________________
शतकं-३, वर्गः-, उद्देशकः-३
१९५ ___ 'जीवेणमित्यादि, नोएयइत्ति शैलेशीकरणेयोगनिरोधात्रोएजतइति, एजनादिरहितस्तु नारम्भादिषुवर्ततेतथा चनप्राणादीनांदुःखापनादिषुतताऽपिच योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति, तत्र दृष्टान्तद्वयमाह-'सेजहे त्यादि, 'तिणहत्थयातितृणपूलकं 'जायतेयंसित्तिवह्नो 'मसमसाविजईतिशीघ्रंदह्यते, इहच सृष्टान्तद्वयस्याप्युपनयार्थः सामर्थ्यगम्यो यथा-एवमेजनादिरहितस्य शुक्लध्यानचतुर्थःभेदानलेन कर्मदाह्यदहनं स्यादिति अथ निष्क्रियस्यैवान्तक्रिया भवतीति नौष्टान्तेनाह ।
'से जहानामए'इत्यादि, इह शब्दार्थः प्राग्वन्नवरम् ‘उद्दाईत्ति उद्याति जलस्योपरि वर्त्तते 'अत्तत्तासंवुडस्स’त्ति आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थः, एतदेव इरियासमियस्से'त्यादिना प्रपञ्चयति आउत्त'ति आयुक्तमुपयोगपूर्वकमित्यर्थः 'जावचक्खुपम्हनिवायमविपत्ति किंबहुना आयुक्तगमनादिनास्थूलक्रियाजालेनोक्तेन? यावच्चक्षुपक्ष्मनिपातोऽपि,प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति आस्तां गमानिदका तावदिति शेषः 'वेमाय'त्ति विविधमात्रा, अन्तर्मुहूत्तदिर्देशोनपूर्वकोटीपर्यन्तस्य क्रियाकालस्य विचित्रत्वात्, वृद्धाः पुनरेवमाहुः-यावता चक्षुषो निमेषोन्मेषमात्राऽपि क्रिया क्रियते तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपीति, क्वचि-द्विमात्रेत्यस्य स्थाने 'सपेहाएत्ति दृश्यते तत्र च 'स्वप्रेक्षया' स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः 'सुहमत्ति सूक्ष्मबन्धादिकाला 'ईरियावहिय'त्ति ईर्यापथो-गमनमार्गस्तत्र भवा एपिथिकी केवलयोगप्रत्ययेति भावः किरिये ति कर्म सातवेदनीयमित्यर्थः 'कञ्जइत्ति क्रियते भवतीत्यर्थः।
उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्ती वीतरागोऽपि हि सक्रियत्वात्सातवेधं कर्म बन्धीतिति भावः, 'सेति ईर्यापथिकी क्रिया पढमसमयबद्धपुढ'त्ति (प्रथमसमये)बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशः स्पर्शनात्ततः कर्मधारयो तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तता द्वितीयसमये वेदिता-अनुभूतस्वरूपा, एवं तृतीयसमये 'निर्जी' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशाटितेति।
एतदेव वाक्यान्तरेणाह-साबद्धा स्पृष्टा प्रथमे समये द्वितीयेतु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति?-वेदिता, न ह्येकस्मिन् समये उदीरणा उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये नु निर्जीर्णा, ततश्च सेयकाले'त्ति एष्यत्काले 'अकम्मं वावित्ति अकर्माऽपि च भवति, इह च यद्यपितृतीयऽपि समये कर्माकर्मभवति तथाऽपितत्क्षण एवातीतभावकर्मत्वेनद्रव्यकर्मत्वात्, तृतीयेनिर्जीर्णं कर्मेतिव्यपदिश्यते, चतुर्थादिसमयेषुत्वकर्मेति, 'अत्तत्तासंवुडस्से त्यादिनाचेदमुक्तंयदि संयतोऽपि साश्रवः कर्म बन्धाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्मजलपूर्वमाणतयार्थःतोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वाकर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्द्धगमनं सामथ्या१पनीतमवसेयमिति
अथयदुक्तंश्रमणानांप्रमादप्रत्ययाक्रिया भवतीति, तत्र प्रमादपरत्वंतद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह
मू. (१८२) पमत्तसंजयस्स णं मंते ! पमत्तसंजमे वट्टमाणस्स सव्वावि य णं पमतद्धा कालओ केवच्चिरं होइ ?, मंडियपुत्ता ! एगजीवं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं देसूणा
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org