________________
समवायः-१७
४३
अनुवेलंधरवासा लवणे विदिसासु संठिआ चउरो।
कक्कोडे १ विज्जुप्पभे २ केलास ३ऽरुणप्पभे ४ चेव ।। ॥७॥ कक्कोडय कद्दमए केलासऽरुप्पमेत्थ (नाग)रायाणो।
__बायालीससहस्से गंतुं उयहिंमि सव्वेवि ।। ॥८॥ चत्तारिय जोयणसए तीसे कोसं च उग्गया भूमी।
सत्तरस जोयणसए इगवीसे ऊसिआ सव्वे ।त्ति 'चारणाणं'ति जङ्घाचारणानां विद्याचारणानां च 'तिरिआत्ति तिर्यग्रुचकादिद्वीपगमनायेति, तिगिञ्छिकूट उत्पातपर्वतो यत्रागत्य मनुष्यक्षेत्राभिगमनायोत्पतति, सचेतोऽसङख्याततमेऽरुणोदयसमुद्रेर दक्षिणतोद्विचत्वारिंशतं योजनसहस्राण्यतिक्रम्यभवति, रुचकेन्द्रोत्पातपर्वत- स्त्वरुणोदयसमुद्र एव उत्तरतो एवमेव भवतीति।
आवीईमरणे'त्ति आ-समन्ताद्वीचय इव वीचयः-आयुर्दलिकविच्युतिलक्षणावस्था यस्मिंस्तदावीचि अथवा वीचि-विच्छेदस्तदभावादवीचि, दीर्घत्वंतुप्राकृतत्वात्तदेवंभूतं मरणमावीचिमरणं-प्रतिक्षणमायुर्द्रव्यविचटनलक्षणं, तथाऽवधिः-मर्यादा तेन मरणमवधिमरणं, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते यदि पुनस्तान्येवानुभूयमरिष्यति तदा तदवधिमरणमुच्यते, तद्रव्यापेक्षया पुनस्तदग्रहणावधिं यावज्जीवस्य मृतत्वादिति, तथा 'आयंतियमरणे'त्तिआत्यन्तिकमरणं यानि नारकाद्यायुष्कतयाकर्मदलिकान्यनुभूय म्रिायते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति, एवं यन्मरणं तइव्यापेक्षया अत्यन्तभावित्वादात्यन्तिकमिति, 'वलायमरणे'त्तिसंयमयोगेभ्यो वलतां-भग्नव्रतपरिणतीनातिनां मरणंवलन्मरणं तथा वशेनइन्द्रियविषयपारतन्त्रयेण ऋता-बाधिता वशाः स्निग्धदीपकलिकावलोकनात् शलभवत् तथाऽन्तः-मध्येमनसीत्यर्थः शल्यमिव शल्यमपराधपदंयस्य सोऽन्तःशल्यो-लज्जाभिमानादिभिरनालोचितातीचारस्तस्य मरणम् अन्तःशल्यमरणं ।
तथा यस्मिन् भवे-तिर्यगमनुष्यभवलक्षणे वर्तते जन्तुस्तुद्भवयोग्यमेवायुर्वद्धा पुनः तत्क्षयेण म्रियमाणस्य यद्भवति तत्तद्भवमरणं, एतच्च तिर्यगमनुष्याणामेव न देवनारकाणां, तेषां तेष्वेवोत्पादाभावदिति, तथा बालाइव बाला:-अविरतास्तेषांमरणंबालमरण, तथा पण्डिताःसर्वविरतास्तेषां मरण पण्डितमरणम्, बालपण्डिताः-देशविरतास्तेषां मरणं बालपण्डितमरणं, तथा छद्मस्थमरणम्-अकेवलिमरणं, केवलिभरणं तुप्रतीतं, 'वेहासमरणं'तिविहायसि-व्योमनि भवं वैहायसं, विहायोभवत्वं चतस्य वृक्षशाखाद्युद्बद्धत्वे सतिभावात्, तथा गृद्धैः-पक्षिविशेषैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं-स्पर्शन यस्मिंस्तद्गृध्रस्पृष्टम् अथवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि यत्रतद्गृध्रपृष्ठम्, इदंचकरिकरभादिशरीरमध्यपातादिनागृध्रादिभिरात्मानं भक्षयतो महासत्त्वस्य भवति, तथा भक्तस्य-भोजनस्य यावज्जीवंप्रत्याख्यानं यस्मिंस्तत्तथा, इदं च त्रिविधाहारस्य चतुर्विधाहारस्य वा नियमरूपं सप्रतिकर्म च भक्तपरिज्ञेति यद्रूढम्, तथा इङ्ग्यते प्रतिनियतदेश एव चेष्टयतेऽस्यामनशनक्रियायामितीङ्गिनी तथा मरणमिङ्गिनीमरणम्, तद्धि चतुर्विधाहारप्रतयाख्यातुनिष्प्रतिकर्मशरीर स्येगितदेशाभ्यन्तरवर्त्तिन एवेति, तथा पादपस्येवोपगमनम्-अवस्थानं यस्मिन् तत्पादपोपगमनं तदेव मरणमिति विग्रहः, इदं च यथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org