________________
१४८
समवायाङ्गसूत्रम्-२२७
अनुकम्पाशयप्रयोगत्रिकालमतिविशुद्धभक्तपानानि प्रदायेति क्रियायोगः, केन प्रदायेत्याहप्रयतमनसा-आदरभूतचेतसा, हितोऽनर्थपरिहाररूपत्वात्सुखहेतुत्वात् सुखःशुभोवा 'नीसेस'त्ति निश्रेयसः कल्याणकरत्वात् तीव्र:-प्रकृष्टः परिणामः-अध्यवसानं यस्याः सा तथा सा निश्चिताअसंशया मति-बुद्धिर्येषां ते हितसुखनिः-श्रेयसतीव्रपरिणानिश्चितमतयः किं ?
__-पयच्छिऊणं तिप्रदाय, किंभूतानि भक्तपानानि?-प्रयोगेषुशुद्धानिदायकदानव्यापारपेक्षया सकलाशंसादिदोषरहितानि ग्राहकग्रहणव्यापारपेक्षया चोद्गमादिदोषवर्जितानि ततः किं? -यथा च-येन च प्रकारेण पारम्पर्येण-मोक्षसाधकत्वलक्षणेन निवर्तयन्ति, भव्यजीवा इति गम्यते, तुशब्दोभाषामात्रार्थः, बोधिलाभ, यथा च परित्तीकुर्वन्ति-हस्वतांनयन्ति संसारसागरमिति योगः, किंभूतं?-नरनिरयतिर्यक्सुरगतिषु यजीवानां गमनं-परिभ्रमणं स एव विपुलो-विस्तीर्णः परिवर्तो-मत्स्यादीनां परिवर्तनमनेकधा सञ्चरणं यत्र स तथा -
___ -तथाअरतिभयविषादंशोकमिथ्यात्वान्येव शैलाः-पर्वतास्तैः सङ्कटः-सङ्कीर्णो यः स तथा ततः कर्मधारयोऽतस्तं, इहच विषादो-दैन्यमात्रंशोकस्त्वाक्रन्दनादिचिह्नइति, तथा अज्ञानमेव तमोऽन्धकारं-महान्धकारंयत्रस तथाअतस्तं, 'चिक्खिल्लसुदुत्तारं तिचिक्खिल्लं-कर्दमः संसारपक्षे तु चिक्खिल्लं-विषयधनस्वजनादिप्रतिबन्धस्तेन सुदुस्तरो-दुःखोत्तार्यो यः स तथा तं, तथा जरामरणयोनय एव संक्षुभितं-महामत्स्यमकरायनेकजलजन्तुजातसम्मन प्रविलोडितं चक्रवालंजलपारिमाण्डल्यं यत्र स तथा तं, तथा षोडश कषाया एव स्वापदानि-मकरग्राहादीनि प्रकाण्डचण्डानि-अत्यर्थरौद्राणियत्रसतथातं, अनादिकमनवदग्रमनन्तंसंसारसागरमिमं प्रत्यक्षमित्यर्थः, तथा यथा च सागरोपमादिना प्रकारेण निबध्नन्त्यायुः सुरगणेषु साधुदानप्रत्ययमिति भावः ।
___-यथा चानुभवन्ति सुरगणविमानसौख्यानि अनुपमानि, ततश्च कालान्तरेणच्युतानाम् 'इहेव'त्ति तिर्यग्लोके नरलोकमागतानामायुर्वपुर्वर्णरूपजातिकुलजन्मारोग्यबुद्धिमेधाविशेषा आख्यायन्त इति योगः, तत्रायुषो विशेष इतरजीवायुषः सकाशात् शुभत्वं दीर्घत्वं च एवं वपुःशरीरं तस्य स्थिरसंहननता वर्णस्योदारगौरत्वं रूपस्यातिसुन्दरता जातेरुत्तमत्वं कुलस्याप्येवं जन्मनो विशिष्टक्षेत्रकालौ निराबाधत्वं आरोग्यस्य प्रकर्ष बुद्धिरौत्पत्तिक्यादिका तस्याः प्रकृष्टता मेधा अपूर्वश्रुतग्रहणशक्तिस्तस्या विशेषः प्रकृष्टतैवेति, तथा मित्रजनः-सुहल्लोकः स्वजन:पितृपितृव्यादिः धनधान्यरूपोयो विभवो लक्ष्मीः स धनधान्यविभवस्तथा समृद्धेः-पुरान्तःपुरकोशकोष्ठागा-रबलवाहनरूपायाः सम्पदो यानि साराणि-प्रधानानि वस्तूनि तेषां यः समुदयः-समूहः स तथा इत्येतेषां द्वन्द्वस्तत एषां ये विशेषाः-प्रकर्षास्ते तथा
-तथा बहुविधकामभोगोद्भवानां सौख्यानां विशेषाइतीहापि सम्बन्धनीयं, शुभविपाक उत्तमो येषां ते शुभविपाकोत्तमास्तेषुजीवेष्वितिगम्यं, इहचेयं षष्ठ्यर्थे सप्तमी, तेन शुभविपाकाध्ययनवाच्यानां साधूनामायुष्कादिविशेषाः शुभविपाकाध्ययनेष्वाख्यायन्ते इति प्रकृतं, अथ प्रत्येकं श्रुतस्कन्धयोरभिधेय पुण्यपापविपाकरूपे प्रतिपाद्य तयोरेव यौगपद्येन ते आह-अनुवरये'त्यादि, अनुपरता-अविच्छिन्ना ये परम्परानुबद्धाः-पारम्पर्यप्रतिबद्धाः, के ? -विपाका इति योगः, केषां? -अशुभानांशुमानां चैव कर्मणां प्रथमद्वितीयश्रुतस्कन्धयो क्रमेणैव च भाषिता-उक्ता। .
बहुविधा विपाकाः विपाकश्रुतेएकादशाङ्गेभगवता जिनवरेण संवेगकारणार्था-संवेगहेतवो भावाः अन्येऽपि चैवमादिका आख्यायन्त इति पूर्वोक्तक्रियया वचनपरिणामाद्वोत्तर क्रियया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org