________________
समवायाङ्गसूत्रम्-२३८ अविद्यमाना वा योधाः - परबलसुभटा यानि प्रति तान्ययोधानि, तथा 'अडयालकोट्ठगरइय'त्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि अन्ये भणन्ति - अडवालिय शब्दः किल प्रशंसावाचकः, तथा 'अडयालकयवणमाल'त्ति अष्टचत्वारिंशद्भेदभिन्नाः प्रशंसाह कृता वनमालावनस्पतिपल्लवस्रजो येषु तानि तथा, 'लाइयं' तियद्भूमेश्छगणादिनोपलेपनं 'उल्लोइयं ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि पूजितानि लाउल्लोइयमहितानि ।
तथा गोशीर्ष- चन्दनविशेषः सरसंच-रसोपेतं यद्रक्तचन्दनं चन्दनविशेषः ताभ्यां दर्दराभ्यांधनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्षसरसरक्तचन्दनस्य सत्का दर्दरेण चपेटाभिधाने दर्दरेषु वा सोपानवीथीषु दत्ताः पञ्चाङ्गुलयस्तला येषु तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा कालागुरु कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवरःप्रधानः कुन्दुरुक्क:-चीडा तुरुष्कः- सिल्हकं गन्धद्रव्यमेव एतानि च तानि 'इज्झंति 'त्ति दह्यमानानि यानि तानि तथा तेषां यो धूमो 'मघ-मघेत 'त्ति अनुकरणशब्दोऽयं मधमधायमानो बहलगन्ध इत्यर्थः तेनोद्धुराणि उत्कटानि यानि तानि तथा तानि च तान्यभिरामाणि रमणीयानीति समासः, तथा सुगन्धयः- सुरभयो ये वरगन्धाः प्रधानवासास्तेषां गन्थः- आमोदी येष्वस्ति तानि सुगन्धिवरगन्धि- कानि, तथा गन्धवर्त्ति - गन्धद्रव्याणां गन्धयुक्तिशोपदेशेन निर्वार्त्तितगुटिका तद्भूतानि - तत्कल्पानीति गन्धवर्तिभूतानि प्रवरगन्धगुणानीत्यर्थः, तथा अच्छानि आकाशस्फटिकवत् 'सह' त्ति श्लक्ष्णानि सूक्ष्मस्कन्धकनिष्पन्नत्वात् श्लक्ष्णदलनिष्पन्नपटवत् 'लण्ड' त्तिश्लक्ष्णानि मसृणानीत्यर्थ, घुटितपटवत्, 'घट्ट' त्ति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् 'मट्ट' त्ति मृष्टानीव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेव शोधितानि वा प्रमार्जनिकयेव ।
अत एव 'नीरय' त्ति नीरजांसि रजोरहितत्वात् 'निम्मल' त्ति निर्मलानि कठिनमलाभावात् 'वितिमिर'त्ति वितिमिराणि निरन्धकारत्वात् 'विसुद्ध 'त्ति विशुद्धानि निष्कलङ्कत्वान्न चन्द्रवत् सकलङ्कानीत्यर्थः तथा 'सप्पह' त्ति सप्रभाणि सप्रभावाणि अथवा स्वेन आत्मना प्रभान्ति-शोभन्ते प्रकाशन्ते वेति स्वप्रमाणि यतः 'समिरीय'त्ति समरीचीनि सकिरणानि, अत एव 'सउज्जोय'त्ति सहोद्योतेन वस्त्वन्तरप्रकाशनेन वर्त्तन्ते इति सोद्योतानि वस्त्वन्तरप्रकाशनेन वर्तन्ते इति सोद्योतानि 'पासाईय'त्ति प्रासादीयानि मनः प्रसत्तिकराणि 'दरिसणिज' त्ति दर्शनीयानि तानि हि पश्यंश्चक्षुषा न श्रमं गच्छतीति भावः, 'अभिरुव'त्ति अभिरूपाण् कमनीयानि 'पडिरूव' त्ति प्रतिरूपाणि द्रष्टारं द्रष्टारं प्रति रमणीयानि नैकस्य कस्यचिदेवेत्यर्थः ।
१५८
'एव' मित्यादि, तथाऽसुरकुमारावाससूत्रे तत्परिमाणमभिहितमेवमिति तथा यद्भवनादिपरिमाणं यस्य नागकुमारादिनिकायस्य क्रमते-घटते तत्तस्य वाच्यमिति, किंविधं तस्य परिमाणमत आह- 'जं जं गाहाहिं भणियं' यद्यद् गाथाभिः ।
मू. (२३९)
चउसट्टी असुराणं चउरासीइं च होइ नागाणं ।
पू. (२४०)
बावत्तरि सुवत्राण वाउकुमाराण छन्नउइ ।। दीवदिसाउदहीणं विजकुमारिंदथणियमग्गीणं । छण्हंपि जुवलयाणं बावत्तरिमो य सयसहसा ॥
वृ. 'चउसट्ठि असुराण' मित्यादिकाभिरभिहितं, किं परिमाणमेव तथा वाच्यं नेत्यह-'इह चैव वण्णओ' त्ति यथा असुरकुमारभवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाच्य इति, तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org