SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६९ यः तथाऽऽत्मप्रदेशेषु सम्बन्धनं स प्रदेशनाम जातिगत्यवगाहनाकर्म्मणां वा यत्प्रदेशरूपं नामकर्म्म तत्प्रदेशनाम तेन सह निधत्तमायुः प्रदेशनामनिधत्तायुरिति, तथा 'अनुभागनामनिधत्ताउए' त्ति अनुभागः - आयुष्कर्मद्रव्याणां तीव्रादिभेदो रसः स एव तस्य वा नामः परिणामोऽनुभागनाम अथवा गत्यादीनां नामकर्मणामनुभागबन्धरूपो भेदोऽनुभागनाम तेन सह निधत्तमायुरनुभागनामनिधत्तायुरिति । तथा 'ओगाहणानामनिधत्ताउए' त्ति अवगाहते जीवो यस्यां साऽवगाहनाशरीरमौदा- रिकादिपञ्चविधं तत्कारणं कर्माप्यवगाहना तद्रूपं नामकर्म्मावगाहनानाम तेन सहनिधत्तमायुरव- गाहनानामनिधत्तायुरिति ॥ 'नेरइयाण' मित्यादि स्पष्टं । अनन्तरमायुर्बन्ध उक्तोऽधुना बद्धायुषां नारकादिगतिषूपपातो भवतीति तद्विरहकालप्ररूपणायाह- 'निरयगई ण' मित्यादि कण्ठयं, नवरं यद्यपि रत्नप्रभादिषु चतुर्विशतिमुहूर्त्तादिविरहकालो, यथोक्तं'चवीस मुहुत्ता सत्त अहोरत्त तहय पन्नरसा । मासो य दो य चउरो छम्मासा विरहकालोत्ति ॥ 119 11 समवायः प्रकीर्णकाः - तथापि सामान्यगत्यपेक्षया द्वादश मुहूर्त्ता उक्ताः, तथा एवंकरणाद्यत्तिर्यङ्गनुष्यगत्योः सामान्येन द्वादश मुहूर्ता उक्ताः तद्गर्भव्युत्क्रान्तिकापेक्षया, दैवगतौ तु सामान्यत एव, 'सिद्धिवज्जा उव्वट्टणेति नारकादिगतिषु द्वादशमुहूर्ती विरहकाल उद्वर्त्तनायामिति, सिद्धानां तद्वर्त्तनैव नास्ति, अपुनरावृत्तित्वात्तेषामिति, 'इमीसे णं रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाणं पन्नत्ता ?, एवं उववायदंडओ भाणियव्वो' त्ति, स चायं - "गोयमा ! जहन्नेणं एक्कं समयं उक्कोसेणं चउवीसं मुहुत्ताई' अनेनाभिलापेन शेषा वाच्याः, तथाहि - 'सक्करप्पभाए णं उक्कोसेणं सत्त इंदियाणि वालुयप्पभाए अद्धमासं पंकप्पभाए मासं धूमप्पभाए दो मासा तमप्पभाए चउरो मासा आहेसत्तमा छमास' त्ति असुरकुमारा 'चउवीसइ मुहुत्ता' एव जाव थणियकुमारा, पुढविकाइया अविरहिया उवचाएणं एवं सेसावि, बेइंदिया अंतोमुहुत्तं, एवं तेइंदियचउरिंदियसंमुच्छिमपंचिंदियतिरिक्खजोणियावि गव्भवक्कंतियतिरिया मणुया य बारस मुहुत्ता संमुच्छिममणुस्सा चउवीसई मुहुत्ता विरहिआ उववाएणं, वंतरजोइसिया चउवीसं मुहुत्ताई । एवं सोहम्मीसाणेवि, सकुमारे नव दिनाई वीसा य मुहुत्ता, माहिंदे बारस दिवसाईं दस मुहुत्ता बंभलोए अद्धतेवीसं राइंदियाई लंतए पणयालीसं महासुक्के असीई सहस्सारे दिणसयं आणए संखेज्जा मासा एवं पाणएवि आरणे संखेज्जा वासा एवं अच्चुएवि गेवेज्जपत्थडेसु तिसु कमेण संखेज्जाई वाससयाई वाससहस्साई वाससयसहस्साइं विजयाइसु असंखेज्जं कालं, सव्वट्टसिद्धे पतिओवमस्सासंखेज्जइभागं 'ति 'एवं उवट्टणादंडओवि 'त्ति । " उपपात उद्वर्त्तना चायुर्बन्धे एव भवतीत्यायुर्बन्धे विधिविशेषप्ररूपणायाह- 'नेरइए'त्यादि कण्ठ्यं, नवरं आकर्षो नाम कर्मपुद्गलोपादानं यथा गौः पानीयं पिबन्ती भयेन पुनः पुनः आवृहति, एवं जीवोऽपि तीव्रेणायुर्वन्धाध्यवसानेन सकृदेव जातिनामनिधत्तायुः प्रकरोति, मन्देन द्वाभ्यामाकर्षाभ्यां मन्दतरेण त्रिभिर्म्मन्दतमेन चतुर्भिः पञ्चभिः षडभिः सप्तभिरष्टाभिर्वा न पुनर्नवभिः, एवं शेषाण्यपि । 'आउगाणि 'त्ति गतिनामनिधत्तायुरादीनि वाच्यानि यावद्वैमानिका इति, अयं चैकाद्याकर्षनियमो जात्यादिनामकर्मणामायुर्वन्धकाल एव वध्यमानानां शेषकालमायुर्बन्धपरिसमाप्तेरुत्तरकालमपि बन्धोऽस्त्येव, एषां ध्रुववन्धिनीनांच ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव बन्धनिर्वृत्तिर्भवति, एतास्तु परावृत्य बध्यन्त इति । 4 112 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy