SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ शतकं ७, वर्ग:-, उद्देशक:- ९ ३४३ तए णं तस्स वरुणस्स नागनत्तुयस्स तं दिव्वं देविडिं दिव्वं देवज्जुतिं दिव्वं देवानुभागं सुनिता य पासित्ताय बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेति एवं खलु देवाणुप्पिया ! बहवे मगुस्सा जाव उववत्तारो भवंति ॥ वृ. 'सारुड' त्ति संरुष्टाः मनसा 'परिकुविय'त्ति शरीरे समन्ताद्दर्शितकोपविकाराः 'समरवहिय'त्ति सङ्ग्रामे हताः 'रहमुसले 'ति यत्र रथो मुशलेन युक्तः परिघावन् महाजनक्षयं कृतवान् असौ रथमुशलः 'मग्गओ 'त्ति पृष्ठतः 'आयसं' ति लोहमयं 'किढिणपडिरूवगं' ति किठिनंवंशमयस्तापसम्बन्धी भाजनविशेषस्तत्प्रतिरूपकं तदाकारं वस्तु 'अनासए 'त्ति अश्वरहितः 'असारहिए' त्ति असारथिकः 'अनारोहए'त्ति 'अनारोहकः' योधवर्जितः 'महताजणक्खयं'ति महाजनविनाशं ‘जणवहं’ति जनवधं जनव्यथां वा 'जणपमद्दं' ति लोकचूर्णनं 'जणसंवट्टकप्पं' ति जनसंवर्त्त इवलोकसंहार इव जनसंवर्कल्पोऽतस्तम् । 'एगे देवलोगेसु उववन्ने एगे सुकुलपच्चायाए' तिति एतत्स्वत एव वक्ष्यति । 'पुव्वसंगइए 'त्ति कार्त्तिकश्रेष्ठयवस्थायां शक्रस्य कूनिकजीवो मित्रमभवत् 'परियायसंगइए' त्ति पूरणतापसावस्थायां चमरस्यासौ तापसपर्यायवर्त्ती मित्रमासीदिति । 'जन्नं से बहुजणो अन्नमन्नस्स एवमाइक्खइ' इत्यत्रैकवचनप्रकमे 'जे तेएवमाहंसु' इत्यत्र यो बहुवचननिर्देशः स व्यक्त्यपेक्षोऽवसेयः 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् 'उवलपुन्नपावा' इत्यादि ६श्यं 'पडिला भेमाणे' त्ति, इदं च 'समणे निग्गंथे फासुएणं एसनिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलर ओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे विहरइ' इत्येवं दृश्यं, ‘चाउग्घंटं’ति घण्टाचतुष्टयोपेतम् 'आसरहं'ति अश्ववहनीयं रथं 'जुत्तामेव 'त्ति युक्तमेव रथसामग्रयेति गम्यं 'सज्झय' मित्यत्र यावत्करणादिदं ६श्यं । ‘सघंटं सपडागं सतोरणवरं सणंदिधोसं सकिंकिणीहेमजालपेरंतपरिक्खित्तं' सकिङ्किणीकेनक्षुद्रघण्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः स तथा तं 'हेमवयचित्ततेनिसकणगनिउत्तदारुयागं' हैमवतानि - हिमवद्गिरिजातानि चित्रानि-विचित्रानि तैनिशानि-तिनिशाभिधानवृक्षसम्बन्धीनि स हि दृढोभवतीति तद्रहणं कनकनियुक्तानि नियुक्तकनकानि दारूनि यत्र स तथा तं 'सुसंविद्धचक्क मंडलधुरागं' सुष्ठु संविद्धे चक्रे यत्र मण्डला च वृत्ता धूर्यत्र स तथा तं 'कालायससुकयनेमिजंतकम्मं' कालायसेन -लोहविशेषेण सुष्ठु कृतं नेमेः चक्रमण्डलमालाया यन्त्रकर्म-बन्धनक्रिया यत्र स तथा तम् - - 'आइन्नवरतुरयसुसंपउत्तं' जात्यप्रधानाश्वैः सुष्ठु संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसार - हिसुसंपग्गाहियं' कुशलनररूपो यश्छेकसारथि - दक्षप्राजिता तेन सुष्ठु संप्रगृहीतो यः स तथा तं० 'सरसयबत्तीसयतोणपरिमंडियं' शराणां शतं प्रत्येकं येषु ते शरशतास्तैर्द्वात्रिंशता तोणैः- शरधिभि परिमण्डितोयः स तथा तं० 'सकंकंडवडेंसगं' सह कङ्कटैः कवचैरवतंसैश्च शेखरकैः शिरस्त्राणभूतैर्य स तथा तं 'सचावसरपहरणावरणभरियजोहजुद्धसज्जुं ' सह चापशरैर्यानि प्रहरणानि खड्गादीनी आवरणानि च-स्फुरकादीनि तेषां भृतोऽत एव योधानां युद्धसज्जश्च युद्धप्रगुणो यः स तथा तं, ‘चाउग्घंटं आसरहं जुत्तामेव' त्ति वाचनान्तरे तु साक्षादेवेदं दृश्यत इति । 'अयमेयारूवं' त्ति प्राकृतत्वादिदम् एतद्रुपं वक्ष्यमाणरूपं 'सरिसए' ति सध्शकः - समानः 'सरिसत्तए' त्ति सध्शत्वक् 'सरिसव्वए 'त्ति सधग्वयाः 'सरिसभंडमत्तोवगरणे' त्ति सध्शी भाण्डमात्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy