SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४०६ भगवती अङ्गसूत्रं ८/-/७/४१० शरीरं प्रतीत्यो- धारादिकायकार्यमित्यर्थः 'जोगं व'त्ति 'योगं' ग्लानवैयावृत्यादिव्यापारं प्रतीत्य 'रियं वा पडुच्च' त्ति 'ऋतं' सत्यं प्रतीत्य- अप्कायादिजीवसंरक्षणं संयमाश्रित्त्यथः 'देस देसेणं वयामी' त्ति प्रभूतायाः पृथिव्या ये विवक्षिता देशास्तैर्वजामो नाविशेषेण, ईर्यासमितिपरायणत्वेन सचेतनदेशपरिहारतोऽ- चेतनदेशैर्व्रजाम इत्यर्थः, एवं 'पएसं पएसेणं वयामो' इत्यपि नवरं देशोभूमेर्महत्खण्डं प्रदेशस्तु-लघुतरमिति । अथोक्तगुणयोगेन नास्माकमिवैषां गमनमस्तीत्यभिप्रायतः स्थविराः यूयमेव पृथिव्याक्रमणादितोऽसंयतत्वादिगुणा इति प्रतिपादनायान्ययूथिकान् प्रत्याहु:-'तुज्झे णं अज्जो' इत्यादि 'गइप्पवायंति गति प्रोद्यते प्ररूप्यते यत्र तद्गतिप्रवादं गतेर्वा प्रवृत्तेः क्रियायाः प्रपातः प्रपतनसम्भवप्रयोगादिष्वर्थेषु वर्त्तनं गतिप्रपातस्तत्प्रतिपादकमध्ययनं गतिप्रपातं तत् प्रज्ञापितवन्तो, गतिविचारप्रस्तावादिति ॥ मू. (४११) कइविहे णं भंते! गइप्पवाए पन्नत्ते ?, गोयमा ! पंचविहे गइप्पवाए पन्नत्ते, तंजा-पयोगगती ततगती बंधणछेयणगती उववायगती विहायगती, एत्ती आरब्भ पयोगपयं निरवसेसं भानियव्वं, जाव सेत्तं विहायगई। सेवं भंते! सेवं भंते! त्ति । वृ. अथ गतिप्रपातमेव बेदतोऽभिधातुमाह- 'कइविहे ण' मित्यादि, 'पओगगति 'त्ति इह गतिप्रपातभेदप्रक्रमे यद्गतिभेदभणनं तद्गतिधर्मत्वात् प्रपातस्य गतिभेदभणने गतिप्रपातभेदा एव भनिया भवन्तीति न्यायादवसेयं, तत्र प्रयोगस्य सत्यमनःप्रभृतिकस्य पञ्चदशविधस्य गतिःप्रवृत्ति प्रयोगगतिः, 'ततगइ' त्ति ततस्य-ग्रामनगरादिकंगन्तुं प्रवृत्तत्वेन तञ्चाप्राप्तत्वेन तदनन्तरालपथे वर्त्तमानतया प्रसारितक्रमतया च विस्तारं गतस्य गतिस्ततगति, ततो वाऽवधिभूतग्रामादेर्नगरादौ गति प्राकृतत्वेन ततगई । अस्मिंश्च स्थाने इतः सूत्रादारभ्य प्रज्ञापनायां षोडसं प्रयोगपदं 'सेत्तं विहायगई' एतत्सूत्रं यावद्वाच्यमेतदेवाह - 'एत्तो' इत्यादि, तच्चैवं- 'बंधणछेयणगई उववायगई विहायगई' इत्यादि, तत्र बन्धनच्छेदनगति-बन्धनस्य कर्मणः सम्बन्धस्य वा छेदने - अभावे गतिर्जीवस्य शरीरात् शरीरस्य वा जीवाद्बन्धनच्छेदनगति, उपपातगतिस्तु त्रिविधा क्षेत्रभवनोभवभेदात्, तत्र नारकतिर्यगनरदेवसिद्धानां यत् क्षेत्रे उपपाताय - उत्पादाय गमनं सा क्षेत्रोपपातगति, या च नारकादनामेव स्वभवे उपपातरूपा गति सा भवोपपातगति, यच्च सिद्धपुद्गलयोर्गमनमात्रं सा नोभवोपपातगति, विहायोगतिस्तु स्पृशद्गत्यादिकाऽनेकविधेति । शतकं - ८ उद्देशकः -७ समाप्तः -: शतकं - ८ उद्देशकः-८: वृ. अनन्तरोद्देशके स्थविरान् प्रत्यन्ययूथिकाः प्रत्यनीका उक्ताः, अष्टमे तु गुर्वादिप्रत्यनीका उच्यन्ते, इत्येवंसम्बन्धस्यास्येदं सूत्रम् मू. (४१२) रायगिहे नयरे जाव एवं वयासी-गुरू णं भंते! पडुच्च कति पडिणीया प० गोयमा ! तओ पडिनीया प०, तंजहा आयरियपडिणीए उवज्झायपडिणीए थेरपडिणीए । गणं भंते! पडुच्च कति पडिणीया पन्नत्ता ?, गोयमा ! तओ पडिणीया प०, इहलोगपडिणीए परलोगपडिणीए दुहओलोगपडिणीए ।। समूहन्नं भंते! पडुच्च कति पडिणीया पन्नत्ता ?, गोयमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy