________________
शतर्क-२, वर्ग:-, उद्देशकः - १
अथैकेन्द्रियाणामुच्छसादिभावादुच्छसादेश्च वायुरूपत्वात् किं वायुकायिकानामप्युच्छसादिना वायुनैव भवितव्यमुतान्येन केनापि पृथिव्यादीनामिव तद्विलक्षणेन ? इत्याशङ्कयां प्रश्नयन्नाह-‘वाउया एण’मित्यादि, अथोच्छसस्यापि वायुत्वादन्येनोच्छसवायुना भाव्यं तस्याप्यन्येनैवमनवस्था, नैवमचेतनत्वात्तस्य, किंच योऽयमुच्छसवायुः स वायुत्वेऽपि न वायुसंभाव्यौदारिकवैक्रियशरीररूपः तदीय पुद्गलानामानप्राणसञ्ज्ञितानामौदारिकवैक्रियशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतयैतच्छरीराव्यपदेश्यत्वात्, तथा च प्रत्युच्छसादीनामभाव इति नानवस्था
मू. (१०८) वाउयाए णं भंते! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुज्जो भुजो पच्चायाति ?, हंता गोयमा ! जाव पच्चायाति । से भंते किं पुट्ठे उद्दाति अपुट्ठे उद्दाति ?, गोयमा ! पुढे उद्दाइ नो अपुष्ठ्ठे उद्दाइ ।
से भंते! किं ससरीरि निक्खमइ असरीरी निक्खमइ ?, गोयमा ! सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ । से केणट्टेणं भंते! एवं बुधइ सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ ?, गोयमा ! वाउयायस्स णं चत्तारि सरीरया पन्नत्ता, तंजहा- ओरालिए वेउव्विए तेयए कम्मए, ओरालियवेउब्वियाइं विप्पजहाय तैयकम्मएहिं निक्खमति ।
११९
सेतेाणं गोयमा ! एवं बुच्चइ-सिय ससरीरी सियअसरीरी निक्खमइ ।
वृ. 'वाउकाए णं भंते' इति, अयं च प्रश्नो वायुकायप्रस्तावाद्विहितोऽन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पादोऽस्त्येव, सर्वेषामेषां कायस्थितेरसङ्ख्याततयाऽनन्ततया चोक्तत्वात्, यदाह
॥ १ ॥
"अस्सयोसप्पिणीउस्सप्पिणीओ एगिंदियाण उ चउन्हं ।
ता चेव ऊ अनंता वणस्सईए उ बोद्धव्वा ॥
तत्र वायुकायो वायुकाय एवानेकशतसहकृत्वः 'उद्दाइत्त'त्ति 'अपहृत्य' मृत्वा 'तत्थेव ' त्ति वायुकाय एव 'पच्चायाइ' त्ति 'प्रत्याजायते' उत्पद्यते ।
'पुट्ठे उद्दाइ' तति स्पृष्टः स्वकाय शस्त्रेण परकायशस्त्रेण वा 'अपद्रवति' भ्रियते 'नो अपुढे' ति सोपक्रमापेक्षमिदं, 'निक्खमइ' त्ति स्वकडेवरान्निःसरति, 'सिय ससरीरी' त्ति स्यात् कथञ्चित् 'ओरालियवेउव्वियाइं विप्पजहाये' त्यादि, अयमर्थः औदारिकवैक्रियापेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्क्रामतीति ।
वायुकायस्य पुनः पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम्, अथ कस्यचिन्मुनेरपि संसारचक्रापेक्षया पुनः पुनस्तत्रैवोत्पत्ति स्यादिति दर्शयन्नाह
मू. (१०९) मडाई णं भंते नियंठे नो निरुद्धभवे नो निरुद्धभवपवंचे नो पहीणसंसारे नो पहीणसंसारवेयणिजे नो वोच्छिन्नसंसारे णो वोच्छिन्नसंसारवेयणिज्जे नो निट्टियट्टे नो निकिरणिजे पुनरवि इत्थत्तं हव्वमागच्छति ?
हंता गोयमा ! मडाई णं नियंठे जाव पुनरवि इत्थत्तं हव्वमागच्छइ ।
वृ. 'मडाई णं भंते! नियंठे' इत्यादि, मृतादी-प्रासुकभोजी, उपलक्षत्वादेषणीयादी चेति दृश्यं, 'निर्ग्रन्थः ' साधुरित्यर्थः 'हव्वं' शीघ्रमागच्छतीति योगः । किंविधः सन् ? इत्याह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org