SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ शतक-३, वर्गः-, उद्देशकः-७ __ २०९ 'महायुद्ध'त्तिमहायुद्धानिव्यवस्थाविहीनमहारणाः 'महासंगाम ति सव्यवस्थचक्रादिव्यूहरचनोपेतमहारणाः महाशस्त्रनिपातनादयस्तु त्रयो महायुद्धादिकार्यभूताः। 'दुब्भूय'त्तिदुष्टा-जनधान्यादीनामुपद्रवहेतुत्वाद्भूताः-सत्त्वाः यूकामत्कुणोन्दुरतिड्डप्रभृतयो दुर्भूता ईतय इत्यर्थः, इन्द्रग्रहादयः उन्मत्तताहेतवः, एकाहिकादयोज्वरविशेषाः, 'उव्वेयग'त्ति उद्वेगका इष्टवियोगादिजन्या उद्वेगाः उद्वेजका वा लोकोद्वेगकारिणश्चौरादयः 'कच्छकोह'त्ति कक्षाणां-शरीरवयवविशेषाणां वनगहनानां वा कोथा:-कुथितत्वानि शटितानि वा कक्षाकोथाः कक्षकोथा वा। मू. (१९६) अंबे १ अंबरिसे चेव २, सामे ३ सबलेत्ति यावरे ४ । रुद्दो ५-वरुद्दे ६ काले ७ य, महाकालेत्ति यावरे ८॥ वृ. 'अम्ब' इत्यादयः पञ्चदशासुरनिकायान्तर्तिनः परमाधार्मिकनिकायाः, तत्रयोदेवो नारकानम्बरतले नीत्वा विमुञ्चत्यसौ अम्बइत्यभिदीयते १, यस्तु नारकान् कल्पनिकाभिखण्डशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्यसावम्बरीषस्य-भ्राष्ट्रस्य सम्बन्धादम्बरीष एवोच्यते २, यस्तु तेषांशातनादि करोति वर्णतस्तुश्यामः स श्याम इति ३, ‘सबलेत्तियावरे'त्ति शबल इतिचापरो देव इति प्रक्रमः, स च तेषामन्त्रहृदयादीन्युत्पाटयति वर्णतश्च शबलः कर्बुर इत्यर्थः ४ । यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति ५, यस्तु येषामेवाङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति ६, यः पुनः कण्डादिषुपचतिवर्णतश्च कालः स काल इति ७, 'महाकालेत्ति यावरे'त्ति महाकाल इति चापरो देव इति प्रक्रमः, तत्र यः श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकालः स महाकाल इति ८॥ मू. (१९७) असिपत्ते ९ धणू १० कुंभे ११ वालू १२ वेयरणीत्तिय १३॥ खरस्सरे १४ महाघोसे १५, एए पन्नरसाहिया ।। वृ. 'असीय'त्ति यो देवोऽसिना तान् छिनत्ति सोऽसिरेव ९, 'असिपत्ते'त्ति अस्याकारपत्रवदनवनविकुर्वणादसिपत्रः १०, कुंभेत्तिकुम्भादिषुतेषांपचनात्कुम्भः १, क्वचित्पठ्यते असिपत्तेघणूंकुंभे'त्ति, तत्रासिपत्रकुम्भौ पूर्ववत्, ‘घणुत्तियो धनुर्विमुक्तार्द्धचन्द्रादिभिर्बाणैः कर्णादीनां छेदनभेदनादि करोति स धनुरिति ११, 'वालु'त्ति कदम्बपुष्पाद्याकारवालुकासु यः पचति स वालुक इति १२। 'वेयरणीति य' वैतरणीति च देव इति प्रक्रमः, तत्र पूयरुधिरादिभृतवैतरण्यभिधाननदीविकुर्वणाद्वैतरणीति १३, 'खरस्सर'त्तियोवज्रकण्टकाकुलशाल्मलीवृक्षमारोप्य नारकंखरस्वरं कुर्वन्तं कुर्वन् वा कर्षत्यसौ खरस्वरः १४, ‘महाघोसि'त्ति, यस्तु भीतान् पलायमानान्नारकान् पशूनिव वाटकेषु महाघोषं कुर्वनिरुणद्धि स महाघोष इति १५।। 'एए पन्नर'त्ति एवम्' उक्तन्यायेन ‘एते' यमयथाऽपत्यदेवाः पञ्चदश आख्याता इति मू. (१९८) सक्कस्स णं देविंदस्स देवरन्नो जमस्स महारत्री सत्तिभागं पलिओवमं ठिती पन्नत्ता, अहावचाभिन्नायाणंदेवाणंएगपलिओवमंठिती प०, एवंमहिडिएजावजमेमहाराया। [5/14 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy