________________
१५२
समवायाङ्गसूत्रम्-२३२
तस्मात ज्ञानप्रवाद, तस्मिन पदपरिमाणमेका कोटी एकपदोनेति, सत्यप्रवादं षष्ठं सत्यं-संयमः सत्यवचनं वा तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्यप्रवाई, तस्य पदपरिमाणं एका पदकोटी षट्च पदा-नीति, आत्मप्रवादं सप्तमं 'आय'त्तिआत्मासोऽनेकधा यत्रनयदर्शनयते तदात्मप्रवादं, तस्य पदपरिमाणं षड्विंशति पदकोट्यः कर्माप्रवादमष्टमं ज्ञानावरणादिकमष्टिविध कर्मप्रकृतिस्थित्य- नुभागप्रदेशादिभिर्भेदैरन्यैश्चोत्तरोत्तरभेदैर्यत्र वर्ण्यते तत्कर्मप्रवादं, तत्परिमाणमेका पदकोटी अशीतिश्च सहस्राणीति।
प्रत्याख्यानं नवमंतत्र सर्वं प्रत्याख्यानस्वरूपं वर्ण्यत इति प्रत्याख्यानप्रवादं, तत्परिमाणं चतुरशीति पदशतसहस्राणीति, विद्यानुप्रवादंदशमंतत्रानेकेविद्यातिशया वर्णितास्तत्परिमाणमेका पदकोटी दश च पदशतसम्राणीति, अवन्ध्यमेवकादशं, वन्ध्यं नाम निष्फलं न वन्ध्यमवन्ध्यं सफलामित्यर्थः, तत्र हि सर्वेज्ञानतपःसंयमयोगाःशुभफलेन सफला वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वेअशुभफला वर्ण्यन्तेअतोऽवन्ध्यं, तस्यचपरिमाणंषड्विंशति पदकोट्यः, प्राणायुादशं तत्राप्युयुःप्राणविधानं सर्वं सभेदमन्ये च प्राणा वर्णितास्तत्परिमाणमेका पदकोटी षटपञ्चाशच्च पदशतसहाणीति, क्रियाविशालंत्रयोदशं,तत्रकायिक्यादयः क्रिया विशालत्ति-सभेदाः संयमक्रिया छन्दक्रिया विधानानि चवर्ण्यन्त इतिक्रियाविशालं, तत्पदपरिमाणनवपदकोट्यः, लोकबिन्दुसारं .च चतुर्दशर्म, तच्चास्मिन् लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन च लोकबिन्दुसारं भणितं, तामाणमर्द्धत्रयोदश पदकोट्य इति।
_ 'उप्यायपुव्वस्से'त्यादि कण्ठयं, नवरं वस्तु-नियतार्थाधिकारप्रतिवद्धो ग्रन्थविशेषोऽध्ययनवदिति, तथाचूडाइवचूडा, इह दृष्टिवादेपरिकर्मसूत्रपूर्वगतानुयोगोक्तानुक्तार्थसङ्ग्रहपरा ग्रंथपद्धतयश्चूडा इति, 'सेत्तं पुव्वगते'त्ति निगमनं।
‘से किंत'मित्यादि, अनुरूपोऽनुकूलो वा योगोऽनुयोगःसूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः सम्बन्ध इत्यर्थः, सच द्विविधः प्रज्ञप्तः, तद्यथा-मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, से किं तमित्यादि, इह धर्मप्रणयनात् मूलं तावत्तीर्थकरास्तेषां प्रथमसम्यक्त्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह -
'से किं तं मूलपढमाणुओगे' इत्यादि सूत्रसिद्धं यावत् 'सेत्तं मूलपढमानुओगे', 'से किं त'मित्यादि इहैकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते तासामनुयोगःअर्थकथनविधि गण्डिकानुयोगः, तथा चाहगंडियानुओगे अनेगे' त्यादि, कुलकरगण्डिकासु कुलकराणां विमलवाहनादीनांपूर्वजन्माद्यभिधीयतइति, एवं शेषास्वपिअभिधानवशतोभावनीयं, यावचित्रान्तरगण्डिकाः, नवरंदशार्हा-समुद्रविजयादयो दशवसुदेवान्ताः तथा चित्रा-अनेकार्था अन्तरे-ऋषभाजिततीर्थकरान्तरे गण्डिका-एकवक्तव्यतार्थाधिकारानुगतास्ततश्च चित्राश्च ता अन्तरगण्डिकाश्चचित्रान्तरगण्डिकाः, एतदुक्तं भवति-ऋषभाजिततर्थीकरान्तरेतद्वंशजभूपतीनां शेषगतिगमनव्युदासेन शिवगमनानुत्तरोपातप्राप्तिप्रतिपादिकाश्चित्रान्तरगण्डिका इति, ताश्च। ॥१॥ 'चोद्दसलक्खा सिद्धा निवईणेक्को य होइ सव्वढे ।
एवेकेक्कट्ठाणे पुरिसजुगा हुंति संखेल्जे' ॥ -त्यादिना ग्रन्थेन नन्दिटीकायामभिहितास्तत एवावधार्या, इह सूत्रगमनिकामात्रस्य विवक्षितत्वादिति, शेषं सूत्रसिद्धमानिगमनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org