________________
शतकं ८, वर्ग:-, उद्देशक: ५
३९५
कारकरणादिति, न चेह यथासङ्ख्यन्नायो न करोति मनसा न कारयति वचसा नानुजानाति कायेनेत्येवंलक्षणोऽनुसरणीयो, वक्तृविवक्षाऽधीनत्वात् सर्वन्यायानां वक्ष्यमाणविकल्पायोगाच्चेति, एवं त्रिविधं त्रिविधेनेत्यत्र विकल्पे एक एव विकल्पः तदन्येषु पुनर्द्वितीयतृतीयचतुर्थेषु त्रयः २ पञ्चमषष्ठ्योर्नव नवसप्तमे त्रयः अष्टमनवयमयोर्नव नवेति ।
एवं सर्वेऽप्येकोनपञ्चाशत्, एवमियमतीतकालमाश्रित्य कृता करणकारणादियोजना, अथवैवमेषाऽतीतकाले मनःप्रभृतीनां कृतं कारितमनुज्ञातं वा वधं क्रमेण न करोति न कारयति न चानुजानाति तन्निन्देन तदनुमोदननिषेधतस्ततो निवर्त्तत इत्यर्थः, तन्निन्दनस्याभावे हि तदनुमोदनानिवृत्तेः कृतादिरसौ क्रियमाणादिरिव स्यादिति, वर्त्तमानकालं त्वाश्रित्य सुगमैव, भविष्यत्कालापेक्षया त्वेवमसौ न करोति मनसां तं हनिष्यामीत्यस्य चिन्तनात्, न कारयति मनसैव तमहं घातयिष्यामीत्यस्य चिन्तनात्, नानुजानाति मनसा भाविनं मनसा भाविनं वधमनुश्रुत्य हर्षकरणात्, एवं वाचा कायेन च तयोस्तथाविधयोः करणादिति, अथचैवमेव भविष्यत्काले मनः प्रभृतिना करिष्यमाणं कारिष्यमाणमनुमंस्यमानं वा वधं क्रमेण न करोति न कारयति न चानुजानाति ततो निवृत्तिमभ्युपगच्छतीत्यर्थः, सर्वेषां चैषां मीलने सप्तचत्वारिंशदधिकं भङ्गकशतं भवति । इह च त्रिविधं त्रिविधेनेति विकल्पमाश्रित्याक्षेपपरिहारौ वृद्धाक्तावेवम्
119 11
“न करेइच्चाइतियं गिहिणो कह होइ देसविरयस्स ? | भन्नइ विसयस्स बहिं पडिसेहो अनुमईएवि ॥ केई भांति गिहिणो तिविहं तिविहेण नत्थि संवरणं । तं न जओ निद्दिवं इहेव सुत्ते विसेसेउं ॥
तो कह निजत्ती नुमइनिसेहोत्ति ? सो सविसयंमि । सामनन्ने वऽन्नत्थ उ तिविहं तिविहेण को दोसो ॥
॥२॥
॥ ३ ॥
इह च ‘सविसयंमि’त्ति स्वविषये यथानुमतिरस्ति 'सामने व 'त्ति सामान्ये वाऽविशेषे प्रत्याख्याने सति ‘अन्नत्थ उ'त्ति विशेषे स्वयंभूरमणजलधिमत्स्यादौ ।
119 11
" पुत्ताइसंतइनिमित्तमेत्तमेगारसिं पवन्नस्स ।
जंपति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि ॥”
॥२॥
119 11
यथा च त्रिविधं त्रिविधेनेत्यत्राक्षेपपरिहारौ कृतौ तथाऽन्यत्रापि कार्यौ यत्रानुमतेरनुप्रवेशोऽस्तीति । अथ कथं मनसा करणादि ?, उच्यते, यथा वाक्काययोरिति, आह च"आह कहं पुण मणसा करणं कारावणं अनुमईय। इतजोगेहिं करणाई तह भवे मणसा ॥ तयहीणत्ता वइतणुकरणाईणं च अहव मणकरणं । सावज्जजोगमणणं पत्रत्तं वीयरागेहिं ॥ कारावण पुण मणसा चिंतेइ करेउ एस सावजं । चिंतेई य कए उण सुड्डु कयं अनुमई होइ ॥ इति
॥३॥
इह च पञ्चस्वणुव्रतेषु प्रत्येकं सप्तचत्वारिंशदधिकस्य भङ्गशतस्य भावाद् भङ्गकानां सप्त शतानि पञ्चत्रिंशदधिकानि भवन्तीति । यत् स्थविरा आजीविकैः श्रमणोपासकगतं वस्तु पृष्टाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org