SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५६ भगवतीअङ्गसूत्रं २/-1८/१४० अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थणंचमरस्सचउसट्ठीए सामाणिय-साहस्सीणंचउसट्ठीए भद्दासणसाहस्सीओपन्नत्ताओएवंपुरच्छिमेणं पंचण्हंअग्गमहिसीणंसपरिवाराणं पंचभद्दासणाई सपरिवाराई दाहिणपुरच्छिमेणं अभितरियाए परिसाए चउव्वीसाए देवसाहस्सीणं चउव्वीसं भद्दासणसाहस्सीओ एवं दाहिणेणं मज्झिमाए अट्ठावीसं भद्दासनसाहस्सीओ, दाहिणपञ्चत्थिमेणं बाहिरियाए बत्तीसं भद्दासणसाहस्सीओ पञ्चत्थिमेणं सत्तण्हं अनियाहिवईणं सत्तभद्दासणाईचउद्दिसिं आयरक्खदेवाणं चत्तार भद्दासणसहस्सचउसट्ठीओत्ति, 'तेत्तीसं भोम'त्ति वाचनान्तरे श्यते, तत्र भौमानि-विशिष्टस्थानानि नगराकाराणीत्यन्ते, 'उवयारियलेणं तिगृहस्य पीठबन्धकल्पं 'सव्वप्पमाणंचेमाणियप्पमाणस्सअद्धंनेयव्वं ति, अयमर्थः यत्तस्यां राजधान्यां प्राकारप्रासादसभादिवस्तु तस्य सर्वस्योच्छ्रयादिप्रमाणंसौधर्मवैमानिकविमानप्राकारप्रासादसभादिवस्तुगतप्रमाणस्याईच नेतव्यं, तथाहि____सौधर्मवैमानिकानां विमानप्राकारो योजनानां त्रीणि शतान्युच्चत्वेन, एतस्यास्तु सार्द्ध शतं, तथा सौधर्मवैमानिकानां मूलप्रासादः पञ्चयोजनानां शतानितदन्ये चत्वारस्तत्परिवारभूताः साढे द्वे शते ४ प्रलोकं च तेषां चतुर्णामप्यन्ये परिवारभूताश्चत्वारः सपादशतम् १६ एवमन्ये तत्परिवारभूताः सार्धा द्विषष्टि ६४ एवमन्ये सपादैकत्रिंशत् २५६, इह तु मूलप्रासादाः साढे द्वे योजनशते एवमर्द्धार्द्धहीनास्तदपरे यावदन्तिमाः पञ्चदश योजनानि पञ्च च योजनस्याष्टांशाः, एतदेव वाचनान्तरे उक्तम् 'चत्तारिपरिवाडीओपासायवडेंसगाणंअद्धद्धहीनाओ'त्तिएतेषांचप्रासादानांचतसृष्वपि परिपाटीषु त्रीणि शतान्येकचत्वारिंशदधिकानि भवन्ति, एतेभ्यः प्रासादेभ्य उत्तरपूर्वस्यां दिशि सभासुधर्मा सिद्धायतनमुपपातसभा ह्रदोऽभिषेकसभाऽलङ्कारसभाव्यवसायसभा चेति, एतानि च सुधर्मसभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽर्द्धप्रमाणानि, ततश्चोच्छ्रय इहैषां षट्त्रिंशद्योजनानिपञ्चाशदायामोविष्कम्भश्चपञ्चविंशतिरिति, एतेषांच विजयदेवसम्बन्धिनामिव 'अनेगखम्भसयसन्निविठ्ठा अब्भुग्गयसुकयवइरवेइया' इत्यादिवर्णको वाच्यः । तथा 'दाराणं उप्पिं बहवेअट्ठमंगलगा झयाछत्ता इत्यादि, अलङ्कारश्च सभादीनांवाच्यः, सर्वचजीवाभिगमोक्तं विजयदेवसम्बन्धिचमरस्य वाच्यं यावदुपपातसभायांसङ्कल्पश्चाभिनवोत्पन्नस्यकिंममपूर्वपश्चाद्वा कर्तुश्रेयः? इत्यादिरूपः, अभिषेकश्चाभिषेकसभायां महद्धर्या सामानिकादिदेवकृतः, विभूषणाच वस्त्रालङ्कारकृताऽलङ्कारसभायां, व्यवसायश्च व्यवसायसभायांपुस्तकवाचनतः, अर्चनिकाच सिद्धायतने सिद्धप्रतिमादीनां, सुधर्मसभागमनंच सामानिकादिपरिवारोपेतस्य चमरस्य, परिवारश्च सामानिकादि, ऋद्धिमत्त्वं च ‘एवंमहिड्डिए' इत्यादिवचनैर्वाच्यमस्येति । एतद् वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एवेति । शतक-२ उद्देशकः-८ समाप्तः -शतकं-२ उद्देशकः-९:वृ.चमरचञ्चालक्षणंक्षेत्रमष्टमोद्देशक उक्तम्, अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवंसम्बन्धस्यास्येदं सूत्रम् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy