________________
३१६
भगवतीअङ्गसूत्रं७/-/२/३४१ ॥२॥ एवं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं।
जं गेण्हंतऽनगारा अनिस्सियप्पा अपडिबद्धा ।। 'साकार मिति आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवो महत्तराकारादयः सहाकारैर्वर्त्तत इति साकारम्, अविद्यमानाकारमनाकारं-यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादौ महत्तराद्याकारमनुच्चारयद्भिर्विधीयते तदनाकारमिति भावः, केवलमनाकारेऽप्यनाभोगसहसाकारावुच्चारयितव्यावेव, काष्ठाङ्गुल्यादेर्मुखे प्रक्षेपणतो भङ्गो मा भूदिति, अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेवेति, परिमाणकृत मिति इत्यादिभिकृतपरिमाणम्, अभानि च॥१॥ “दत्तीहि व कवलेहि व घरेहि भिक्खाहिं अहव दब्वेहिं ।
जो भत्तपरिच्चायं करेति परिमाणकडमेयं ।।"
-'निरवशेष' समग्राशनादिविषयं, भनितंच॥१॥ “सव्वं असणं सव्वं च पाणगं सव्वखजपेजविहिं।
परिहरइ सव्वभावेणेयं भनियं निरवसेसं ।। साएयंचेव'त्ति केतः-चिह्नंसह केतेन वर्तते सकेतं, दीर्घताच प्राकृतत्वात्, सङ्केतयुक्तत्वाद्वा सङ्केतम्-अङ्गुष्ठसहितादि, यदाह
"अंगुट्टगंठीघरसेऊसासथिबुगजोइक्खे ।
भनियं सकेयमेयं धीरेहिं अनंतणाणीहिं ।। 'अद्धाए'त्ति अद्धा-कालस्तस्याः प्रत्याख्यानं-पौरुष्यादिकालस्य नियमनम्, आह च॥१॥ "अद्धापच्चक्खाणं जंतं कालप्पमाणछेणं ।
पुरिमट्ठपोरुसीहि मुहुत्तमासद्धमासेहिं ॥ मू. (३४२) देसुत्तरगुणपचच्चखाणेणंभंते! कइविहे पन्नत्ते?, गोयमा! सत्तविहे पन्नत्ते, तंजहा-दिसिव्ययं.१ उवभोगपरीभोगपरिमाणं २ अनत्थदंडवेरमणं ३ सामाइयं ४ देसावगासियं ५ पोसहोववासो ६ अतिहिसंविभागो ७ अपच्छिममारणंतियसंलेहणाझूसणाराहणता।
वृ. 'उवभोगपरिभोगपरिमाणं'ति उपभोगः-सकृद्भोगः, स चाशनपानानुलेपनादीनां, परिभोग-स्तु पुनः पुनर्भोगः, स चासनशयनवसनवनितादीनाम्।।
___'अपच्छिममारणंतियसलेहणाझूसणाराहणय'त्ति पश्चिमैवामङ्गलपरिहारार्थःमपश्चिमा मरणं-प्राणत्यागलक्षणम्, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न तद्गृह्यते, किं तर्हि ?, विवक्षितसर्वायुष्कक्षयलक्षणं इति, मरणमेवान्तो मरणान्तस्तत्रभवा मारणान्तिकी संलिख्यतेकृशीक्रियतेऽनया शरीरकषायादीति संलेखना-तपोविशेषलक्षणा ततः कर्मधारयाद् अपश्चिममारणान्तिकसंलेखना तस्या जोषणं-सेवनं तस्याराधनम्-अखण्डकालकरणं तद्भावः अपश्चिममारणान्तिकसंलेखनाजोषणाराधनता ।
इह च सप्त दिग्व्रतादयो देशोत्तरगुणा एव, संलेखना तु भजनया, तथाहि-सा देशोतरगुणवतो देशोत्तरगुणः, आवश्यके तथाऽभिधानात्, इतरस्य तु सर्वोत्तरगुणः साकारानाकारादिप्रत्याख्यानरूपत्वादिति संलेखनामविगणय्य सप्त देशोत्तरगुणा इत्युक्तम्, अस्याश्चैतेषु पाठो देशोत्तरगुणधारिणाऽपीयमन्ते विधातव्येत्यस्यार्थःस्य ख्यापनार्थः इति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org