________________
३९०
भगवतीअगसूत्रं ८/-1३/३९९
चरिमा अचरिमा?, चरिमपदं निरवसेसं भानियव्वं जाव वैमानिया णभंते ! फासचरिमेणं किं चरिमा अचरिमा?, गोयमा! चरिभावि अचरिमावि । सेवं भंते !२॥
वृ. 'कइण'मित्यादि, तत्र 'इमा णं भंते ! रयणप्पभापुढवी किंचरिमाअचरिमा?' इति, अथ केयं घमाचरमपरिभाषा ? इति, अनोच्यते, चरमं नाम प्रान्तं पर्यन्तवर्ति, आपेक्षिकंच घरमत्वं, यदुक्तम्-“अन्यद्रव्यापेक्षयेदंचरमंद्रव्यमिति, यथा पूर्वशरीरापेक्षयाचरमंशरीर'"मिति, तथा अचरमं ना अग्रान्तं मध्यवर्ति, आपेक्षिकं चचरमत्वं, यदुक्तम्-"अन्यद्रव्यापेक्षयेदंचरम द्रव्यं, यथाऽन्त्यशरीरापेक्षया मध्यशरीरमिति, इह स्थाने प्रज्ञापनादशमं पदं वाच्यं, एतदेवाह
'चरिमे' त्यादि, तत्र पदद्वयं दर्शितमेव, शेषुतुदर्शाते-'चरिमाइंअचरिमाइंचरिमंतपएसा अचरिमंतपएसा?, गोयमा ! इमाण रयणप्पभापुढवी नो चरिमा नो अचरिमा नो चरिमाइंनो अचरिमाइंनोच रिमंतपएसा नो अचरिमंतपएसा नियमा अचरिमंचरमानिन यचरिमंतपएसा य अचरिमंतपएसा य' इत्यादि, तत्र किं चरिमा अचरिमा ? इत्येकवचनान्तःप्रश्नः 'चरिमाई अचरिमाइं' इति बहुवचनान्तः प्रश्नः, 'चरिमंतपएसा अचरिमंतपएस'त्ति चरिमाण्येवान्तवर्तित्वादन्ताश्चरिमान्तास्तेषांप्रदेशाइतिसमासः, तथाऽचरममेवान्तो-विभागोऽचरमान्तस्तस्य प्रदेशा अचरमान्तप्रदेशाः, गोयमा! नो चरिमानो अचरिमा चरमत्वं ह्येतदापेक्षिकम्, अपेक्षणीयस्याभावाच्च कथं चरिमा भविष्यति?, अचरमत्वमप्यपेक्षयैव भवति ततः कथमन्यस्यापेक्षणीयस्याभावेऽचरमत्वं भवति?, यदि हि रत्नप्रभाया मध्येऽन्या पृथिवी स्यात्तदा तस्याश्चरमत्वं युज्यते, न चास्ति सा, तस्मान्न चरमासौ, तथा यदि तस्या बाह्यतोऽन्या पृथिवी स्यात्तदा तस्या अचरमत्वं युज्यते नचास्ति सातस्मान्नाचरमाऽसाविति, अयंचवाक्यार्थोऽत्र-किमियं रलप्रभा पश्चिमाउत मध्यमा? इति, तदेतद्वितयमपि यथा न संभवति तथोक्तम् ।।
अथ 'नो चरिमाइं नो अचरिमाइंति कथं?, यदा तस्याश्चरमव्यपदेशोऽपि नास्ति तदा चरमाणीतिकथं भविष्यति?,एवमचरमाण्यपि,तथा 'नोचरिमंतपएसानोअचरिमंतपएस'त्ति, अत्रापि चरमत्वस्याचरमत्वस्य चाभावात्तत्प्रदेशकल्पनाया अप्यभाव एवेत्यत उक्तं-नो चरिमान्तप्रदेशा नोअचरिमान्तप्रदेशा रत्नप्रभा इति, किंतर्हि 'नियमात्' नियमेनाचरमंचचरमानि च, एतदुक्तं भवति-अवश्यंतयेयं केवलभङ्गवाच्या न भवति, अवयवावयविरूपत्वादसङ्घयेयप्रदेशावगाढत्वाद्यथोक्तनिर्वचनविषयैवेति।
तथाहि रत्नप्रभा तावदनेन प्रकारेण व्यवस्थितेति विनयेजनानुग्रहाय लिख्यते, एवमनवस्थितायां यानि प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्रखण्डानि तानि तथाविधविशिष्टैकपरिणामयुक्तत्वाच्चरमानि, यत्पुनर्मध्ये महद् रत्नप्रभाक्रान्तं क्षेत्रखण्डतदपितथा विधपरिणामयुक्तत्वाचरमंतदुभयसमुदायरूपाचेयमन्यथा तदभावप्रसङ्गात्, पदेशपरिकल्पनायां तु चरमान्तप्रदेशाश्चाचरमान्तप्रदेशाश्च, कथं ?, ये बाह्यखण्डप्रदेशास्ते चरमान्तप्रदेशाः ये च मद्यखण्डप्रदेशास्तेऽचरमान्तप्रदेशाइति, अनेनचैकान्तदुर्णयनिरासप्रधानेन निर्वचनसूत्रेणावयवावयविरूपं वस्त्वित्याह, तयोश्च भेदाभेद इति । एवं शर्करादिष्वपि, अथ कियडूरं तद्वाच्यम् ? इत्याह
'जावे'त्यादि, ये वैमानिकभवसम्भवं स्पर्श लप्स्यन्ते पुनस्तत्रानुत्पादेन मुक्तिगमनात्ते वैमानिकाः स्पर्शचरमेण चरमाः, ये तु तं पुनर्लप्स्यन्ते ते त्वचरमा इति ॥
शतक-८ उद्देशकः-३ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org