SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३६ भगवती अङ्गसूत्रं १/-/१/२१ 'इत्यादि, प्राग्वच्च व्याख्येयमिति ॥ एवं 'जाव वणस्सइकाइयाणं'ति, अनेन पृथिवीकायिकसूत्रामिवाकायिकादिसूत्राणि समानीत्युक्तं, स्थिती पुनर्विशेषोऽत एवाह नवरं 'ठिई वण्णेयव्वा जा जस्स' त्ति, तत्र जघन्या सर्वेषामन्तर्मुहूर्तम्, उत्कृष्टा त्वपां सप्त वर्षसहस्राणि तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि वनस्पतीनां दशेति, उक्ता चेयं पृथिव्यादिक्रमेण 119 11 “बावीसाई सहस्सा १ सत्त सहस्साई २ तिन्निऽहोरत्ता ३ । वाए तिन्नि सहस्सा ४ दस वाससहस्सिया रुक्खे ५ ॥ 'बेइंदियाणं ठिइ भणिऊण ऊसासो वेमायाए' त्ति वक्तव्य इति शेषः, स्थितिश्च द्वीन्द्रियाणां द्वादश वर्षाणि द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्- 'तत्थ णंजे से आभोगनिव्यत्तिए से णं असंखेजसमइए अंतोमुहुत्तिएवेमायाए आहारट्ठे समुप्पज्जइ 'त्ति, तस्यायमर्थः असङ्ख्यातसामयिक आहारकालो भवति, सचावसर्पिण्यादिरूपोऽप्यस्तीत्यत उच्यते - आन्तर्मौहूर्तिकः, तत्रापि विमात्रया अन्तर्मुहूर्ते समयासङ्ख्यातत्वस्यासङ्घयेयभेदत्वादिति । 'बेइंदियाणं, दुविहे आहारे पन्नत्ते, लोमाहारे पक्खेवाहारे य'त्ति, तत्र लोमाहारः खल्वोदातो वर्षादिषु यः पुद्गलप्रवेशः स मूत्राद्गम्यत इति, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बहवोऽस्पृष्टा एव शरीरादन्तर्बहिश्च विध्वंसन्ते स्थौल्यसौक्ष्म्याभ्याम्, अत एवाह- 'जे पोग्गले पक्खेवाहारत्तए गिरहंती' त्यादि 'अनेगाईच णं भागसहस्साइं ' ति असङ्ख्येया भागा इत्यर्थः, 'अनासाइजमाणाई' ति रसनेन्द्रियतः 'अफासाइजमाणाई' ति स्पर्शनेन्द्रियतः 'कयरे' इत्यादि यत्पदं तदेवं दृश्यम्- 'कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया व' त्ति व्यक्तं च 'सव्वत्योवा पोग्गला अनासाइजमाणे 'त्यादि, येऽनास्वाद्यमानाः केवलं रसनेन्द्रियविषयास्ते स्तोकाः, अस्पृश्यमाणानामनन्तभागवर्त्तिन इत्यर्थः, ये त्वस्पृश्यमाणाः केवलं स्पर्शनविषयास्तेऽनन्तगुणा रसनेन्द्रियविषयेभ्यः सकाशादिति । - 'ते इंदियचउरिंदियाणं नाणत्तंठिईए' ति, तच्चेदम्- 'जहन्त्रेणं अंतोमुहुततं उक्कोसेणं तेइंदियाणं एगूणपन्नासं इंदियाई चउरिंदियाणं छम्मासा' तथाऽऽहारेऽपि नानात्वं, तत्र च 'तेइंदियाणं भंते! जे पोग्गले आहारत्ता गेण्हंति' इत्यत आरभ्य तावत्सूत्रं वाच्यं यावत् 'अणेगाइं चणं भागसहस्साइं अणाधाइज्जमाणाई' इत्यादि, इह च द्वीन्द्रियसूत्रापेक्षयाऽनाद्रायमाणानीत्यतिरिक्तमतो नानात्वम्, एवमल्पबहुत्वसूत्रे परिणामसूत्रे च । चतुरिन्द्रियसूत्रेषु तुपरिणामसूत्रे 'चक्खिदियत्ता धाणिंदियत्ताए' इत्यधिकमिति नानात्वमिति पञ्चेन्द्रियतिर्यक्सूत्रे 'ठिइं भणिऊणं' ति जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणंतिन्नि पलि ओवमाई ति, इत्येतद्रूपास्थितिं भणित्वा ‘उस्सासो 'त्ति उच्छ्वासो विमात्रया वाच्य इति, तथा तिर्यक्पञ्चेन्द्रियाणामाहारार्थ प्रति यदुक्तम्- 'उक्कोसेणं छट्टभत्तस्स' त्ति तद्देवकुरूत्तरकुरुतिर्यक्षु लभ्यते । मनुष्यसूत्रे यदुक्तम् 'अष्टमभक्तस्ये 'ति तद्देवकुर्वादिमथुनकनरानाश्रित्य समवसेयमिति 'वाणमंतराण' मित्यादि, वानमन्तराणां स्थितौ नानात्वम्, 'अवसेसं' ति स्थितेरवशेषमायुष्कचर्जमित्यर्थः, प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणां तथा दृश्यं, व्यन्तराणां नागकुमाराणां चप्रायः समानधर्मत्वात्, तत्र व्यन्तराणां स्थितिर्जघन्येन दश वर्षसहास्रणि, उत्कर्षेण तु पल्योपमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy