________________
शतकं-५, वर्गः-, उद्देशकः-३
२२७
तया, 'अन्नमनघडताए'त्ति अन्योऽन्यं घटा-समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता तया चिट्ठइत्ति आस्ते, इति दृष्टान्तोऽथ दान्तिक उच्यते-‘एवामेव'त्तिअनेनैवन्यायेन बहूनां जीवनां सम्बन्धीनि 'बहूसुआजाइसहस्सेसु'त्ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणभूतेषु बहून्यायुष्कसहस्राणि तत्स्वामिजीवानामाजीतानां च बहुशतसहस्रसङ्घयत्वात्, आनुपूर्वीग्रथितानीत्यादि पूर्ववद्वयाख्येयं नवरमिह भारिकत्वं कर्मपुद्गलापेक्षया वाच्यम् ॥ अथैतेषामायुषां को वेदनविधि-? इत्याह
“एगेऽविये'त्यादि, एकोऽपिचजीवआस्तामनेकः, एकेनसमयेनेत्यादिप्रथमशतकवत्, अत्रोत्तरं-'जे ते एवमाहंसु'इत्यादि, मिथ्यात्वं चैषामेवम्-यानि हि बहूनां जीवनां बहून्यायूंषि जालग्रन्थिकावत्तिष्ठन्ति तानि यथास्वं जीवप्रदेशेषुसंबद्धानिस्युरसंबद्धानि वा?, यदि संबद्धानि तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्पयितुं शक्या ?, तथाऽपि तत्कल्पनेजीवानामपिजालग्रन्थिकाकल्पत्वं स्यात्तत्संबद्धत्वात्, तथाच सर्वजीनांसर्वायुःसंवेदनेन सर्वभवभवनप्रसङ्ग इति । अथ जीवानामसंबद्धान्यायूंषि तदा तद्वशाद्देवादिजन्मेति न स्यादसंबद्धत्वादेवेत, यच्चोक्तमेकोजीवएकेनसमयेन द्वे आयुषी वेदयतितदपि मिथ्या, आयुर्द्वयसंवेदने युगपद्भवद्वय-प्रसङ्गादिति।
'अहं पुण गोयमे त्यादि, इह पक्षे जालग्रन्थिका-सङ्कलिकामात्रम्, ‘एगमेगस्से'त्यादि, एकैकस्य जीवस्य न तुबहूनां बहुधा ष्वाजातिसहस्रेषुक्रमवृत्तिष्वतीतकालिकेषुतत्कालापेक्षया सत्सु बहून्यायुःसहस्राण्यतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिबद्धमित्येवं सर्वानि परस्परंप्रतिबद्धानि भवन्तिनपुनरेकभव एव बहूनि 'इहभवियाउयं वत्ति वर्तमानभवायुः 'परभवियाउयं वत्ति परभवप्रायोग्यं यद्वर्तमानभवे निबद्धं तत्र परभवगतो यदा वेदयति तदा व्यपदिश्यते 'परभवियाउयं वत्ति ।। आयुः-प्रस्तावादिदमाह
मू. (२२४) जीवेणंभंते! जे भविए नेरइएस उववजित्तए सेणं भंते! किं साउए संकमइ निराउए संकमइ?, गोयमा! साउए संकमइ नो निराउए संकमइ । से णंभंते! आउए कहिं कडे कहिं समाइन्ने?, गोयमा! पुरिमे भवे कडे पुरिमे भवे समाइन्ने, एवंजाव वेमानियाणं दंडओ।
से नूनं भंते ! जे जंभविए जोणिं उववन्नित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा जाव देवाउयं वा ?, हंता गोयमा ! जे जंभविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तंजहानेरइयाउयंवा तिरि० मणु० देवाउयं वा, नेरइयाउयंपकरेमाणे सत्तविहं पकरेइ, तंजहा-रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरइयाउयं वा, तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ । तंजहा-एगिदियतिरिक्खजीनियाउयं वा, भेदो सव्वो भाणियब्यो,
मणुस्साउयंदुविहं, देवाउयं चउब्विहं, सेवं भंते ! सेवं भंते ! ॥
वृ. 'जीवे णमित्यादि, ‘से णं भंतेत्ति अथ तद्भदन्त ! 'कहिं कडेत्ति क्व भवे बद्धं 'समाइन्ने'त्ति समाचरितं तद्धेतुसमाचरणात, 'जे जंभविए जोनि उववज्जित्तए'त्ति विभक्तिपरिणामाद्यो यस्यां योनावुत्पत्तुंयोग्य इत्यर्थः ‘मणुस्साउयंदुविह'तिसंमूर्छिमगर्भव्युत्क्रान्तिकभेदाद्विधा 'देवाउयं चउबिहंति भवनपत्यादिभेदादिति।
शतकं-५ उद्देशकः-३ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org