________________
शतकं - ३०,
वर्ग:-, उद्देशक:- 9
४६७
पकरेइ नो तिरिक्ख० मणुस्साउयं पकरेइ देवाउयंपि पकरेइ, मिच्छादिट्टी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठी गंभंते! जीवा अन्नाणियवादी किं नेरइयाउयं जहा अलेस्सा, एवं वेणइयवादीवि, नाणी आभिणिबोहियनाणी य सुयनाणी य ओहिनाणी य जहा सम्मद्दिट्ठी ।
मणपजवनाणी णं भंते ! पुच्छा, गोयमा ! नो नेरइयाउयं पकरेइ नो तिरिक्ख० नो मणुस्स० देवाउयं पकरेइ, जइ देवाउयं पकरेइ किं भवणवासि० पुच्छा, गोयमा ! नो भवणवासिदेवाउयं पकरेइ नो वाणमंतर० नो जोइसिय० वैमाणियदेवाउयं, केवलनाणी जहा अलेस्सा, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया ।
सन्त्रासु चउसुवि जहा सलेस्सा, नोसन्नोवउत्ता जहा मणपञ्जवनाणी, सवेदगा जाव नपुंसंगवेदगा जहा सलेस्सा, अवेदगा जहा सलेस्सा, सकसायी जाव लोभकसायी सजहा सलेस्सा, अकसायी जहा अलेस्सा, सयोगी जाव काययोगी जहा सलेस्सा, अजोगी जहा अलेस्सा, सागारोवउत्ता य अनागारोवउत्ता य जहां सलेस्सा।
वृ. 'कइण' मित्यादि, 'समोसरण' त्ति समवसरन्ति नानापरिणामा जीवाः कथञ्चितुल्यतया येयुमतेषु तानि समवसरणानि, समवसृतयो वाऽन्योन्यभिन्नेषु क्रियावादादिमतेषु कथञ्चित्तुल्यत्वेन क्वचित्केषाञ्चिद्वादिनामवताराः समवसरणानि ।
"
'किरियावाइ' त्ति क्रिया कर्त्तारं विना न संभवति सा चात्मसमवायिनीति वदन्ति तच्छीलाश्च ये ते क्रियावादिनः अन्ये त्वाहुः - क्रियावादिनो ये ब्रुवते क्रिया प्रधानं किं ज्ञानेन ?, अन्ये तु व्याख्यान्ति - क्रिया जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनस्ते चात्पादिपदार्थास्तित्वप्रतिपत्तिलक्षणा अशीत्यधिकशतसङ्ख्याः स्थानान्तरादवसेयाः, ततश्च क्रियावादिसम्बन्धात्समवसरणमपि क्रियावादी, समवसरणसमवसरणवतां चाभेदोपचारात् क्रियावादिन एव समवसरणमिति, एवमन्यत्रापि ।
'अकिरियावाइ' त्ति अक्रियां-क्रियाया अभावं न हि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया समस्ति तद्भावे चानवस्थितेरभावादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुरेके“क्षणिकाः सर्वसंस्कारा, अस्थितानां कुतः क्रिया ? |
119 11
भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ॥"
इत्यादि, अन्ये त्वाहुः - अक्रियावादिनो ये ब्रुवते किं क्रियया चित्तशुद्धिरेव कार्या ते च बौद्धा इति, अन्ये तु व्याख्यान्ति-अक्रियां - जीवादि पदार्थों नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रयावादिनः, ते चात्मादिपदार्थानास्तित्वप्रतिपत्तिलक्षणाश्चतुरशीतिविकल्पाः स्थानान्तरादवसेयाः ।
'अन्नाणियवाइ' त्ति कुत्सितं ज्ञानमज्ञानं तद्येषामस्ति तेऽज्ञानिकास्ते चते वादिनश्चेत्यज्ञानि कवादिनः, ते चाज्ञानमेव श्रेयोऽसञ्चिन्त्यकृतकर्मबन्धबैफल्यात्, तथा न ज्ञानं कस्यापि क्वचिदपि वस्तुन्यस्ति प्रमाणानमसम्पूर्णवस्तुविषयत्वात् इत्याद्यभ्युपगमवन्तः सप्तषष्टिसङ्ख्याः स्थानान्तरादवसेयाः ।
'वेणइयवाइ' त्ति विनयेन चरन्ति स वा प्रयोजनमेषामिति वैनयिकास्ते च ते वादिनश्चेति वैनयिकवादिनः विनय एव वा वैनयिकं तदेव ये स्वर्गादिहेतुतया वदन्तीत्येवंशीलाश्च ते वैनयिकवादिनः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः स्थानान्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org