________________
शतकं-१, वर्ग:-, उद्देशकः-१
४१
‘आउयवज्जाओ'त्ति यस्मादेकत्रभवग्रहणे सकृदेवान्तर्मुहूर्त्तमात्रकाले एवायुषो बन्धस्तत उक्तमायुर्वर्जा इति 'सिढिलबंधणबद्धाओ'त्तिश्लथबन्धनं-स्पृष्टता वा बद्धता वा निधत्तता वा तेन बद्धाः-आत्मप्रदेशेषु संबन्धिताः पूर्वावस्थायामशुभतरपरिणामस्य कथञ्चिदभावदिति शिथिलबन्धनबद्धाः, एताश्चाशुभाएवद्रष्टव्याः,असंवृतभावस्य निन्दाप्रस्तावात्, ताः किमित्याह'धणियबंधणबद्धाओ पकरेंति'त्ति गाढतरबन्धना बद्धावस्था वा निधत्तावस्था निकाचिता वा 'प्रकरोति' प्रशब्दस्यादिकार्थत्वात्कर्तुमारभते, असंवृतत्वस्याशुभयोगरूपत्वेन
गाढतप्रकृतिबन्धहेतुत्वात्, आहच-'जोगापयडिपएसं'ति, पौनःपुन्यभावे त्वसंवृतत्वस्य ताः करोत्येवेति, तथा ह्स्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थिति-उपात्तस्य कर्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, असंवृतत्वस्य कषायरूपत्वेन स्थितबन्धहेतुत्वात्, आह च-“ठिइमणुभागं कसायओ कुणइ"त्ति ।
तथा 'मंदाणुभावे-'तयादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावाःपरिपेलवरसाःसतीर्गाढरसाः प्रकरोति, असंवृतत्वस्य कषायरूपत्वादे, अनुभागवन्धस्यच कषायप्रत्ययत्वादिति, ‘अप्पपएसे'त्यादि, अल्पं-स्तोकं प्रदेशाग्रं-कर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबन्धस्यापि योगप्रत्ययत्वाद्, असंवृतत्वस्य च योगरूपत्वादिति, 'आउयंचे' त्यादि, आयुः पुनः कर्मस्यात्-कदाचिद्बध्नातिस्यात्-कदाचिद्नबन्धाति, यस्मात्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्वन्ति, तेनयदा त्रिभागादिस्तदा बन्ध्नाति, अन्यदान बन्धातीति
तथा 'असाए'त्यादि असातवेदनीयं च-दुःखवेदनीयं कर्म पुनः 'भूयो भूयः' पुनः पुनः 'उपचिनोति' उपचितं करोति, ननु कर्मसप्तकान्तवर्तित्वादसातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद्ग्रहणेन ? इति, अत्रोच्यते, असंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृतत्वपरिहारार्थमिदमित्यदुष्टमिति ।
'अणाइयंति अविद्यमानादिकम् अज्ञातिकं वा-अविद्यमानस्वजनम् ऋणं-वाऽतीतम् ऋणजन्यदुःस्थताऽतिक्रान्त दुःस्थतानिमित्ततयेतिऋणातीतम्, अणं वाऽणक-पापमतिशयेनेतंगतमनातीतम्, 'अणवयग्गं'ति, अवयग्गं'ति देशीवचनोऽन्तवाचकस्ततस्तन्निषेधाद् अणवयग्गम्, अनन्तमित्यर्थः अथवाऽवनतम्-आसन्नमग्रम्-अन्तोयस्यतत्तथा तनिषेधाद्अनवनताग्रम, एतदेव वर्णनाशादवनता(नवता)ग्रमिति, अथवाऽनवगतम्-अपरिच्छिन्नमग्रं-परिमाणं यस्य तत्तथा, अत एव 'दीहमद्धंति 'दीर्घाद्धं दीर्घकालं 'दीर्घाध्वंवा' दीर्घमार्ग 'चाउरंत'न्ति चतुरन्तंदेवादिगतिभेदात, पूर्वादिदिगभेदाच्च चतुर्विभागंतदेव स्वार्थिकाणप्रत्ययोपादानाचातुरन्तं संसारक तारंति भवारण्यम् 'अणुपरियट्टइत्ति पुनः पुनर्भमतीति ।
असंवृतस्य तावदिदं फलं, संवृतस्य तु यत्स्यात्तदाह-संवुडे ण'मित्यादि व्यक्तं, नवरं संवृतः-अनगारः प्रमत्ताप्रमत्तसंयतादि,सचचरमशरीरः स्यादचरमशरीरोवा, तत्रयश्चरमशरीरस्तदपेक्षयेदंसूत्रं, यस्त्वचरमशरीरस्तदपेक्षया परम्परयासूत्रार्थोऽवसेयः ननुपारम्पर्येणासंवृतस्यापि सूत्रोक्तार्थस्यावश्यम्भावो, यतःशुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी, तदेवं संवृतासंवृतयोः फलतोभेदाभावएवेति, अत्रोच्यते, सत्यं, किन्तु यत्संवृतस्यपारम्पर्यंतदुत्कर्षतः सप्ताष्टभवप्रमाणं, यतो वक्ष्यति-'जहन्नियं चरित्ताराहणं आराहित्ता सत्तभवग्गहणेहिं सिज्झइत्ति, यच्चासंवृतस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org