SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ૧૮ समवायाङ्गसूत्रम्-६/६ ४ समुद्घाता ५ ऽवग्रहार्थानि सूत्राणि षट्, नक्षत्रार्थेद्वे, स्थित्यर्थानि षट्, उच्छ्वासाद्यर्थं त्रयमेवेति तत्र लेश्यानां स्वरूपमिदं । 119.11 कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ इति, तथा बाह्यतपः-बाह्यशरीरस्य परिशोषणेन कर्मक्षपणहेतुत्वादिति, आभ्यन्तरंचित्तनिरोधप्राधान्येन कर्मक्षपणहेतुत्वादिति । तथा छद्मस्थः - अकेवली तत्र भवा बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभय निर्जरयति, आत्मप्रदेशैः संश्लिष्टान् शातयतीत्यर्थः, ते चेह वेदनादिभेदेन षडुक्ताः, तत्र वेदनासमुद्घातोऽसद्वेद्यकर्माश्रयः कषायसमुदघातः कषायाख्यचारित्रमोहनीय कर्माश्रयः मारणान्तिकसमुद्घातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयो वैकुर्विकतैजसाहराकसमुद्धाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत वेदनीयकर्मपुद्गलशाटनं करोति कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धत आयुः कर्मपुद्गलघातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराद्बहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्घयेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, एवं तैजसाारकसमुदघातावपि व्याख्येयाविति तथा अर्थस्य- सामान्यानिर्देश्यस्वरूपस्य शब्दादेः 'अवे' ति प्रथमं व्यञ्जनावग्रहानन्तरं ग्रहणंपरिच्छेदनमर्था ग्रहः, स चैकसामयिको नैश्चयिको व्यावहारिकस्त्वसङ्घयेयसामयिकः, स च षोढा ॥ ६ ॥ श्रोत्रादिभिरिन्द्रियैर्नोइन्द्रियेण च मनसा जन्यमानत्वादिति । स्थितिसूत्रे स्वयम्वादीनि विंशतिर्विमानानीति ।। समवायः ६ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाने षष्ठसमवायटीका परिसमाप्ता । समवाय:-७ मू. (७) सत्त भयट्ठाणा प० तं० - इलोगभए परलोगभए आदानभए अकम्हाभए आजीवभए मरणभए असिलो भए । सत्त समुग्धाया प० तं० -वेयणासमुग्धाए कसायसमुग्धा मारणंतिय समुग्धाए वेउव्वियसमुग्धाएं तेयसमुग्धाए आहारसमुग्धाए केवलिसमुग्धाए । समणे भगवं महावीरे सत्त रयणीओ उड्ड उच्चत्तेणं होत्था । इहेव जंबुद्दीचे दीवे सत्त वासहरपव्वया प० तं० - चुल्लहिमवंते महाहिमवंति निसढे नीलवंते रुष्पी सिहरी मन्दरे, इहेव जम्बुद्दीवे दीवे सत्त वासा प० तं० -भरहे हेमवते हरिवासे महाविदेहे रम्मए एरन्नवए एरवए । खीणमोहेण भगवया मोहणिज्जवज्जाओ सत्त कम्मपयडीओ वेएई । महानक्खत्ते सत्ततारे प०, कत्तिआइआ सत्त नक्खत्ता पुव्वदारिआ प० महाइआ सत्त For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy