधिकानि कूटशतानि भवन्ति । 'तित्थ'त्तिजम्बूद्वीपे कियन्तितीर्थानि?, उच्यते, भरतादिषुचतुस्त्रिंशतिखण्डेषुमागधवरदामप्रभासाख्यानि त्रीणि त्रीणि तीर्थानि भवन्ति, एवं चैकं द्वयुत्तरं तीर्थःशतं भवतीति । 'सेढीओ त्ति विद्याधरश्रेणयः आभियोगिकश्रेणयश्च कियन्त्यः?, उच्यते, अष्टषष्टि प्रत्येकमासां भवन्ति, विजयार्द्धपर्वतेषु प्रत्येकं द्वयोर्द्वयोर्भावात्, एवं च षट्त्रिंशदधिकं श्रेणिशतं भवतीति । विजय'त्ति कियन्ति चक्रवर्त्तिविजेतव्यानि भूखण्डानि?,उच्यते, चतस्त्रिंशत्, एतावन्त एव राजघान्यादयोऽर्था इति । दह'त्ति क्रियन्तो महाहदाः ?, उच्यते, पद्मादयः षड् दश च नीलवदादय उत्तरकुरुदेवकुरुमध्यवर्त्तिन इत्येवं षोडश । 'सलिल'त्तिनद्यस्तप्रमाणंच दर्शितमेव, 'पिंडए होतिसंगहणि'त्ति उद्देशकार्थानां पिण्डके-मीलके विषयभूते इयं सङ्ग्रहणीगाथा भवतीति । शतकं-९ उद्देशकः-१ समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy