________________
समवायः प्रकीर्णकाः
सपरिग्रहता तया संचितानां कर्म्मणामिति योगः, महातीप्रकषायेन्द्रियप्रमादपापप्रयोगा-शुभाध्यवसायसञ्चितानां कर्मणां पापकानां पापानुभागा-अशुभरसा ये फलविपाका विपाकोदयास्ते तथा ते आख्यायन्त इति योगः केषामित्याह - निरयगतौ तिर्यगयोनी च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धाः ते तथा तेषां जीवानामिति गम्यते, तथा 'मणुयत्ते' त्ति मनुजत्वेऽप्यागतानां यथा पापकर्मशेषण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः, तथा आख्यायन्ते इति प्रकृतं तथाहि वधो- यष्ट्यादिताडनं वृषणविनाशो-वर्द्धितककरणं तथा नासायाश्च कर्णयोश्च ओष्ठस्य चाङ्गुष्ठानां च करयोश्च चरणयोश्च नखानां य यच्छेदनं तत्तथा जिह्वाछेदनं
'अंजण' त्ति अञ्जनं तप्तायः शलाकया नेत्रयोः भ्रक्षणंचा देहस्य क्षारतैलादिना 'कडग्गिदाणं ति कटानां विदलवंशादिमयानामग्निः कटाग्निस्तने दाहनं कटाग्निदाहनं, कटेन परिवेष्टितस्य बाधनमित्यर्थः, तथा गजचलनमलनं फालनं विदारणं उल्लम्बनंवृक्षशाखादायुद्बन्धनं तथा शूलेन तया लकुटेन यष्ट्या च भञ्जनं गात्राणां तथा त्रपुणा - धातुविशेषेण सीसकेण च तेनैव तप्तेन तैलेन च 'कलकल' त्ति सशब्देनाभिषेचनं तथा कुम्भ्यां भाजनविशेषे पाकः कुम्भीपाकः कम्पनंशीतलजलाच्छोदनादिना शीतकाले गात्रोत्कम्पजननं तथा स्थिरबन्धनंनिबिडनियन्त्रणं वेध:कुन्तादिना शस्त्रेण भेदनं वर्द्धकर्त्तनं-त्वगुत्त्रोटनं प्रतिभयकरं भयजननं तच्च तत् करप्रदीपनं चवसनावेष्टितस्य तैलाभिषिक्तस्य करयोरग्निप्रबोधनमिति कर्म्मधारयः, ततश्च वधश्च वृषणविनाशश्चेत्यादि यावत्प्रतिभयकरकरप्रदीपनं चेति द्वन्द्वः ।
- ततस्तानि आदिर्येषां दुःखानां तानि च तानि दारुणानि चेति कर्म्मधारयः, कानीमानीत्याहदुःखानि, किंभूतानि ? - अनुपमानि दुःखविपाकेष्वाख्यायन्त इति प्रक्रमः, तथेदमाख्यायते बहुविविधपरम्पराभिदुःखानामिति गम्यते, अनुबद्धाः सन्ततमालिङ्गिता बहुविधपरम्परानुबद्धा जीवा इति गम्यते न मुच्यन्ते न त्यज्यन्ते, कया ? - पापकर्मवल्ल्या दुःखफलसम्पादिकया, किमित्याहयतो वेदयित्वा अननुभूय कर्मफलमित गम्यते हुर्यस्मादर्थेनास्ति न भवति मोक्षो वियोगः कर्म्मणः सकाशात्, जीवानामिति गम्यते, किं सर्वथा नेत्याह-तपसा - अनशनादिना किम्भूतेन ? - धृतिचित्तसमाधानं तद्रूपा ।
१४७
- 'धणिय'त्ति अत्यर्थं बद्धा-निष्पीडिता कच्छा-बन्धविशेषो यत्र तत्तथा तेन, धृतिबलयुक्तेनेत्यर्थः, शोधनं - अपनयनं तस्य कर्म्मविशेषेस्य 'वावि'त्ति सम्भावनायां 'होज्जा' सम्पद्येत नान्यो मोक्षोपायोऽस्तीति भावः, 'एत्तोये 'त्यादि इतश्चानन्तरं सुखविपाकेषु द्वितीयश्रुत-स्कन्धाध्ययनेष्वित्यर्थः यदाख्यायते तदभिधीयत इति शेषः, शीलं ब्रह्मचर्यं समाधिर्वा संयमः -प्राणातिपातविरतिर्नियमा अभिग्रहविशेषाः गुणाः शेषमूलगुणाः उत्तरगुणाश्च तपोऽनशनादि एतेषामुपधानं विधानं येषां ते तथा अतस्तेषु शीलसंयमनियमगुणतपउपधानेषु, केष्वित्याहसाधुषु यतिषु, किम्भूतेषु ?
-सुष्ठु विहितं- अनुष्ठितं येषां ते सुविहितास्तेषु भक्तादि दत्त्वा यथा बोधिलाभादि निर्वर्तयन्ति तथेहाख्यायत इति सम्बन्धः, इह च सम्प्रदानेऽपि सप्तमी न दुष्टा, विषयस्य विवक्षणात्, अनुकम्पाअनुक्रोशस्तठप्रधान आशयः- चित्तं तस्य प्रयोगोव्यावृत्तिरनुकम्पाशयप्रयोगस्तेन, तथा 'तिकालपति' त्ति त्रिषु कालेषु या मति बुद्धिर्यदुत दास्यामीति परितोषो दीयमाने परितोषो दत्ते च परितोष इति सा त्रैकालिमतिस्तया च यानि विशुद्धानि तानि तथा तानि च तानि भक्तपानानि चेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org