________________
समवाय:- १३
३३
लोगवण्णं लोगलेसं लोगरूवं लोगसिंगं लोगसिद्धं लोगकूडं लोगुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं तेरस सागरोवमाई ठिई प० ।
ते णं देवा तेरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उत्ससंति वा नीस्ससंति वा तेसि णं देवाणं तेरसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ ।
संतेगइआ भवसिद्धिआ जीवा जे तेरसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्सति ।
वृ. अथ त्रयोदशस्थानके किञ्चिल्लिख्यते, इह स्थितिसूत्रेभ्योऽर्वागष्ट सूत्राणि, तत्र करणं क्रिया-कर्मबन्धनिबन्धनचेष्टा तस्याः स्थानानि भेदाः पर्यायाः क्रियास्थानानि ।
तत्रार्थाय शरीरस्वजनधर्मादिप्रयोजनाय दण्डः - त्रसस्थावरहिंसा अर्थदण्डः क्रियास्थानमितिप्रक्रमः १ तद्विलक्षणोऽनर्थदण्डः २ तथा हिंसामाश्रित्य हिंसितवान् हिनस्ति हिंसिष्यति वा अयं वैरिकादिर्मामित्येवंप्रणिधानेन दण्डो-विनाशनं हिंसादण्डः ३ तथाऽकस्माद्-अ -अनभिसंधिनोऽन्यवधाय प्रवृत्त्या दण्डः - अन्यस्य विनाशोऽकस्माद्दण्डः ४ तथा दृष्टे:-बुद्धेर्विपर्यासिका विपर्यासिता वा दृष्टिविपर्यासिका दृष्टिविपर्यासिता वा मतिभ्रम इत्यर्थः तथा दण्डः प्राणिवधो दृष्टिविपर्यासिकादण्डो दृष्टिविपर्यासितादण्डोवा, मित्रादेरमित्रादिबुद्धया हननमिति भावः ५ तथा मृषावादःआत्मप- रोभयार्थमलीकवचनं तदेव प्रत्ययः कारणं यस्य दण्डस्य स मृषावादप्रत्ययः ६ एवमदत्तादान- प्रत्ययोऽपि ७ तथा अध्यात्मनि-मनसि भव आध्यात्मिको बाह्यनिमित्तानपेक्षः शोकाभि भव इति भावः ८ तथा मानप्रत्ययो जाय्तादिमदहेतुकः ९ तथा मित्रद्वेषप्रत्ययः- मातापित्रादीनामल्पेऽप्यपराधे महादण्डनिर्वर्तनमिति भावः १० मायाप्रत्ययो मायानिबन्धनः ११ एवं लोभप्रत्ययो - Sपि १२ एर्यापथिकः केवलयोगप्रत्ययः कर्मबन्धः - उपशान्तमोहादीना सातवेदनीयबन्धः १३ । तथा 'विमाणपत्थड’त्ति विमानप्रस्तटा उत्तराधर्यव्यवस्थिताः, तथा 'सोहम्मवडिंसए' ति सौधर्मस्य देवलोकस्यार्द्धचन्द्राकारस्य पूर्वापरायतस्य दक्षिणोत्तरविस्तीर्णस्य मध्यभागे त्रयोदशप्रस्तटे शक्रावासभूतं विमानं सौधर्मावतंसकं सौधर्मदेवलोकस्यावतंसकः- शेखरकः स इव प्रधानत्वात् इत्येवं यथार्थनामकमिति, णंकारो वाक्यालङ्कारे, अर्द्धत्रयोदशं येषु तान्यर्द्धत्रयोदशानि तानि च तानि योजनशतसहस्राणि चति विग्रहः सार्द्धानि द्वादशेत्यर्थः, तथाऽर्द्धत्रयोदशानि जाती-जलच रपञ्चेन्द्रियतिर्यग्गती कुलकोटीनां योनिप्रमुखानिउत्पत्तिस्थानप्रभवानि यानि शतसहस्राणि तानि तथोच्यन्त इति ।
तथा 'पाणाउस्स' त्तियत्र प्राणिनामायुर्विधानं सभेदमभिधीयते तव्याणायुर्द्वादशं पूर्वं तस्य त्रयोदश वस्तूनि अध्ययनवद्विभागविशेषाः, तथा गर्भे गर्भाशये व्युत्क्रान्ति-उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, तेच ते पञ्चेन्द्रियतिर्यगयोनिकाश्चेति विग्रहः, प्रयोजनं- मनोवाक्कायानां व्यापारणं प्रयोगः स त्रयोदशविधः, पच्चदशानां प्रयोगाणां मध्ये आहारकाहारमिश्रलक्षणकायप्रयोगद्वयस्य तिरश्चामभावात्, तौ हि संयमिनामेव स्तः, संयमश्च संयतमनुष्याणामेव न तिरश्चामिति, तत्र सत्यासत्योभयानुभयस्वभावाश्चत्वारो मनः प्रयोगाः वाक्प्रयोगाश्चेति अष्टौ पुनरौदारिकादयः पच्च कायप्रयोगाः एवं त्रयोदशेति, तथा सूरमण्डलस्य - आदित्यविमानवृत्तस्य योजनं
4 3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org