SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ शतकं -२, वर्ग:-, उद्देशकः - १ १३१ योगः । 'तहमेयं 'ति तथैव तद्विशेषतः 'अवितहमेयं' सत्यमेतदित्यर्थः 'असंदिद्धमेयं' ति सन्देहवर्जितमेतत् 'इच्छियमेयं' ति इष्टमेतत् 'पडिच्छिमेयं' ति प्रतीप्सितं प्राप्तुमिष्टम् 'इच्छियपडिच्छियं 'ति युगपदिच्छप्रतीप्साविषयत्वात् 'तिकड' त्ति इतिकृत्वेति, अथवा 'एवमेयं भंते!' इत्यादीनि पदानि यथायोगमेकार्थान्यत्यादरप्रदर्शनायोक्तानि । ‘आलित्ते णं’ति अभिविधिना ज्वलितः 'तोए 'त्ति जीवलोकः 'पलित्ते णं'ति प्रकर्षेण ज्वलितः एवंविधश्वासौ कालभेदेनापि स्यादत उच्यते - आदीप्तप्रदीप्त इति, 'जराए मरणेण य'त्ति इह वह्निनेति वाक्यशेषो दृश्यः 'झियायमाणंसि 'त्ति ध्मायमाने ध्मायति वा, दह्यमान इत्यर्थः 'अप्पसारे' त्ति अल्पं च तत्सारं चेत्यल्पसारम् 'आयाए 'त्ति आत्मना एकान्तं - विजनम् अन्तंभूभागं 'पच्छ पुरा यत्ति विवक्षितकालस्य पश्चात् पूर्वं च सर्वदैवेत्यर्थः 'थेजे'त्ति स्थैर्यधर्मयोगात् स्थैयों वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्तत्कृतकार्याणां संमतत्वात् 'बहुमतः ' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशाद्बहुरिति वा मतो बहुमतः 'अनुमतः ' अनुविप्रियकरणस्य पश्चादपि मतोऽनुमतः 'भंडकरंडगसमाणे 'त्ति भाण्डकरण्डकम् - आभरणभाजनं तत्समान आदेयत्वादिति 'माणं सीत' मित्यादौ माशब्दो निषेधार्थ णमिति वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोगं योजनीयम्, अथवा मा एनमात्मानमिति व्याख्येयं, 'वाल' त्ति व्यालाः श्वापदभुजगाः 'माणं वाइयपित्तियसंभियसन्निवाइय'त्ति इह प्रथमाबहुवचनलोपो दृश्यः 'रोगावंक' त्ति रोगाःकालसहा व्याधयः आतङ्कास्त एवं सद्यो घातिनः 'परीसहोवसग्ग' त्ति अस्य माणमित्यनेन सम्बन्धः 'स्पृशन्तु' छुपन्तु भवन्त्वित्यर्थः 'त्तिकट्टु' इत्यभिसन्धाय यः पालित इति शेषः, स किम् ? इत्याह 'तं इच्छामि' त्ति तत्तस्मादिच्छामि 'सयमेव 'त्ति स्वयमेव भगवतैवेत्यर्थः प्रव्राजितं रजोहरणादिवेषदानेनात्मानमिति गम्यते, भावे वा क्तप्रत्ययस्तेन प्रव्राजनमित्यर्थः, मुण्डितं शिरोलुञ्चनेन 'सेहावियं' ति सेहितं प्रत्युपेक्षणादिक्रियाकलापग्राहणतः शिक्षितं सूत्रार्थग्राहणतः तथाऽऽचारःश्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो - भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छामीति योगः, तथा विनयः प्रतीतो वैनयिकंतत्फलं कर्मक्षयादि चरणं- व्रतादि करणंपिण्डविशुद्धयादि यात्रा - संयमयात्रा मात्रा तदर्थमेवाहारमात्रा, ततो विनयादीनां द्वन्द्वः, ततश्च विनयादीनां वृत्ति-वर्त्तनं यत्रासौ विनयवैनयिकचरणकरणयात्रामात्रावृत्तिकोऽतस्तं धर्मम् 'आख्यातम्' अभिहितमिच्छामीति योगः । 'एवं देवाणुप्पिया ! गंतव्वं' ति युगमात्रभून्यस्तद्दष्टिनेत्यर्थः ' एवं चिट्ठियव्वं 'ति निष्क्रमणप्रवेशादिवर्जिते स्थाने संयमात्मप्रवचनबाधापरिहारेणोर्ध्वस्थानेन स्थातव्यम्, 'एवं नीसीइयव्वं' ति, 'निषिक्तव्यम्' उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः 'एवं तुयट्टियव्वं' ति शयितव्यं सामायिकोचा रणादिपूर्वकम् ' एवं भुंजियव्वंति धूमाङ्गारादिदोषवर्जनतः 'एवं भासियव्वं 'ति मधुरादिविशेषणोपपन्नतयेति 'एवमुत्थायोत्थाय' प्रमादनिद्राव्यपोहेन विबुद्धय २ प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतव्यं यतितव्यं 'तमाणाए 'त्ति 'तद्' अनन्तरम् ' आज्ञया' आदेशेन 'ईरियासमिति ईर्यायां गमने समितः, सम्यक्प्रवृत्तत्वरूपं हि समितत्वम् । 'आयाणभंडमत्तनिक्खेचणासमिए' त्ति आदानेन-ग्रहणेन सह भाण्डमात्राया उपकरणपरिच्छदस्य या निक्षेपणा-न्यासस्तस्यां समितो यः स तथा 'उच्चारे' त्यादि, इह च 'खेल' त्तिकण्ठ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy