SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४२६ भगवतीअगसूत्रं ८/-/९/४२४ प्पओगनामाए इत्ययं विशेषोश्यः, एकेन्द्रियौदारिकशरीरप्रयोबन्धस्येहाधिकृतत्वात्, एवमुत्तरत्रापि वाच्यमिति। __"देसबंधेऽविसव्वबंधेऽवित्तितत्र यथाऽपूपः स्नेहभृततप्ततापिकायांप्रक्षिप्तःप्रथमसमये घृतादि गृहृत्येव शेषेषु तु समयेषु गृह्णाति विसृजति च एवमयं जीवो यदा प्राक्तनं शरीरकं विहायान्यद्गृह्णति तदा प्रथमसमये उत्पत्तिस्थानगतान् शरीरप्रायोग्यपुदलान् गृह्णात्येवेत्ययं सर्वबन्धः, ततोद्वितीयादिषुसमयेषुतान् गृह्णाति विसृजति चेत्येवं देशबन्धः, ततश्चैवमौदारिकस्य देशबन्धोऽप्यस्तीति सर्वबन्धोऽप्यस्तीति।। 'सव्वबंधं एवं समयंति अपूपदृष्टान्तेनैव तत्सर्वबन्धकस्यैकसमयत्वादिति, 'देसबंधे'इत्यादि, तत्र यदा वायुमनुष्यादिर्वा वैक्रियं कृत्वा विहायच पुनरौदारिकस्य समयमेकं सर्वबन्धं कृत्वा पुनस्तस्य देशबन्धं कुर्वन्नेकसमयानन्तरं म्रियते तदा जघन्यत एक समयं देशबन्धोऽस्य भवतीति, 'उकोसेणं तिन्नि पलिओवमाइं समयउणाई'ति, कथं ?, यस्मादौदारिकशरीरिणां त्रीनिपल्योपमान्युत्कर्षतः स्थितिः तेषुच प्रथमसमयेसर्वबन्धक इतिसमयन्यूनानित्रीनिपल्योपमान्युत्कर्षत औदारिकशरीरिणां देशबन्धकालो भवति । __ “एगिदियओरालिए' त्यादि, 'देसबंधेजहन्नेणं एवं समयंति, कथं?, वायुसैदारिकशरीरी वैक्रियंगतः पुनरौदारिकप्रतिपत्तौ सर्वबन्धको भूत्वा देशबन्धकश्चैकंसमयं भूत्वामृतः इत्येवमिति, 'उक्कोसेणं बावीस मित्यादि, एकेन्द्रियाणामुत्कर्षतो द्वाविंशतिवर्षसहस्रानि स्थितिस्तत्रासौ प्रथमसमये सर्वबन्धकः शेषकालं देशबन्ध इत्येवं समयोनानि द्वाविंशतिवर्षसहस्राण्येकेन्द्रियाणामुत्कर्षतो देशबन्धकाल इति । 'पुढविक्काइए'त्यादि, देसबंधे जहन्नेणं खुड्डागं भवग्गहणं तिसमयऊणं'ति, कथम्?, औदारिकशरीरिणां क्षुल्लकभवग्रहणं जघन्यतो जीवितं, तच गाथाभिर्निरूप्यते "दोनि सयाई नियमा छप्पन्नाई पमाणओ होति । आवलियपमाणेणं खुड्डागभवग्गहणमेयं ॥ ॥२॥ पणसहि सहस्साइं पंचेव सयाइं तह य छत्तीसा। खुड्डागभवग्गहणा हवंति अंतोमुहुत्तेणं॥ ॥३॥ सत्तरस भवग्गहणा खुड्डागा हुंति आणुपाणमि । तेरसचेव सयाइं पंचानउयाइंअंसाणं ।। इहोक्तलक्षणस्य ६५५३६ मुहूर्तगतक्षुल्लकभवग्रहणराशेः सहस्रत्रयशतसप्तकत्रिसप्तिलक्षणेन ३७७३ मुहूर्तगतोच्छसराशिना भागे हृते यल्लभ्यते तदेकत्रोच्छसे क्षुल्लकभवग्रहणपरिमाणं भवति, तच्च सप्तदश, अवशिष्टस्तूक्तलक्षणोऽशराशिर्भवतिति, अयमभिप्रायः येषामंशानां त्रिभिः सहनैः सप्तभिश्च त्रिसप्तत्यधिकशतैः क्षुल्लकभवग्रहणं भवति तेषामंशानां पञ्चनवत्यधिकानि त्रयोदशशतानिअष्टादशस्यापिक्षुल्लकभवग्रहणस्य तत्रभवन्तीति, तत्रयः पृथिवीकायिकसिमयेन विग्रहेणागतः स तृतीयसमये सर्वबन्धकः शेषेषु देशबन्धको भूत्वा आक्षुल्लकभवग्रहणं मृतः, मृतश्च सन्नविग्रेहनागतो यदा तदा सर्वबन्धक एव भवतीति, एवं च ये ते विग्रहसमयायस्तैख्नं क्षुल्लकमित्युच्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy