SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ समवायः - प्रकीर्णकाः १३९ प्रक्रमः, तथा चलितानांच-कथञ्चित्कर्मवशतः परीषहादावधीरतया संयमप्रतिज्ञायाः प्रभ्रष्टानां सह देवैर्मानुषाः सदेवमानुषास्तेषांसम्बन्धीनिधीरकरणे-धीरत्वोत्पादने यानि कारणानि-ज्ञातानि तानि सदेवमानुषधीरकरणकारणानि आख्यायन्त इति प्रक्रमः । • इयमत्र भावना-यथा आर्याषाढो देवेनधीरीकृतोयथा वा मेघकुमारोभगवताशैलकाचार्यो वा पन्थकसाधुनाधीरीकृतः एवंधीरकरणकारणानि तत्राख्यायंते, किंभूतानितानीत्याह-बोधनानुशासनानि' बोधनानि-मार्गभ्रष्टस्य मार्गस्थापनानि अनुशासनानि-दुःस्थस्य सुस्थतासम्पादनानि अथवा बोधन-आमन्त्रणं तत्पूर्वकान्यनुशासनानि बोधनानुशासनानि, तथा गुणदोषदर्शनानिसंयमाराधनायां गुणा इतरत्र दोषा भवन्तीत्येवंदर्शनानि वाक्यान्याख्यायन्त इति योगः । तथा दृष्टान्तान ज्ञातानि प्रत्ययांश्च बोधिकारणभूतानि वाक्यानि श्रुत्वा 'लोकमुनयः' शुकपरिव्राजकादयो 'यथा' येन प्रकारेण स्थिताःशासनेजरामरणनाशनकरेजिनानां सम्बन्धिनीति भावः,तथाऽऽख्यायन्त इति योगः, तथा 'आराहितसञ्जम'त्ति एत एव लौकिकमुनयः संयम वलिताश्च जिनप्रवचनं प्रपन्नाः पुनः परिपालितसंयमाश्चसुरलोकं गत्वाचैते सुरलोकप्रतिनिवृत्ता उपयान्ति यथा शाश्वतं-सदाभाविनं शिवं-अबाधाकं सर्वदुःखमोक्षं निर्वाणमित्यर्थः, एते चोक्तलक्षणाः अन्ये च एवमादिअत्य'त्ति एवमादय आदिशब्दस्य प्रकारार्थत्यादेवंप्रकाराअर्थाःपदार्थाः, वित्थरेण यत्ति विस्तरेणचशब्दात् क्वचित्केचित् संक्षेपेण आख्यायन्त इति क्रियायोगः 'नाया धम्मकहासुण मित्यादि कण्ट्यमानिगमनात्।। नवरं 'एगूणवीसमज्झयण'त्ति प्रथमश्रुतस्कन्धे एकोनविंशतिद्धितीयं च दशेति, तथा 'दसधम्मकहाणंवग्गा' इत्यादौ भावनेयं-इहैकोनविंशतिर्शाताध्ययनानि दान्तिकार्थज्ञापनलक्षणज्ञातप्रतिपादकत्वात्तानि प्रथमश्रुतस्कन्धे, द्वितीये त्वहिंसादिलक्षणधर्मस्य कथा धर्मकथाआख्यानकानीत्युक्तंभवति, तासांचदश वर्गा, वर्ग इति समूहः,ततश्चाधिकारसमूहात्मकान्यघयनान्येव दश वर्गा द्रष्टव्याः, तत्रज्ञातेष्वादिमानि दश यानि तानि ज्ञातान्येव, न तेष्वाख्यायिकादिसम्भवः, शेषाणि नव ज्ञातानि । तेषुपुनरेकैकस्मिन् पञ्चपञ्च चत्वारिंशदधिकानिआख्यायिकाशतानि, तत्राप्येकैकस्यामाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्च पञ्चाख्यायिकोपाख्यायिकाशतानि, एवमेतानि संपिण्डितानि कंसातं । ॥१॥ इगवीसं कोडिसयं लक्खा पन्नासमेव बोद्धव्वा । एवं ठिए समाणे अहिगयसुत्तस्स पत्थारो। तद्यथा 'दसधम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पञ्चपञ्च अक्खाइयासयाई एगमेगाए अक्खाइयाए पञ्च पञ्चउवक्खाइयासयाइं एगमेगा उवक्खाइयाए पञ्च पञ्च अक्खाइउवक्खाइयासयाइंति, एवमेतानि सम्पिण्डितानि किं संजातं । ॥१॥ पणवीसं कोडिसयं एत्थ य समलक्खणाइया जम्हा । __नवनाययसंबद्धा अक्खाइयमाइया तेणं । ॥२॥ ते सोहिजंति फुडं इमाउ रासीओ वेगलाणं तुं। पुणरुत्तवञ्जियाणं पमाणमेयं विणिदिटुं ।। शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव कथानककोटयो भवन्तीति, अत एवाह-‘एवमेव __www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy