________________
४४१
शतकं-८, वर्गः:, उद्देशकः-९
वैक्रियसर्ववन्धकेभ्यो देशबन्धका असङ्ख्ययगुणाः, तैजसकाम॑णयोरबन्धका अनन्तगुणाः, यस्मात्ते सिद्धास्तेच वैक्रियदेशबन्धकेभ्योऽनन्तगुणाएव, वनस्पतिवर्जसर्वजीवेभ्यः सिद्धानामनन्तगुणत्वादिति, औदारिकशरीरस्य सर्वबन्धका अनन्तगुणास्ते च वनस्पतिप्रभृतीन् प्रतीत्य प्रत्येतव्याः, तस्यैव चाबन्धका विशेषाधिकाः, एते हि विग्रहगतिकाः सिद्धादयश्च भवन्ति, तत्र च सिद्धादीनामत्यन्ताल्पत्वेनेहाविवक्षा, विग्रहगतिकाश्चवक्ष्यमाणन्यायेन सर्वबन्धकेभ्यो बहुतरा इति तेभ्यस्तदबन्धका विशेषाधिका इति।
तस्यैव चौदारिकस्य देशबन्धका असङ्ख्यातगुणाः, विग्रहाद्धापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात्, तेजसकार्मणयोर्देशबन्धका विशेषाधिकाः, यस्मात्सर्वेऽपि संसारिणस्तैजसकार्मणयोर्देशबन्धकाभवन्ति, तत्रच ये विग्रहगतिका औदारिकसर्वबन्धका वैक्रियादिबन्धकाश्च ते औदारिकदेशबन्धकेभ्योऽतिरिच्यन्त इति ते विशेषाधिका इति, वैक्रियशरीरस्याबन्धका विशेषाधिकाः, यस्माद्वैक्रियस्य बन्धकाः प्रायो देवनारका एव शेषास्तु तदबन्धकाः सिद्धाश्च, तत्र च सिद्धास्तैजसादिदेशबन्धकेभ्योऽतिरिच्यन्ते इति ते विशेषाधिका उक्ताः। ___आहारकशरीरस्याबन्धका विशेषाधिका यस्मान्मनुष्याणामेवाहारकशरीरं वैक्रियं तु तदन्येषामपि, तोत वैक्रियबन्धकेभ्य आहारकबन्धकानां स्तोकत्वेन वैक्रियाबन्धकेभ्य आहारकाबन्धका विशेषाधिका इति।।
___ -इहाल्पबहुत्वाधिकारे वृद्धा गाथा एवं प्रपञ्चितवन्तः॥१॥
ओरालसव्वबंधा थोवा अब्बंधया विसेसहिया ।
तत्तो य देसबंधा असंखगुनिया कहं नेया ।। ॥२॥ पढमंमि सव्वबंधो समए सेसेसुदेसबंधो उ!
सिद्धाईण अबंधो विग्गहगइयाण य जियाणं ।। ॥३॥ इह पुण विग्गहिए चिय पडुच्च भनिया अबंधगा अहिया ।
सिद्धा अनंतभागंमि सव्वबन्धाणवि भवन्ति ।। ॥४॥ उजुयाय एगवंका एगवंका दुहओवंका गई भवे तिविहा ।
पढमाइ सव्वबंधा सव्वे बीयाइ अद्धं तु ॥ ॥५॥ तइयाइ तइयभंगो लब्भइ जीवाण सव्वबंधाणं ।
इति तिन्नि सव्वबंधा रासी तिनेवय अबंधा। ॥६॥ रासिप्पमाणओ ते तुल्लाऽबंधा य सव्वबंधा य ।
संखापमाणओ पुण अबंधगा पुण जहब्भहिया ।। ॥७॥ जे एगसमइया ते एगनिगोदंभि छद्दिसि एंति ।
दुसमइया तिपयरिया तिसमईया सेसलोगाओ ।। ॥८॥ तिरियाययं चउद्दिसि पयरमसंखप्पएसबाहल्लं ।
उष्टुं पुव्वावरदाहिणुतरायया य दो पयरा॥ ॥९॥ जे तिपयरिया ते छद्दिसिएहिंतो भवंतऽसंखगुणा ।
सेसावि असंखगुणा खेत्तासंखेजगुनियत्ता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org