SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५८ समवायाङ्गसूत्रम्-२७/६१ यथोक्तांसम्यगुपयुक्तः कुरुते योगसत्यं-योगाना-मनःप्रभृतीनामवितथत्वं १७क्षमा-अनभिव्यक्तक्रोधमानस्वरूपस्य द्वेषसज्ञितस्याप्रीतिमात्रस्याभावः, अथवाक्रोधमानयोरुदयनिरोधः, क्रोधमानविवेकशब्दाभ्यां तदुदयप्राप्तयोस्तयोनिरोधः प्रागेवाभिहित इति न पुनरुक्तताऽपीति १८ विरागताअभिष्वङ्गमात्रस्याभावः, अथवा मायालोभयोरनुदयो, मायालोभविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयोनिरोधःप्रागभिहित इतीहापि नपुनरुक्ततेति १९, मनोवाक्कायानांसमाहरणता, पाठान्तरतः समन्वाहरणता-अकुशलानां निरोधायः२२ ज्ञानादिसम्पन्नतास्तिः२५ वेदनातिसहनता शीताद्यतिसहनं २६ मारणान्तिकातिसहनताक्याणमित्रबुध्या मारणान्तिकोपर्गसहनमिति २७ तथा जम्बूद्वीपे न घातकीखण्डादौ अभिजिद्वर्जे सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्तते, अभिजिन्नक्षत्रस्योत्तराषाढचतुर्थपादानुप्रवेशनादिति, तथा मासो नक्षत्रचन्द्राभिवर्द्धितऋत्वादित्यमासभेदात्पञ्चविधोऽन्यत्रोक्तः, तत्र नक्षत्रमासः-चन्द्रस्य नक्षत्रमण्डलभोगकाललक्षणः सप्तविंशति रात्रिन्दिवानि-अहोरात्राणि रात्रिन्दिवाणेति-अहोरात्रपरिमाणापेक्षयेदंपरिमाणं नतु सर्वथा, तस्याधिकत्वाद्, आधिक्चाहोरात्रसप्तषष्टिभागानामेकविंशत्येति, “विमाणपुढवी"त्ति विमानानां पृथिवी-भूमिका, तथा वेदकसम्यक्त्वबन्धः-क्षायोपशमिकसम्यक्त्वहेतभूतशुद्धदलितपुञ्जरूपा दर्शनमोहनीयप्रकृतिस्तस्य 'उवरओ'त्ति प्राकृत्वादुद्वलको-वियोजकोजन्तः तस्य मोहनीयकर्ममोऽष्टाविंशतिविधस्यमध्येसप्तविंशतिरुत्तरप्रकृतयः सत्कर्मांशाः सत्तायामित्यर्थः। एकस्योद्वलितत्वादिति, तया श्रावणमासस्य शुद्धसप्तम्यां सूर्य सप्तविंशत्यङ्गुलिकां हस्तप्रमाणशङ्कोरिति गम्यते पौरुषीं छायां निर्वर्त्य दिवसक्षेत्रं-रविकरप्रकाशमाकाशं निरर्द्धयन्प्रकाशहान्या हानि नयन् रजनीक्षेत्रम्-अन्धकाराक्रान्तमाकाशमभिवर्द्धयन्-प्रकाशहान्या वृद्धिं नयन् चारं चरति-व्योमण्डले भ्रमणं करोति, अयमत्र भावार्थः-इह किल स्थूलन्यायमाश्रित्य आषाढ्यांचतुर्विशत्यङ्गुलप्रमाणापौरुषीच्छाया भवति, दिनसप्तके सातिरेकंछायाऽङ्गुलं वर्द्धते, ततश्च श्रावणशुद्धसप्तम्यामङ्गुलत्रयंवर्द्धते, सातिरेकैकाविंशतितमदिनत्वात्तस्याः, तदेवमाषाढ्याः सत्कैरङ्गुत्लैः सह सप्तविंशतिरकुलानि भवन्ति, निश्चयतस्तुकर्कसङ्क्रान्तेरारभ्ययत्सातिरेकैकविंशतितमं दिनं तत्रोक्तरूपा पौरुषीच्छाया भवति । समवायः-२७ समाप्तः (समवायः-२८) मू. (६२) अट्ठावीसविहे आयारपकप्पे पतं०-मासिआ आरोवणा सपंचराइमासिया आरोवणा सदसराइमासिआ आरोवणा एवं चेव दोमासिआ आरोवणा सपंचराईदोमासिया आरोवणा एवं तिमासिआआरोवणा घउमासिया आरोवणा उवधाइया आरोवणा अणुवधाइया आरोवणा कसिणा आरोवणा अकसिणा आरोवणा एतावता आयारपकप्पे एतावताव आयरियव्वे भवसिद्धियाणं जीवाणं अत्थेगइयाणं मोहणिजस्स कम्मस्स अट्ठावीसंकम्मंसा संतकम्मा प० तं० -सम्मत्तवेअणिजं मिच्छत्तवेयणिजं सम्ममिच्छत्तवेयणिज्जं सोलस कसाया नव णोकसाया आभिनिवोहियणाणे अट्ठावीसइविहे प० तं० सोइंदियअस्थावग्गहे चक्खिदियअत्थावग्गहे धाणिंदियअस्थावग्गहे जिभिदियअत्थावग्गहे फासिंदियअत्थावग्गहे नोइंदियअत्यावग्गहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy