________________
२७८
भगवतीअगसूत्रं ६/-/४/२८६ द्वयादिसमयोत्पन्नत्वेन सप्रदेशत्वाद् उच्यते-'सप्पएसा य अपएसे य'त्ति ।
एवं यदा बहव उत्पद्यमाना भवन्ति ते तदोच्यन्ते ‘सपएसा य अप्पएसा यत्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह॥१॥ “एगो व दो व तिन्नि व संखमसंखा व एगसमएणं ।
उववजन्तेवइया उव्वटुंतावि एमेव ॥" 'पुढविकाइया ण'मित्यादि, एकेन्द्रियाणां पूर्वोत्पन्नानामुत्पद्यमानानां च बहूनां सम्भवात् 'सपएसावि अप्पएसावी'त्युच्यते, सेसाजहानेरइए'त्यादि, यथा नारका अभिलापत्रयेणोक्तास्तथा शेषाद्वीन्द्रियादयः सिद्धावसाना वाच्याः, सर्वेषामेषां विहरसद्भावादेकाधुत्पत्तेश्चेति। एवमाहारकानाहारकशब्दविशेषितावेतावेकत्वपृथक्त्वदण्डकावध्येयौ।
___ अध्ययनक्रमश्चायम्-'आहारए णं भंते ! जीवे कलाएसेणं किं सपएसे २ ?,गोयमा ! सिय सप्पएसे सिय अप्पएसे'इत्यादि स्वधिया वाच्याः, तत्र यदा विग्रहे केवलिसमुद्घातेवाऽनाहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते तदा तपथमसमयेऽप्रदेशो द्वितीयादिषु तु सप्रदेश इत्यत उच्यते-सिय सप्पएसे सिय अप्पएसे'त्ति, एवमेकत्वे सर्वेष्वपि सादिभावेषु, अनादिभावेषु तु नियमा सप्पएसे'त्ति वाच्यं ।
पृथक्त्वदण्डके त्वेवमभिलापो दृश्यः-आहारया णं भंते! जीवा कालाएसेणं किं सप्पएसा अप्पएसा?,गोयमा! सप्पएसावि अप्पएसावित्ति तत्रबहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वं तथा वहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यत इति सप्रदेशा अपि अप्रदेशा अपीत्युक्तं, एवं पृथिव्यादयोऽप्यध्येयाः, नारकादयः पुनर्विकल्पत्रयेण वाच्याः, तद्यथा ।
___ 'आहारया णं भंते ! नेरइया किं सप्पएसा अप्पएसा ?, गोयमा! सव्वेऽपि ताव होज सप्पएसा १ अहवा सप्पएसा य अप्पएसेयर अहवा सप्पएसाय अप्पएसायेति ३, एतदेवाहआहारगाणं जीवेगिंदियवजो तियभंगो' जीवपदमेकेन्द्रियपदपञ्चकं च वर्जयित्वा त्रिकरूपो भङ्ग:त्रिकभङ्गो-भङ्गत्रयं वाच्यमित्यर्थः, सिद्धपदं त्विहन वाच्यं, तेषामनाहारकत्वात, अनाहारकदण्डकद्वयमप्येक्मनुसरणीयं, तत्रानाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली अयोगी सिद्धो वा स्यात्, सचानाहारकत्वप्रथमसमयेऽप्रदेशः द्वितीयादिषुतुसप्रदेशस्तेन स्यात्सप्रदेश इत्याधुच्यते
पृथक्त्वदण्डके विशेषमाह-'अनाहारगा णमित्यादि, जीवानेकेन्द्रियांश्च वर्जयन्तीति जीवैकेन्द्रियवर्जा, तान् वर्जयित्वेत्यर्थः,जीवपदे एकेन्द्रियपदेच 'सपएसाय अप्पएसा येत्येवंरूप एक एव भङ्गको, वहूनां विग्रहगत्यापन्नानां सप्रदेशानामप्रदेशानां च लाभात्, नारकादीनां द्वीन्द्रियादीनांचस्तोकतराणामुत्पादः, तत्र चैकद्वयादीनामनाहारकाणां भावात्षड्भङ्गिकासम्भवः, तत्र द्वौ बहुवचनान्तौ अन्ये तु चत्वार एकवचनबहुवचनसंयोगात्, केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति ।
'सिद्धेहिं तियभंगो'त्ति सप्रदेशपदस्य वहुवचनान्तस्यैवसम्भवात्, ‘भवसिद्धी यअभवसिद्धी यजहा ओहिय'त्ति, अयमर्थःऔधिकदण्डकवदेषां प्रत्येकं दण्डकद्वयं, तत्र च भव्योऽभव्यो वा जीवो नियमात्सप्रदेशः, नारकादिस्तु सप्रदेशोऽप्रदेशोवा, बहवस्तुजीवाः सप्रदेशा एव, नारकाद्यास्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org