SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ शतकं ७, वर्ग:, उद्देशकः-८ ३३५ मू. (३६८) कति णं भंते ! सन्नाओ पन्नत्ताओ ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, तंजहा - आहारसत्रा १ भयसन्ना २ मेहुणसन्ना ३ परिग्गहसन्ना ४ कोहसन्ना ५ माणसन्ना ६ मायासन्ना ७ लोभसन्ना ८ लोगसन्ना ९ ओहसन्ना १०, एवं जाव वेमानियाणं || नेरइया दसविहं वेयनिजं पचनुभवमाणा विहरंति, तंजहा-सीयं उसिणं खुहं पिवासं कंडुं परज्झं जरं दाहं भयं सोगं ॥ वृ. 'कतिण' मित्यादि, तत्र सञ्ज्ञानं सञ्ज्ञा- आभोग इत्यर्थः मनोविज्ञानमित्यन्ते संज्ञायते वाऽनयेति सञ्ज्ञा वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा ' आहारसत्रे 'त्यादि, तत्र क्षुद्वेदनीचोदयात् कावलिकाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायते ऽनया तद्वानित्याहारसञ्ज्ञा, तथा भयमोहनीयोदयाद्भयोद्भ्रान्तदृष्टिवदनविकाररोमाञ्चभेदादिक्रियैय सञ्ज्ञायतेऽ नयेति भयसञ्ज्ञा, तथा पुंवेदाद्युदयान्मैथुनाय स्त्रयाद्यङ्गालोकन प्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रियैव सञ्ज्ञायते ऽनयेति मैथुनसञ्ज्ञा तथा क्रोधोदयादावेशगर्भा प्ररूक्षनयनदन्तच्छदस्फुरणादिचैटैव सञ्ज्ञायतेऽनयेति क्रोधसञ्ज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकक्रियैव सञ्ज्ञायते ऽनयेति मानसञ्ज्ञा, तथा मायोदयेनाशुभसहक्लेशादनृतसंभाषणादिक्रियैव सञ्ज्ञायतेऽनयेति मायासञ्ज्ञा, तथा लोभोदयाल्लालसान्वितासचित्तेतरद्रव्यप्रार्थः नैव सञ्ज्ञायतेऽनयेति लोभसञ्ज्ञा । तथा मतिज्ञानावरणक्षयोपशमाच्छब्दाद्यर्थः गोचरा सामान्यावबोधक्रियैव सञ्ज्ञायते वस्त्वनयेति ओधसञ्ज्ञा, एवं शब्दाद्यर्थः गोचरा विशेषावबोधक्रियैव सञ्ज्ञायतेऽनयेति लोकसञ्ज्ञा, ततञ्चौधसञ्ज्ञा दर्शनोपयोगी लोकसञ्ज्ञा तु ज्ञानोपयोग इति व्यत्ययं त्वन्ये, अन्ये पुनरित्थमभिदधति-सामान्यप्रवृत्तिरोधसञ्ज्ञा लोकष्टिस्तु लोसञ्ज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तु प्रायो यतोक्तक्रियानिबन्धनकर्मोदयादिरूपा एवावगन्तव्या इति । जीवाधिकारात्- 'नेरइये' त्यादि, 'परज्झत्ति पारवश्यम् । प्राग् वेदनोक्ता सा च कर्म्मवशात् तच्च क्रियाविशेषात् सा च महतामितरेषां च समैवेति दर्शयितुमाह मू. (३६९) से नूनं भंते! हत्थिस्स य कुंथुस्स य समा चेव अपच्चक्खाणकिरिया कजति हंता गोयमा ! हथिस्स य कुंथुस्स य जाव कज्जति। से केणट्टेणं भंते! एवं वुच्चइ जाव कज्जइ ?, गोयमा ! अविरतिं पडुछ, से तेणट्टेणं जाव कज्जइ । बृ. ' से नूनं भंते ! हत्थिस्से' त्यादि, अनन्तरमविरतिरुक्ता सा च संयतानामप्याधाकर्म्मभोजिनां कथञ्चिदस्तीत्यतः पृच्छति । मू. (३७०) आहाकम्मन्नं भंते ! भुंजमाणे किं बंधइ ? किं पकरेइ ? किं चिणाइ ? किं उवचिणाइ ? एवं जहा पढमे सए नवमे उद्देसए तहा भानियव्वं जाव सासए पंडिए पंडियत्तं असासयं, सेवं भंते! सेवं भंते त्ति ॥ वृ. 'अहे 'त्यादि, 'सासए पंडिए पंडियत्तं असासयं' ति अयमर्थः जीवः शाश्वतः पण्डितत्वमशाश्वतं चारित्रस्य भ्रंशादिति ॥ शतकं -७ उद्देशकः-८ समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy