________________
२५०
तं कसिणगुणविरामे पुणाइ दव्वं न ओगाहो ॥ संघाय भेयबंधानुवत्तिणी निच्चमेव दव्वद्धा ।
गुणकालो संघाय भेयमेत्तऽद्धसंबद्धो ॥ जम्हा तत्थऽन्नत्थ य दव्वे खेत्तावगाहणासुं च । ते चेव पज्जवा संति तो तदद्धा असंखगुणा ॥ आह अनेगंतोऽयं दव्वोवरमे गुणाणऽवत्थाणं । गुणविष्परिणामंमि यदव्वविसेसो यऽनेगंतो ।। विप्परिमयंमि दव्वे कम्मिं गुणपरिणई भवे जुगवं । कम्मिविपुण तदवत्थे होई पुण गुणा परीणामी गुणविष्परीणामो || भन्नइ सच्चं किं पुण गुणबाहुल्ला न सव्वगुणनासो । दव्वस्स तदन्नत्तेऽवि बहुतराणं गुणाण ठिई ॥
अयमर्थः- क्षेत्रस्यामूर्त्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्टबन्धप्रत्ययस्य- स्नेहादेरभावान्नैकत्र ते चिरं तिष्ठन्तीति शेषः, यस्मादेवं तत इत्यादि व्यक्तं ।
1199 11
॥ १२ ॥
॥१३॥
॥ १४ ॥
भगवती अङ्गसूत्रं ५/-/७/२५९
119411
अथावगाहनायुर्बहुत्वं भाव्यते-इह पूर्वार्द्धन क्षेत्राद्धाया अधिका अवगाहनाद्धेत्युक्तम्, उत्तरार्द्धेन त्ववगाहनाद्धातो नाधिका क्षेत्राद्धेति । कथमेतदेवमिति ?, उच्यते, अवगाहनायामगमनक्रियायां च नियता क्षेत्राद्धाः विवक्षेत्राद्धाया अभावेऽपि तस्या भावादिति अथ निगमनम् 'जम्हें' त्यादि ।
अथ द्रव्यायुर्वहुत्वं भाव्यते - सङ्घोचेन विकोचेन चोपरतायामप्यवगाहनायां यावन्ति द्रव्यानि पूर्वमासंस्तावतामेव चिरमपि तेषामवस्थानं संभवति, अनेनावगाहनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्युक्तं, अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्त्तत एवेत्युच्यते-सङ्घातेन पुग्दलानां भेदेन वा तेषामेव यः सङ्क्षिप्तः स्तोकावगाहनः स्कन्धो न तु प्राक्तनावगाहनः तत्र यो द्रव्योपरमोद्रव्यान्यथात्वं तत्र सति, न च सङ्घातेन स सङ्क्षिप्तः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनापि तत्परिणतेः श्रवणात्, नियमात्तेषां द्रव्याणामवगाहनाया नाशो भवति, कस्मादेवमित्यत उच्यतेअवगाहनाद्धा द्रव्येऽवबद्धा नियतत्वेन संबद्धा कथं ?, सङ्कोचाद्विकोचाच्च्, सङ्कोचविकोचादि परिहृत्येत्यर्थः, अवगाहना हि द्रव्ये सङ्कोचविकोचयोरभावे सति भवति तत्सद्भावे च न भवतीत्येवं द्रव्येऽवगाहना नियतत्वेन संम्बद्धेत्युच्यते द्रुमत्वे खदिरत्वमिवेति
उक्तविपर्ययमाह-न पुनद्रव्यं सङ्कोचविकोच मात्रे सत्यप्यवगाहनायां नियतत्वेन संबद्धं, सङ्कोचविकोचाभ्यामवागनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्यवगाहनायां तन्त्रियतत्वेनासंबद्धमित्युच्यते, खदिरत्वे द्रुमत्ववदिति । अथ निगमनम् ।
अथ भावायुर्बहुत्वं भाव्यते - सङ्घातादिना द्रव्योपरमेऽपि पर्यवाः सन्ति, यथा मृष्टपटे शुक्लादिगुणाः, सकलगुणोपरमे तु न तद्रव्यं न चावगाहनाऽनुवर्त्तते, अनेन पर्यवाणां चिरं स्थानं द्रव्यस्य त्वचिरमित्युक्तम्, अथ कस्मादेवमिति ?, उच्यते सङ्घातभेदलक्षणाभ्यां धर्माभ्यां यो बन्धः - सम्बन्धस्तदनुवर्त्तनी - तदनुसारिणी, सङ्घाताद्यभाव एव द्रव्याद्धायाः सद्भावातद्भावे चाभावात्, न पुनर्गुणकालः सङ्घातभेदमात्रकालसंबद्धः, सङ्घातादिभावेऽपि गुणानामनुवर्त्तनादिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org