________________
११४
भगवतीअङ्गसूत्रं १/-/१०/१०२
अकृत्वाऽकृत्वा, आभीक्ष्णये द्विर्वचनं, दुःखमिति प्रकृतमेव, के? इत्याह-प्राणभूतजीवसत्त्वाः, प्राणादिलक्षणं चेदम्॥१॥ “प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः।
जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥ 'वेयण'ति शुभाशुभकर्मवेदना पीडां वा 'वेदयन्ति अनुभवन्ति, इत्येतद्वक्तव्यं स्यात्, एतस्यैवोपपद्यमानत्वाद्, यादृच्छिकं हि सर्वं लोके सुखदुःखमिति, यदाह॥१॥ “अतर्कितोपस्थितमेव सर्वं, चित्रंजनानां सुखदुःखजातम् ।
काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥ "से कहमेयं ति अथ कथमेत भदन्त ! 'एवम्?' अन्ययूथिकोक्तन्यायेन ? इति प्रश्नः 'जणं ते अण्उस्थिया' इत्याधुत्तरं, व्याख्याचास्यप्राग्वत्, मिथ्या चैतदेवं-यदिचलदेव प्रथमसमये चलितंन भवेत्तदाद्वितीयादिष्वपि तदचलितमेवेतिन कदाचनापिचलेत्, अत एव वर्तमानस्यापि विवक्षयाऽतीतत्वं न विरुद्धम्, एतच्च प्रागेव निर्णीतमिति न पुनरुच्यते, यच्चोच्यते-चलितकाकिरणादचलितमेवेति, तदयुक्तं, यतःप्रतिक्षणमुत्पद्यमानेषु स्थासकोशादिवस्तुष्वन्त्यक्षणभावि वस्तु आद्यक्षणे स्वकार्य न करोत्येव, असत्त्वाद्, अतो यदन्त्यसमयचलित कार्यं विवक्षितं परेण तदाद्यसमयचलितंयदिनकरोतितदा कइवदोषोऽत्र?,कारणानांस्वस्वकार्यकरणस्वभावत्वादिति
यच्चोक्तं-द्वौ परमाणून संहन्येते, सूक्ष्मतयास्नेहाभावात्, तदयुक्तम्, एकस्यापिपरमाणोः स्नेहसम्भवात, सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमाच्च, यत उक्तम्-“तिन्नि परमाणुपोगला एगयओ साहणंति ते भिज्जमाणा दुहावि तिहावि कज्जति, दुहा कञ्जमाणा एगओ दिवड्डे"त्ति, अनेन हि सार्द्धपुद्गलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्योः स्नेहाभावेन सङ्घाताभाव इति, यच्चोक्तम्-एकतः सार्द्ध एकतः सार्द्ध इति, एतदप्यचारु, परमाणोरीकरणे परमाणुत्वाभावप्रसङ्गात, तथा यदुक्तं-पञ्चपुद्गलाः संहताः कर्मतया भवन्ति, तदप्यसङ्गतं, कर्मणोऽनन्तपरमाणुतयाऽनन्तस्कन्धरूपत्वात्, पञ्चाणुकस्य च स्कन्धमात्रत्वात्, तथा कर्म जीवावरणस्वभावमिष्यते, तच्च कथं पञ्चपरमाणुस्कन्धमात्ररूपंसदसङ्ख्यातप्रदेशात्मकं जीवभावृणुयादिति।
तथा यदुक्तं-कर्मच शाश्वतं, तदपिअसमीचीनं, कर्मणः शाश्वतत्वेक्षयोपशमाद्यभावेन ज्ञानादीनां हानेरुत्कर्षसय चाभावग्रसङ्गात्, दृश्यते च ज्ञानादिहानिवृद्धी, तता यदुक्तं-कर्म सदा चीयतेऽपचीयते चेति, तदप्येकान्तशाशवतत्वे नोपपधि इति ।
___ यत्रोक्तं-भाषणात्पूर्वं भाषा तद्धेतुत्वात्, तदयुक्तमेव, औपचारिकत्वात्, उपचारस्य च तत्त्वतोऽवस्तुत्वात्, किं च-उपचारस्तात्त्विके वस्तुनि सति भवतीति तात्त्विकी भाषाऽस्तीति सिध्धम्, यच्चोक्त-भाष्यमाणाऽभाषा, वर्तमानसमयस्याव्यावहारिकत्वात्, तदप्यसम्यग, वर्तमानसमयस्यैवास्तित्वेन व्यवहाराङ्गत्वाद् अतीतानागतयोश्च विनष्टानुत्पन्नतयाऽसत्त्वेन व्यवहारानङ्गत्वादिति, यच्चोक्तं-भाषासमयेत्यादि, तदप्यसाधु, भाष्यभाणभाषाया अभावे भाषासमय इत्यस्याभिलापस्याभावप्रसङ्गात्, यश्च प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति हेतुः सोऽनैकान्तिकः, करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपिभाषात्वासिद्धेः ।तथा यदुक्तम्-अभाषकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org