SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ५२ समवायाङ्गसूत्रम्-२२/५२ सूत्राणि छिन्नछेदनयवन्ति तानि छिन्नछेदनयिकानि, तानिच स्वसमया - जिनमताश्रिता या सूत्राणां परिपाटि -पद्धतिस्तस्यां स्वसमयपरिपाट्यां भवन्ति तया वा भवन्तीति, तथा 'अछित्रच्छेयणइयाई' ति इह यो नयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नछेदनयो । यथा 'धम्मो मंगलमुक्तिट्ठ' मित्यादिश्लोकोऽर्थोतो द्वितीयादिश्लोकमपेक्षमाण इत्येवं यान्यच्छित्रच्छेदनयवन्ति तान्यछिन्नच्छेदनिकानि ताना चाऽऽजीविकसूत्रपरिपाट्यां-गोशालकमतप्रतिबद्धसूत्रपद्धत्यां तया वा भवन्ति, अक्षररचनाविभागस्थितानप्यर्थतोऽन्योऽन्यं प्रेक्षमाणानि भवन्तीति भावना, तथा 'तिकणइयाई' ति नयत्रिकाभिप्रायाच्चिन्त्यन्ते यानि तानि नयत्रिकवन्तीति त्रिकनयिकानीत्युज्यन्ते, ' त्रैराशिकसूत्रपरिपाट्या' इह त्रैराशिका गोशालकमतानुसारिणोऽभिधीयन्ते यस्मात्ते सर्वं त्र्यात्मकमिच्छन्ति, तद्यथा - जीवोऽजीवो जीवाजीवश्चेति, तथा लोकोऽलोको लोकालोकश्चेत्यादि, नयचिन्तायामपि ते त्रिविधनयमिच्छन्ति, तद्यथाद्रव्यास्तिकः पर्यायास्तिकः उभयास्तिकश्चेति, एतदेव नयत्रयमाश्रित्य त्रिकनयिकानीत्युक्तमिति तथा 'चउक्कनइयाई' ति नयचतुष्काभिप्रायात्तैश्चिन्त्यन्ते यानि तानि चतुष्कनिकानि, नयचतुष्कं चैव नैगमनयो द्विविधः सामान्यग्राही विशेषग्राहीच, तत्र यः सामान्यग्राही स सङग्रहेऽन्तभूतो विशेषग्राही तु व्यवहारे, तदेवं सङ्ग्रहव्यवहारऋजूसूत्राः शब्दादित्रयं चैक एवेति चत्वारो नया इति, 'स्वसमये' त्यादि तथैवेति । तथा पुद्गलानाम-अण्वादीनां परिणामो धर्मः पुद्गलपरिणामः, स च वर्णपञ्चकगन्धद्वयरस- पच्चस्पर्शाष्टभेदाद्विंशतिधा, तथा गुरुलघुरगुरुलघु इति भेदद्वयक्षेपाद् द्वाविंशति, तत्र गुरुलघु द्रव्यं यत्तिर्यग्गामि वाटवादि अगुरुलघुर्यत् स्थिरं सिद्धक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादीति तथा महितादीनि षड् विमाननामानि । समवायः - २२ समाप्तः समवाय: - २३ मू. (५३) तेवीसं सुयगडज्झयणा प०, तं० समए वेतालिए उवसग्गपरिन्ना थीपरिना नरयविभत्ती महावीरथुई कुसीलपरिभासिए विरिए धम्मे समाही मग्गे समोसरणे आहत्तहिए गंथे जमईए गाथा पुंडरीए किरियाठाणा आहारपरिना अपञ्चक्खाणकिरिआ अणगारसुयं अद्दइजं नालंदइजं। जंबुद्दीवे णं दीवे भारहे वासे इमीसे णं ओसप्पिणीए तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाणदंसणे समुप्पन्ने, जंबुद्दीवे णं दीवे इमीसे णं ओसप्पिणीए तेवीसं तित्थकरा पुव्वभवे एक्कारसंगिणी होत्या तं० -अजित संभव अभिनंदण सुमई जाव पासो वद्धमाणो य, उसमे णं अरहा कोसलिए चोद्दस पृथ्वी होत्था, जंबुद्दीवे णं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थंकरा पुव्वभवे मंडलिरायाणो होत्या तं० अजित संभव अभिनंदन जाव पासो वद्धमाणो य, उसमे णं अरहा कोसलिए पुव्वभवे चक्कवट्टी होत्था । इसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसं पलि ओवमाइं ठिई प०, असत्तमाए णं पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसं सागरोवमाई ठिई प० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy