SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ शतकं - ८, वर्ग:, उद्देशक:- ९ ४२७ 'उसेणं बावीस 'मित्यादि भावितमेवेति, 'देसबंधी जेसिं नत्थी' त्यादि, अयमर्थःअप्तेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणां क्षुल्लकभवग्रहणं त्रिसमयोनं जघन्यतो देशबन्धो यतस्तेषां वैक्रियशरीरं नास्ति, वैक्रियशरीरे हि सत्येकसमयो जघन्यत औदारिकदेशबन्धः पूर्वोक्तयुक्त्या स्यादिति, 'उक्कोसेणं जा जस्से' त्यादि तत्रापां वर्षसहस्राणि सप्तोत्कर्षतः स्थिति, तेजसामहोरात्राणि त्रीणि, वनस्पतीनां वर्षसहस्राणि दश द्वीन्द्रियाणां द्वादश वर्षाणि त्रीन्द्रियाणामेकोनपञ्चाशदहोरात्राणि चतुरिन्द्रियाणां षण्मासाः, तत एषां सर्बन्धसमयोना उत्कृष्टतो देशबन्धस्थितिर्भवतीति 'जेसिं पुणे' त्यादि, ते च वायवः पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च, एषां जघन्येन देशबन्ध एकं समयं, भावना च प्रागिव, ‘उक्कोसेण 'मित्यादि तत्र वायूनां त्रीनि वर्षसहानि उत्कर्षतः स्थिति, पञ्चेन्द्रियतिरश्चां मनुष्याणां च पल्योपमत्रयम्, इयं च स्थिति सर्वबन्धसमयोना उत्कृष्टतो देशबन्धस्थितिरेषां भवतीत्यतिदेशतो मनुष्याणां देशबन्धस्थितौ लब्धायामप्यन्तिमसूत्रत्वेन साक्षादेव तेषां तामाह- 'जाव मणुस्साण 'मित्यादि । उक्त औदारिकशरीरप्रयोगबन्धस्य कालोऽथ तस्यैवान्तरं निरूपयन्नाह - 'ओरालिए' त्यादिस सर्वबन्धान्तरं जघन्यत) क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं ?, त्रिसमयविग्रहेणौदारिकशरीररिष्वागतस्तत्र द्वौ समयावनाहारकस्तृतीयसमये सर्वबन्धकः क्षुल्लकभवंच स्थित्वा मृत ओदारिकशरीररिष्वेवोत्पन्नस्तत्र च प्रथमसमये सर्वबन्धकः, एवंच सर्वबन्थस्य सर्वबन्धकः क्षुल्लकभवं च स्थित्वा मृत ओदारिकशरीरिष्वेवोत्पन्नस्तत्र च प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धस्य सर्वबन्धस्य चान्तरं क्षुल्लकभवो विग्रहगतसमयत्रयोनः, 'उक्कोसेण 'मित्यादि, उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमानि पूर्वकोटेः समयाभ्यधिकानि सर्वबन्धान्तरं भवतीति, कथं ?, मनुष्यादिष्वविग्रहेणागतस्तत्र च प्रथमसमय एव सर्वबन्धको भूत्वा पूर्वकोटिंच स्थित्वा त्रयशिंत्सागरोपमस्थितिर्नारकः सर्वार्थः सिद्धको वा भूत्वा त्रिसमयेन विग्रहेणौदारिकशरीरी संपन्नस्तत्र च विग्रहस्य द्वौ समया-वनाहारकस्तृतीये चसमये सर्वबन्धकः, औदारिकशरीरस्यैव च यौ तौ द्वावनाहारसमयौ तयोरेकः पूर्वकोटीसर्वबन्धसमयस्थाने क्षिप्तस्ततश्च पूर्णा पूर्वकोटी जाता एकश्च समयोऽतिरिक्तः, एवं च सर्वबन्धस्य सर्वबन्धस्य चोत्कृष्टमन्तरं यथोक्तमानं भवतीति । 'देसबंधंतर 'मित्यादि, देशबन्धान्तरं जघन्येनैकं समयं कथं ?, देशबन्धको मृतः सन्नविग्रहेणैवोत्पन्नस्तत्र च प्रथम एव समये सर्बन्धको द्वितीयादिषु च समयेषु देशबन्धकः संपन्नः, तदेवं देशबन्धस्य देशबन्धस्य चान्तरंजघन्यत एकः समयः सर्वबन्धसम्बन्धीति । 'उक्कोसेण 'मित्यादि, उत्कृष्टस्त्रतयस्त्रिंशत्सागरोपमानि त्रिसमयाधिकानि देशबन्धस्य देशबन्धस्यान्तरं भवतीति, कथं देशबन्धको मृत उत्पन्नश्च त्रयस्त्रिंशत्सागरोपमायुः सर्वार्थः सिद्धादौ, ततश्च च्युत्वा त्रिसमयेन विग्रहेणौदारिकशरीरी संपन्नस्तत्र च विग्रहस्य समयद्वयेऽ नाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धकोऽजनि, एवं चोत्कृष्टमन्तरालं देशबन्धस्य देशबन्धस्य च यथोक्तं भवतीति । औदारिकबन्धस्य सामान्यतोऽन्तरमुक्तमथ विशेषतस्तस्य तदाह - 'एगिदिए' त्यादि, एकेन्द्रियस्यौदारिकसर्वबन्धान्तरं जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं ?, त्रिसमयेन विग्रहेण पृथिव्यादिष्वागतस्तत्र च विग्रहस्य समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततः क्षुल्लकं भवग्रहणं त्रिसमयोनं स्थित्वा मृतः अविग्रहेण च यदोत्पद्य सर्वबन्धक एव भवति तदा सर्वबन्धयोर्यथोक्तमन्तरं भवतीति । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy