________________
शतकं ६, वर्ग:, उद्देशकः ३
सिद्धश्च न बघ्नाति पृथिव्यादिकस्तु बघ्नातीति, भजना ।
परीत्तद्वारे 'परीत्ते भयणाए 'त्ति 'परीत्तः ' प्रत्येकशरीरोऽल्पसंसारो वा स च वीतरागोऽपि स्यातु न चासौ ज्ञानावरणीयं बघ्नाति सरागपरीत्तस्तु बघ्नातीति भजना, 'अपरित्ते बंधइ' ति 'अपरीत्तः' साधारणकायोऽनन्तसंसारो वा, स च बघ्नाति, नोपरित्तेनो अपरिते न बंधइत्ति सिद्धो न बघ्नातीत्यर्थः 'आउयं परीत्तोवि अपरित्तोवि भयणाए 'त्ति प्रत्येकशरीरादि आयुर्वन्धकाल एवायुर्बन्धातीति न तु सर्वदा ततो भजना, सिद्धस्तु न बघ्नात्येवेत्यत आह- 'नी परित्ते' इत्यादि ।
ज्ञानद्वारे 'हिट्टिल्ला चत्तारि भयणाए 'त्ति आभिनिबोधिकज्ञानिप्रभृतयश्चत्वारो ज्ञानिनो ज्ञानाचरणं वीतरागावस्थायां न बघ्नन्तीति सरागावस्थायां तु बघ्नन्तीति भजना, 'वेयनिज्जं हेट्ठिल्ला चत्तारिवि बंधंति' त्ति वीतरागाणामपि छद्मस्थानां वेदनीयस्य बन्धकत्वात्, 'केवलनाणी भयणाए'त्ति सयोगिकेवलिनां वेदनीयस्य बन्धनादयोगिनां सिद्धानां चाबन्धनाद्भजनेति ।
२७५
योगद्वारे 'हेट्टिल्ला तिन्नि भयणाए 'त्ति मनोवचनकाययोगिनो ये उपशान्तमोहक्षीणमोहसयोगिकेवलिनस्ते ज्ञानावरणं न वघ्नन्ति तदन्ये तु बघनन्तीति भजना 'अजोगी न बंधइति अयोगी केवली सिद्धश्च न बघ्नातीत्यर्थः 'वेयणिज्जं हेट्ठिल्ला बंधंति 'त्ति मनोयोग्यादयो वघ्नन्ति सयोगानां वेदनीयस्य बन्धकत्वात्, 'अयोगी न बंधइ' त्ति अयोगिनः सर्वकर्म्मणामबन्धकत्वादिति
उपयोगद्वारे 'अट्टसुवि भयणाए' त्त साकारनाकारो उपयोगौ सयोगानामयोगानां च स्यातां तत्रोपयोगद्वयेऽपि सयोगा ज्ञानावरणादि प्रकृतीर्यथायोगं वघ्नन्ति अयोगास्तु नेति भजनेति
आहारकद्वारे 'दोवि भयणाए 'त्ति आहारको वीतरागोऽपि भवति न चासौ ज्ञानावरणं बघ्नाति सरागस्तु बनातीति आहारको भजनया बघ्नाति, तथाऽनाहारकः केवली विग्रहगत्यापन्नश्च स्यात्तत्र केवली न बघ्नाति इतरस्तु बघ्नातीति अनाहारकोऽपि भजनयेति । 'वेयणिज्जं आहारए बंधइ'त्ति अयोगिवर्ज्ञानां सर्वेषां वेदनीयस्य बन्धकत्वात् ।
‘अनाहारए भयणाए’त्ति अनाहारको विग्रहगत्यापन्नः समुद्घातगतकेवली च बध्नाति अयोगि सिद्धश्च न बघ्नातीति भजना, 'आउए आहारए भयणाए 'त्ति आयुर्बन्धकाल एवायुषो बन्धनात् अन्यदा त्वबन्धकत्वाद्भजनेति 'अनाहारएन बंधति' त्ति विग्रहगतिगतानामप्यायुष्कस्याबन्धकत्वादिति ॥
सूक्ष्मद्वारे 'बायरे भयणाए 'त्ति वीतरागबादराणां ज्ञानावरणस्याबन्धकत्वात् सरागबादराणां च बन्धकत्वाद्भजनेति, सिद्धस्य पुनरबन्धकत्वादाह-'नो सुहुमे' इत्यादि, 'आउए सुहुमे बायरे भयणाए 'त्ति बन्धकले बन्धनादन्यदा त्वबन्धनाद् भजनेति ।
,
चरमद्वारे 'अट्ठवि भयणाए 'त्ति, इह यस्य चरमो भवो भविष्यति स चरमाः, यस्य तु नासौ भविष्यति सोऽचरमः सिद्धश्चाचरमः, चरमभवाभावात्, तत्र चरमो यथायोगमष्टापि बध्नाति अयोगित्वे तु नेत्येवं भजना, अचरमस्तु संसारी अथापि बघ्नाति सिद्धस्तु नेत्येवमत्रापि भजनेति ॥ मू. (२८५) एएसि णं भंते! जीवाणं इत्थवेदगाणं पुरिसवेदगाणं नपुंसगवेदगाणं अवेयगाण य कयरे २ अप्पा वा ४ ?, गोयमा ! सव्वत्थोवा जीवा पुरिसवेदगा इत्थिवेदगा संखेज्जगुणा अवेदगा अनंतगुणा नपुंसगवेदगा अनंतगुणा ।
एएसिं सव्वेसिं पदाणं अप्पबहुगाई उच्चारेयव्वाइं जाव सव्वत्थोवा जीवा अचरिमा चरिमा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International