________________
१७४
भगवतीअगसूत्रं ३/-19/१६० ततश्चतस्य दक्षिणाद्भुजादष्टोत्तरंशतं देवकुमाराणां वामाच्च देवकुमारीणां निर्गच्छति स्म, ततश्च विविधातोद्यस्वगीतध्वनिरञ्जित जनमानसं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासेति ।
"तए णं से ईसाणे देविंदे २ तं दिव्वं देविडिं' यावत्करणादिदमपरं वाच्यं यदुत 'दिव्वं देवजुई दिव्वं देवानुभावं पडिसाहरइ साहरित्ताखणेणंजाए एगभूए ।
तए णं ईसाणे ३ समणं भगवं महावीरं वंदित्ता नमंसित्ता नियगपरियालसंपरिवुडे'त्ति 'परियाल'त्ति परिवारः । 'कूडागारसालादिलुतो'त्ति कुटाकारेण-शिखराकृत्योपलक्षिता शाला या सा तथा तया दृष्टान्तो यः सतथा, स चैवं-भगवन्तं गौतम एवमवादीत्-ईशानेन्द्रस्य सा दिव्या देवर्द्धि :क्वगता? (क्वनुप्रविष्टाः,) गौतम ! (शरीरंगता) शरीरकमनुप्रविष्टा ।
___ अथ केनार्थेनैवमुच्यते ?, गौतम! यथा नाम कूटाकारशाला स्यात्, तस्याश्चादूरेमहान् जनसमूहस्तिष्ठति, सच महाघ्रादिकमागच्छन्तं पश्यति, दृष्ट्वाचतांकूटागारशालामनुप्रविशति, एवमीशानेन्द्रस्य सा दिव्यादेवर्द्धिः (शरीरं गता) शरीरकमनुप्रविष्टेति । 'किन्ने तिकेन हेतुना? 'किंवा दचे त्यादि, इह दत्त्वाऽशनादि भुक्त्वाऽन्तप्रान्तादि कृत्वा तपःशुभध्यानादिसमाचर्यच प्रत्युपेक्षाप्रमार्जनादि, 'कस्स वे' त्यादिवाक्यस्य चान्ते पुण्यमुपार्जितमिति वाक्यशेषो दृश्यः, 'जन्नति यस्मात्पुण्यात् णमित्यलङ्कारे ।
'अत्थिता मे पुरापोराणाण'मित्यादिपुरा-पूर्वं कृतानामितियोगः,अत एव पोराणाणति पुराणानां 'सुचिन्नाणं ति दानादिसुचरितरूपाणां 'सुपरक्ताणं ति सुष्ठु पराक्रान्तं-पराक्रमस्तपःप्रभृतिकं येषुतानितथा तेषां, शुभानामावहत्वेन कल्याणानामनर्थोपशमहेतुत्वेनेति, कुतोऽस्ति इत्याह-'जेणाह'मित्यादि, पूर्वोक्तमेव किञ्चित्सविशेषमाह-'विउल धनकणगरयणमणिमोत्तियसं खसिलप्प वालरत्तरयण संतसारसावएज्जेणंतिइहधन-गणिमादिरत्नानि-कर्केतनादीनि मणयःचन्द्रकान्ताद्याः सिलाप्रवालानि-विद्रुमानि, अन्ये त्वाह:-शिला-राजपट्टादिरूपाः प्रवालं-विद्रमं रक्तरत्नानि-पद्मरागादीनि, एतद्रूपं यत् 'संत'त्ति विद्यमानं सारं-प्रधानं स्वापतेयं-द्रव्यं तत्तथा तेन ‘एगंत- सोक्खयंति एकान्तेन क्षयं, नवानां शुभकर्मणामनुपार्जनेन, 'मित्ते'त्यादि, तत्र मित्रानि-सुहृदो ज्ञातयः-सजातीयाः निजका-गोत्रजाः सम्बन्धिनोमातृपक्षीयाः श्वशुरकुलीना वापरिजनो-दासादि ‘आढाइत्तिआद्रियते परिजाणइत्तिपरिजानाति स्वामितया पाणामाएत्ति प्रणामोऽस्ति विधेयतया यस्यां सा प्राणामा तया, 'सुद्धोयणं ति सूपकाशादिवर्जितं कूर 'तिसत्तषुत्तो'त्ति त्रिसप्तकृत्वः, एकविंशतिवरानित्यर्थः, 'आसाएमाणे'त्ति ईषत्स्वादयन् 'वीसाएमाणे ति विशेषेण स्वादयन् स्वाधविशेष परिभावमाणे त्ति ददत् 'परिभुजेमाणे'त्ति भोज्यं परिभुआनः।
"जिमियभुतुत्तरागए'त्ति जिमिय'त्तिप्रथमैकवचनलोपात्जेमितः-मुक्तवान् ‘भुत्तोत्तरत्ति भुक्तोत्तरं-भोजनोत्तरकालम् 'आगए'त्तिआगतः उपवेशनस्थाने भुक्तोत्तरागतः, किंभूतः सन् इत्याह-'आयते'त्तिआचान्तः-शुदधोदकयोगेन 'चोक्ख'त्तिचोक्षः लेपसिक्खाद्यपनयनेनातएव परमशुचिभूत इति।
'जंजत्थ पासइत्तियम् इन्द्रादिकं यत्र-देशे काले वापश्यति तस्य तत्र प्रणामं करोतीति वाक्यशेषोश्यः 'खंदं वत्तिस्कन्दंवा-कार्तिकेयं रुदंवा महादेवं सिवंय'त्ति व्यन्तरविशेषम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org