SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४२९ शतकं-८, वर्गः-, उद्देशकः-९ द्वीन्द्रियत्वादी पुनरेकेन्द्रियत्वे सति यत्सर्वबन्धान्तरं तजघन्येन द्वे क्षुल्लकभवग्रहणे त्रिसमयोने, कथम् ?, एकेन्द्रियसिमयया विग्रहगत्योत्पन्नस्तत्र च समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धको जातः, एवं च सर्वबन्धयोरुक्तमन्तरं जातमिति । 'उक्कोसेणंदोसागरोवमसहस्साईसंखेजवासमब्महियाईति, कथम्?,अविग्रहेणैकेन्द्रियः समुत्पन्नस्तत्रच प्रथमसमये सर्वबन्धको भूत्वा द्वाविंशतिवर्षसहस्राणिजीवित्वा मृतसकायिकेषु चोत्पन्नः, तत्र स सद्ध्यातवर्षाभ्यधिकसागरोपमसहस्रद्वयरूपामुत्कृष्टसकायिककायस्थितिमतिवाह्य एकेन्द्रियेष्वेवोत्पद्य सर्वबन्धको जात इत्येवं सर्वबन्धयोर्यथोक्तमन्तरं भवति, सर्वबन्धसमयहीनएकेन्द्रियोत्कृष्टभवस्थितेसकायस्थितौ प्रक्षेपणेऽपि सङ्ख्यातस्थानानां सङ्ख्यातभेदत्वेन सङ्घयातवर्षाभ्यधिकत्वस्याव्याहतत्वादिति। 'देसबंधंतरंजहन्नेणंखुड्डागंभवग्गहणं समयाहियंति, कथम्?, एकेन्द्रियो देशबन्धकः सन् मृत्वा द्वीन्द्रियादषु क्षुल्लकभवग्रहणमनुभूयाविग्रहेण चागत्य प्रथमसये सर्ववन्धको भूत्वा द्वितीये देशबन्धकोभवति, एवंचदेशवन्धान्तरं क्षल्लकभवः सर्वबन्धसमयातिरिक्तः, 'उक्कोसेण'मित्यादि सर्वबन्धान्तरभावनोक्तप्रकारेण भावनीयमिति। अथ पृथिवीकायिकबन्धान्तरं चिन्तयन्नाह-'जीवस्से'त्यादि, ‘एवं चेव'त्तिकरणात् 'तिसमयऊणाईति दृश्यम्, 'उक्कोसेणंअनंतं कालं'ति, इहकालानन्तत्वं वनस्पतिकायस्थितिकालापेक्षयाऽनन्तकालमित्युक्तं तद्विभजनार्थःमाह-'अनंताओ' इत्यादि, अयमभिप्रायः-तस्यानन्तस्य कालस्य समयेषु अवसर्पिण्युत्सर्पिणीसमयैरपहियमाणेष्वनन्ताअवसर्पिण्युत्स-पिण्यो भवन्तीति, 'कालओ'त्तिइदं कालापेक्षयामानं, 'खेत्तओत्ति क्षेत्रापेक्षयापुनरिदम्-'अनंता लोग'त्ति, अयमर्थःतस्यानन्तकालस्य समयेषु लोकाकाशप्रदेशैरपह्रियमाणेष्वनन्ता लोका भवन्ति, अथ तत्र कियन्तः पुद्गलपरावर्ता भवन्ति? इत्यत आह ____ 'असंखेजे' त्यादि पुद्लपरावर्तलक्षणं सामान्येन पुनरिदं-दशभिः कोटीकोटीभिरद्धापल्योपमा-नामेकं सागरोपमं दशभिः सागरोपमकोटीकोटीभिरवसर्पिणी, उत्सर्पिण्यप्येवमेव, ताअवसर्पिण्युत्सर्पिण्योऽनन्ताः पुद्गलपरावर्तः, एतद्विशेषलक्षणंतुइहैव वक्ष्यतीति, पुद्गलपरावर्तानामेवास-जयातत्वनियमनायाह-'आवलिए' त्यादि, असङ्ख्यातसमयसमुदायश्चावलिकेति ___'देसवंधंतरं' जहन्नेण मित्यादि, भावना त्वेवं-पृथिवीकायिको देशवन्धकः सन्मृतः पृथिवीकायिकेपु क्षुल्लकभवग्रहणं जीवित्वा मृतः सन् पुनरविग्रहेण पृथिवीकायिकेष्वेवोत्पन्नः, तत्र चसर्वबन्धसमयानन्तरं देशवन्धको जातः, एवंच सर्वबन्धसमयेनाधिकमेकंक्षुल्लकभवग्रहणं देशबन्धयोरन्तरमिति। 'वणस्सइकाइयाणंदोन्निखुड्डाइंति वनस्पतिकायिकानां जघन्यतःसर्वबन्धान्तरं द्वे क्षुल्लके भवग्रहणे एवं चेवत्तिकरणानिसमयोने इतिहेश्यम्, एतद्भावनाच वनस्पतिकायिकस्त्रिसमयेन विग्रहेणोत्पन्नः तत्रच विग्रहस्य समयद्वयमनाहारकस्तृतीचे समयेच सर्ववन्धको भूत्वा क्षुल्लकभवं च जीवित्वा पुनः पृथिव्यादिषु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिकायिकेष्वेवोत्पन्नः प्रथमसमयेच सर्ववन्धकोऽसाविति सर्ववन्धयोस्त्रिसमयोने द्वे क्षुल्लकभवग्रहणे अन्तरं भवति इति 'उक्कोसेण मित्यादि, अयं च पृथिव्यादिषु कायस्थितिकालः ‘एवं देसबंधंतरंपि'त्ति यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy