SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ शतर्क-२, वर्ग:-, उद्देशकः - ७ १५३ वर्त्तन्ते भवनवासिन इति । एवं सव्वं भाणियव्वं 'ति 'एवम्' उक्तन्यायेनान्यदिप भणितव्यं, तच्चेदम्- 'समुग्धाएणं लोयस्स असंखेज्जइभागे' त्ति मारणान्तिकादिसमुदघातवर्त्तिनो भवनपतयो लोकस्यासङ्घयेय एव भागे वर्त्तन्ते । तथा 'सट्टाणेणं लोयस्स असंखेज्जे भागे' स्वस्थानस्य - उक्त भवनवाससातिरेककोटीसप्तकलक्षणस्य लोकासङ्घयेयभागवर्त्तित्वादिति, एवमसुरकुमाराणाम्, एवं तेषामेव दाक्षिणात्यानामौदीच्यानाम्, एवं नागकुमारादिभवनपतीनां यथौचित्येन व्यन्तराणां ज्योतिष्काणां वैमानिकानां च स्थानानि वाच्यानि, कियद्दूरं यावदित्याह 'जाव सिद्धे'त्ति यावत्सिद्धगण्डिका-सिद्धस्थानप्रतिपादनपरं प्रकरणं, सा चैवम्- 'कहि णं भंते! सिद्धाणं ठाणा पन्नत्ता ? ' इत्यादि, इह च देवस्थानाधिकारे यत्सिद्धगण्डिकाऽभिधानं तत्स्थानाधिकारबलादित्यवसेयं, तथेदमपरमपि जीवाभिगमप्रसिद्धं वाच्यं तद्यथा - 'कप्पाण पइट्ठाणं' कल्पविमानानामाधारो वाच्य इत्यर्थः, स चैवम् 'सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणपुढवी किंपइट्टिया पन्नत्ता ?, गोयमा ! घनोदहिपइट्टिया पन्नत्ता' इत्यादि, आह च 119 11 “घनउदहिपइट्टाणा सुरभवणा होंति दोसु कप्पेसु । तिसु बाउपडाणा तदुभयसुपइट्टिया तिसु य ॥ तेण परं उवरिमगा आगासंतरपइट्टिया सव्वे ।”त्ति । तथा 'बाहल्ल' त्ति विमानपृथिव्याः पिण्डो वाच्यः, स चैवम्-‘सोहम्मासाणेसु णं भंते! कप्पेसु विमाणपुढची केवइयं बाहल्लेणं प० ? गोमा ! सत्तावीसं जोयणसयाई' इत्यादि, आह च 119 11 “सत्तावीस सयाई आइमकप्पेसु पुढविबाहल्लं । एक्किक्कहाणि सेसे दुदुगे य दुगे चउक्के य ॥ ग्रैवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति । ‘उच्चत्तमेव’त्ति कल्पविमानोच्चत्वं वाच्यं तच्चैवम्- 'सोहम्मीसानेसु णं भंते ! कप्पेसु विमाणा केवइयं उच्चत्तेणं पन्नत्ता ? गोयमा ! पंचजोयणसयाइं इत्यादि, आह च 7 ॥१॥ “पंचसउच्चत्तेणं आइमकप्पेसु होंति उ विमाणा । एक्केक्कवुढि सेसे दुदुगेय दुगे चउक्के य ॥ ग्रैवेयकेषु दश योजनशतानि अनुत्तरेषु त्वेकादशेति, 'संठाणं' ति विमानसंस्थानं वाच्यं, तच्चैवम्-"सोहम्मीसानेसु णं भंते! कप्पेसु विमाणा किंसंठिया पन्नत्ता ?, गोयमा ! जे आवलियापविठ्ठा ते वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय'त्ति । उक्तार्थस्य शेषमतिदिशन्नाह-जीवाभिगेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादि - प्रतिपादनार्थः ॥ इति द्वितीयशते सप्तमः ॥ शतकं - २ उद्देशकः ७ समाप्तः -: शतकं -२ उद्देशकः-८ : व. अथ देवस्थानाधिकाराच्चमरचञ्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोद्देशकः, तस्य चेदं सूत्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy