SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ शतकं - ३, वर्ग:, उद्देशकः-२ खेत्तं चमरे ३ अहे ओवयइ इक्केणं समएणं तं सक्को दोहिं' ति वक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, ‘जावइय’मित्यादिसूत्रद्वयमधः क्षेत्रापेक्षं पूर्ववद्वयाख्येयं, 'एवं खलु' इत्यादि च निगमनम् । अथ शक्रादीनां प्रत्येकं गतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह- 'सक्कस्से' त्यादि, तत्र ऊर्द्धमधस्तिर्यक्च यो गतिविषयो- गतिविषयभूतं क्षेत्रमनेकविधं तस्य मध्ये कतरो गतिविषयः कतरस्मादतिविषयात्सकाशादल्पादि ? इति प्रश्नः, उत्तरं तु सर्वस्तोकमधः क्षेत्रं समयेनावपतति, अधो मन्दगतित्वाच्छन्नस्य, 'तिरियं संखेज्जे भागे गच्छइ 'त्ति कल्पनया किलैकेन समयेन योजनमधो गच्छति शक्रः, तत्र च योजने द्विधाकृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः सङ्घयेया भागा भवन्ति अतस्तान् तिर्यग् गच्छति, सार्द्ध योजनमित्यर्थः, तिर्यग्गतौ तस्य शीघ्रगतित्वात्, 'उड्डुं संखेज्जे भागे गच्छत्ति यान् किल कल्पनया त्रीन् द्विभागांस्तिर्यग्गच्छति तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः सङ्ख्यातभागाः संभवन्ति अतस्तानूद्ध गच्छति । अथ कथं सूत्रे सङ्ख्यातभागमात्रग्रहणे सतीदं नियतभागव्याख्यानं क्रियते ?, उच्यते, 'जावइयं खेत्तं चमरे ३ अहे ओवयइ एक्केणं समएणं तं सक्के दोहिं', तथा 'सक्कस्स उप्पयणकाले चमरस्स ओवयणकाले एते णं दोन्निवि तुल्ला' इति वचनतो निश्चीयते शक्रो यावदघी द्वाभ्यां समयाभ्यां गच्छति तावदूर्द्धमेकेनेति द्विगुणमधः क्षेत्रादूर्ध्वक्षेत्रं, एतयोश्चापान्तरालवर्त्ति तिर्यक्-क्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन भवितव्यमित्यधः क्षेत्रापेक्षया तिर्यक्क्षेत्रं सार्द्ध योजनं भवतीति व्याख्यातं, आह च चूर्निकारः-'एगेणं समएणं ओवयइ अहे जोयणं एगेणेव समएणं तिरियं दिवडुं गच्छइ उड्डुं दो जोयणानि सक्को 'त्ति । 'चमरस 'मित्यादि 'सव्वत्थोवं खेत्तं चमरे ३ उङ्कं उप्पयइ एक्केणं समएणं' ति, ऊर्ध्वगतौ मन्दगतित्वात्तस्य, तच्च किल कल्पनया त्रिभागन्यूनं गव्यूतत्रयं, ‘तिरियं संखेचे भागे 'त्ति तस्मिन्नेव पूर्वोक्ते त्रिभागन्यूनगव्यूतत्रये द्विगुनिते ये योजनस्य सङ्घयेया भागा भवन्ति तान् गच्छति, तिर्यग्गती शीघ्रतरगतित्वात्तस्य, 'अहे संखेजे भागे गच्छइति पूर्वोक्ते त्रिभागद्वयन्यूने गव्यूतषट्के त्रिभागन्यूनगव्यूतत्रये मीलिते य सङ्केयभागा भवन्ति तान् गच्छति, योजनद्वयमित्यर्थः अथ कथं सङ्ख्यात भागमात्रोपादाने नियतसङ्घयेयभागत्वं व्याख्यायते ?, उच्यते, शक्रस्योर्द्धगतेश्चमरस्य चोधोगतेः समत्वमुक्तं, शक्रस्य चोर्द्धगमनं समयेन योजनद्वयरूपं कल्पितमतश्चमरस्याधोगमनं समयेन योजनद्वयमुक्तं, तथा 'जावइयं सक्के ३ उड्डुं उप्पयइ एगेमं समएणं तं वज्जं दोहिं जं वज्रं दोहिं तं चमरे तिहिं ति वचनसामर्थ्यात् प्रतीयते शक्रस्य यदूर्ध्व गतिक्षेत्रं तस्य त्रिभागमात्ररूपं चमरस्योर्द्धगतिक्षेत्रमतो व्याख्यातं त्रिभागन्यूनत्रिगव्यूतमानं तदिति, ऊर्ध्वक्षेत्राधोगतिक्षेत्रयोश्चापानतरालवर्त्ति तिर्यक्क्षेत्रमितिकृत्वा त्रिभागद्वयन्यूनषडगव्यूतमानं तद्वयाख्यातमिति । १८९ यच चूर्निकारेणोक्तं 'चमरो उड्डुं जोयण' मित्यादि तन्नावगतं, 'वज्रं जहा सक्करस तहेव' त्ति वज्रमाश्रित्य गतिविषयस्याल्पबहुत्वं वाच्यं यथा शक्रस्य तथैव, विशेषद्योतनार्थं त्वाह- 'नवरं विसेसाहियं कायव्वं 'ति, तच्चैवम्- 'वज्रस्स णं भंते ! उड्डुं अहे तिरियं च गइविसयस्स कयरे कयरेहिंतो अप्पे वा ४ ?, गोयमा ! सव्वत्थोवं खेत्तं वजे अहे ओवयइ एक्केणं समएणं तिरियं विसेसाहिए भागे गच्छइ उड्ड विसेसाहिए भागे गच्छइ 'त्ति, वाचनान्तरे तु एतत्साक्षादेवोक्तमिति, Jain Education International For Private & Personal Use Only " www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy