SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ५० समवायाङ्गसूत्रम् - २१/५१ मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. अथैकविंशतितमस्थानकं, तत्र चत्वारि सूत्राणि स्थितिसूत्रैर्विना सुगमानि । नवरं शबलं - कर्बुरं चारित्रं यैः क्रियाविशेषैर्भवति ते शबलास्तद्योगात्साधवोऽपि, ते एवंतंत्र हस्तकर्म-वेदविकारविशेषं कुर्वनुपलक्षणत्वात्कारयन् वा शबलो भवत्येकः १ एवं मैथुनं प्रतिसेवमानोऽतिक्रमादिभिस्त्रिभिः प्रकारैः २ तथा रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भिर्भङ्गकैरतिक्रमादिभिश्च भुञ्जानः ३ तथा आधाकर्म ४ सागारिकः-स्थानदाता तत्पिण्डं ५ औद्देशिकं क्रीतमाहृत्य दीयमानं भुञ्जानः उपलक्षणत्वात्पामिद्याच्छेद्यानिसृष्टग्रहणमपीह द्रष्टव्यमिति ६, यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि, अभीक्ष्णं २ प्रत्याख्यायाशनादि भुञ्जानः ७ अन्तः षन्नां मासानामेकतो गणाद्गणमन्य सङ्क्रामन् ८ अन्तर्मासस्य त्रीनुदकलेपान् कुर्वन्, उदकलेपश्चनाभिप्रमाणजलावगाहमिति ९, अन्तर्मासस्य त्रीणि मायास्थानानि, स्थानमिति - भेदः १० १ - राजपिण्डं भुञ्जानः ११, आकुल्या प्राणातिपातं कुर्वन्, उपेत्य पृथिव्यादिकं हिंसन्नित्यर्थः १२, आकुट्टया मृषावादं वदन् १३, अदत्तादानं गृहणन् १४, आकुट्टयैवानन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकं वा चेतयन् कायोत्सर्गं स्वाध्यायभूमिं वा कुर्वन्नित्यर्थ १५ एवमाकुट्टया सस्निग्धसरजस्कायां पृथिव्यां सचित्तवत्यां शिलायां लेष्टौ वा कोलावासे दारुणि, लोका-धुणाः तेषामावासः १६ अन्यस्मिंश्च तथाप्रकारे सप्राणे सबीजादौ स्थानादि कुर्वन् १७ आकुट्टया मूलकन्दाति भुञ्जानः १८ अन्तः संवत्सरस्य दशोदशलेपान् कुर्वन् १९ तथाऽन्तः संवत्सरस्य दश मायास्थानानिच २० तथा अभीक्ष्णं-पौनःपुन्येन शीतोदकलक्षणं यद्विकटं-जलं तेन व्यापारितोव्याप्तो यः पाणिहस्तः स तथा तेनाशनं प्रगृह्य भुञ्जानः शबलः इत्येकविंशतितमः २१ । तथा निवृत्तिबादरस्य - अपूर्वकरणस्याष्टमगुणस्थानवर्त्तिन इत्यर्थः, णं वाक्यालङ्कारे, क्षीणं सप्तकम् - अनन्तानुबन्धिचतुष्टयदर्शनत्रयलक्षणं यस्य स तथा । तस्य मोहनीयस्य कर्मणः एकविंशति कर्मांशा अप्रत्याख्यानादिकषायद्वादशनोकषायनवकरूपा उत्तरप्रकृतयः सत्कर्म - सत्तावस्थं कर्म प्रज्ञप्तमिति । तथा श्रीवत्सं श्रीदामगण्डं माल्यं कृष्टिं चापोन्त्रतं आरणावतंसकं चेति षड् विमाननामानीति समवायः - २१ समाप्तः समवायः-२२ मू. (५२) बावीसं परीसहा प० तं० -दिगिंगछापरीस हे पिवासापरीस हे सीतपरीसहे उसिणपरीस हे दंसमसगपरीसंहे अवेलपरीसहे अरइपरीहे इत्थी परीसहे चरिआपरीसहे निसीहियापरीसहे fearied अक्कोसपरीसहे वहपरीसहे। जायणा परीसहे अलाम परीसहे रोग परीसहे तणफास परीसहे जल्लपरीसहे सक्कारपुरकार परीसहे पन्ना परीसहे अत्राण परीसहे दंसण परीसहे । दिट्टिवायरस णं बावीसं छित्रछेयणइयाइं ससमयसुत्तपरिवाडीए बावीसं सुत्ताइं अछिन्नछेयणइयाई आजीवियसुत्तपरिवाडीए बावीसं सुत्ताइं तिकणइयाइं तेरासिअसुत्तपरिवाडीए वाधीसं सुत्ताई चउक्कणइयाई समयसुत्तपरिवाडीए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy