________________
समवायः - प्रकीर्णकाः
१५१
कोऽसाङ्ग्राहिकश्च, तत्र साझााहिकः सङ्ग्राहं प्रविष्टोऽसाङ्ग्राहिकस्श्च व्यवहार, तस्मात्सङ्ग्रहो व्यवहार ऋजुसूत्रः शब्दादयश्चैक एवेत्येवं चत्वारो नयाः, एतैश्चतुर्भिर्नयैः षट् स्वसामयिकानि परिकर्माणि चिन्त्यन्ते, अतो भणितं 'छ चउक्कनयाईति भवन्ति, त एव चाजीविकौराशिका भणिताः, कस्माद् ?, उच्यते, यस्मात्ते सर्वं त्र्यात्मकं इच्छन्ति, यथा जीवोऽजीवो जीवाजीवः लोकोऽलोकोलोकालोकः सत् असत् सदसतइत्येवमादि, नयचिन्तायामपितेत्रिविधंनयमिच्छन्ति, तद्यथा-द्रव्यार्थिकः पर्यायार्थिकः उभयार्थिकः । _ 'सेत्तंपरिकम्मे त्तिनिगमनं, से किंतंसुत्ताइ'मित्यादि, तत्र सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि अष्टाशीत्यपि च सूत्रार्थतो व्यवच्छिन्नानि तथापि दृष्टानुसारतः किञ्चिल्लिख्यते, एतानि किल ऋजुकादीनि द्वाविंशति सूत्राणि, तान्येव विभागतोऽष्टाशीतिर्भवन्ति, कथम् ?, उच्यते, 'इच्चेइयाई बावीस सुत्ताई छिन्नछेयनइयाई ससमयसुत्तपरिवाडीए'त्ति इह यो नयः सूत्रं छिन्नं छेदेनेच्छति सछिन्नच्छेदनयोयथा "धम्मो मंगलमुक्किट्ठ"मित्यादिश्लोकः सूत्रार्थतः प्रत्येकच्छेदेन स्थितो न द्वितीयादिश्लोकमपेक्षते, प्रत्येककल्पितपर्यन्त इत्यर्थः, एतान्येव द्वाविंशति स्वसमयसूत्रपरिपाट्या सूत्राणि स्थितानि, तथा इत्येतान द्वाविंशति सूत्राणि अच्छिन्नच्छेदनयिकान्याजीविकसूत्रपरिपाट्येति, अयमर्थ-इह यो नयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नच्छेदनयो यथा 'धम्मो मंगलमुक्किट्टमित्यादिश्लोक एवार्थतो द्वितीयादिश्लोकमपेक्षमाणोद्वितीयादयश्चप्रथममिति अन्योऽन्यसापेक्षा इत्यर्थः ।
एतानि द्वाविंशतिराजीविकगोशालकप्रवर्त्तिताखण्डसूत्रपरिपाट्या अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योऽन्यमपेक्षमाणानि भवन्ति, इच्चेइयाई इत्यादि सूत्र, तत्र 'तिकनइयाईति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थैराशिकाश्चाजीविका एवोच्यन्ते इति, तथा 'इच्चेइयाई' इत्यादि सूत्रं, तत्र 'चउक्कनइयाइंति नयचतुष्काभिप्रायतश्चिन्त्यन्त इति भावना, ‘एवमेवे'त्यादिसूत्, एवं चतम्रो द्वाविंशतयोऽष्टाशीतिः सूत्राणि भवन्ति 'सेत्तं सुत्ताइंति निगमनवाक्यं ।। ___से किं तं पुव्वगय' इत्यादि, अथ किं तत् पूर्वगतं?, उच्यते, यस्मात्तीर्थकरः तीर्थप्रवतनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्वं पूर्वगतं सूत्रार्थं भाषते तस्मात्पूर्वाणीति भणितानि, गणधराः पुनः श्रुतरचनां विदधाना आचाराक्रमेण रचयन्ति स्थापयन्तिच, मतान्तरेण तुपूर्वगतसूत्रार्थः पूर्वमर्हता भाषितो गणधरैरपि पूर्वगतश्रुतमेव पूर्वं रचितं पश्चादाचारादि ।
नन्वेयं यदाचारनियुक्तयामभिहितं सव्वेसिं आयारो पढमो' इत्यादि तत्कथम्?, उच्यते, तत्र स्थापनामाश्रित्य तथोक्तमिह त्वक्षररचनांप्रतीत्य भणितंपूर्वं पूर्वाणि कृतानीति, तच्च पूर्वगतं चतुदर्शिविधं प्रज्ञप्तं, तद्यथा-'उप्पाये'त्यादि, तत्रोत्पादपूर्व प्रथम, तत्रच सर्वद्रव्याणां पर्यवाणां चोत्पादभावमङ्गीकृत्य प्रज्ञापना कृता, तस्य च पदपरिमाणमेका कोटी, अग्गेणीयं द्वितीय, तत्रापि सर्वेषां द्रव्याणां पर्यवाणां जीवविशेषाणां चाग्रं-परिमाणं वर्ण्यत इत्यग्रेणीयं तस्य पदपरिमाणं षण्णवति पदशतसहस्राणि, 'वीरियंतिवीर्यप्रवादंतृतीयं, तत्राप्यजीवानांजीवानांच सकर्मेतराणां वीर्यं प्रोच्यत इति वीर्यप्रवादं, तस्यापि सप्तति पदशतसहस्राणि परिमाणं।
अस्तिनास्तिप्रवादं चतुर्थं, यघल्लोके यथास्तियथा वा नास्ति, अथवा स्याद्वादाभिप्रायतः तदेवास्ति तदेव नास्तीत्येवं प्रवदतीति अस्तिनास्तिप्रवादं भणितं, तदपि पदपरिमाणतः षष्टि पदशतसहस्राणि, ज्ञानप्रवादं पञ्चमं, तस्मिन् मतिज्ञानादिपञ्चकस्य भेदप्ररूपणा यस्मात् कृता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org