________________
१३८
समवायाङ्गसूत्रम्-२२२
चित्तस्वास्थ्यं मति-बुद्धिर्व्यवसाय: - अनुष्ठानोत्साह इति तथा तपसि नियमः अवश्यकरणं तपोनियमो नियन्त्रितं तपः स च तप उपधानं चानियन्त्रितं तप एव श्रुतोपचारः तपोनियमतउपपधाने ते एव रणश्च कातरजनक्षोभकत्वात् सङ्ग्रामो 'दुद्धरभर 'त्ति श्रमकारणत्वाद्दुर्द्धरभरश्च दुर्वहलोहादिभारस्ताभ्यां भग्ना इति (एव) - भग्नका:- परामुखीभूतास्तथा
'निस्सहगनिसद्वाणं' ति निसहा नितरामशक्तास्त एव सिहका निसृष्टाश्च निसृष्टाङ्गा मुक्ताङ्गा ये ते तपोनियमतपउपधानरणदुर्धरभरभग्नकनिसहकनिसृष्टाः, पाठान्तरेण निसहकनिविष्टास्तेषा, इह च प्राकृतत्वेन ककारलोपसन्धिकरणाभ्या भग्ना इत्यादौ दीर्घत्वमवसेयं, तथा घोरपरीषहैः पराजिताश्चासहाश्च - असमर्था सन्तः पारब्धाश्च - परीषहैरेव वशीकर्तु रुद्धाश्च मोक्षमार्गमने ये ते घोरपरीषहपराजितासहप्रारब्धरुद्धाः अत एव सिद्धालयमार्गात् ज्ञानादेर्निर्गताःप्रतिपतिता येते तथा तेच ते चेति तेषां घोरपरीषहपराजितासहप्रारब्धरुद्धसिद्धालयमार्गनिर्गतानां, पाठान्तरेण घोरपरीषहपराजितानां तथा सहयुगपदेव परीषहैर्विशिष्टगुणश्रेणिमारोहन्तः प्ररुद्धरुद्धाः-अतिरुद्धाः सिद्धालयमार्गनिर्गताश्च ये ते तथा तेषां सहप्ररुद्धसिद्धालयमार्गनिर्गतानां
- तथा विषयसुखेषु तुच्छेषु स्वरूपतः आशावशदोषेण - मनोरथपारतन्त्र्यवैगुण्येन मूर्च्छिताअध्युपपन्ना ये ते तथा तेषां विषयसुखतुच्छाशावशदोषमूर्छितानां पाठान्तरेण विषयसुखे या महेच्छा कस्यचिदवस्थायां या चावस्थान्तरे तुच्छाशा तयोर्वशः पारतन्त्र्यं तल्लक्षणेन दोषेण मूर्च्छिता ये ते तथा तेषां विषयसुखमहेच्छतुच्छाशावशदोषमूर्च्छितानां, तथा विराधितानि चारित्रज्ञानदर्शनानि यस्ते तथा, तथा यतिगुणेषु विविधप्रकारेषु मूलगुणोत्तरगुणरूपेषु निःसाराः सारवर्जिताः पलञ्जिप्रायगुणधान्या इत्यर्थः, तथा तैरेव यतिगुणैः शून्यकाः सर्वथा अभावाद्ये ते तथेति, पदत्रयस्य च कर्म्मधारयोऽतस्तेषां विराधितचारित्रज्ञानदर्शनयतिगुणविविधप्रकारनिःसारशून्यकानां, किमत आह-संसारे संसृतौ अपारदुःखा - अनन्तक्लेशा ये दुर्गतिषुनारकतिर्यक्कुमानुषकुदेवत्वरूपासु भवा भवग्रहणानि तेषां ये विविधाः परम्पराः पारम्पर्याणि तासां ये प्रपञ्चास्ते संसारापारदुर्गतिभवविविधपरम्परा प्रपञ्चाः ।
आख्यायते इति पूर्वेण योगः, तथा धीराणां च महासत्त्वानां, किंभूतानां ? -जितं परीषहकषायसैन्यं यैस्ते तथा, धृतेः- मनःस्वास्थ्यस्य धनिकाः-स्वामिनो धृतिधनिकाः तथा संयमे उत्साहोवीर्यं निश्चितः अवश्यंभावी येषां संयमोत्साहनिश्चितास्ततः पदत्रयस्य कर्मधारयोऽतस्तेषां जितपरीषहकषाय सैन्यधृतिधनिकसंयमोत्साहनिश्चितानां, तथा आराधिता ज्ञानदर्शनचारित्रयोगा यैस्ये तथा निशल्यो- मिथ्यादर्शनादिशल्यरहितः शुद्धश्च अतीचारविमुक्तो यः सिद्धालयस्यसिद्धेर्यो मार्गस्तस्याभिमुखा ये ते तथा ततः पदद्वयस्य कर्म्मधारयः अतस्तेषामाराधितज्ञानदर्शनचारित्रयोगनिशल्यशुद्धसिद्धालयमार्गाभिमुखानां ।
किमत आह- सुरभवने - देवतयोत्पादे यानि विमानसौख्यानि तानि सुरभवनविभानसौख्यानि अनुपमानि ज्ञाताधर्मकथास्वाख्यायन्त इति प्रक्रमः, इह च भवनशब्देन भवनपतिभवनानि न व्याख्यातान्यविराधितसंयमप्रव्रजितप्रस्तावात्, ते हि भवनपतिषु नोत्पद्यन्त इति, तथा मुक्त्वा चिरं च भोगभोगानू मनोज्ञशब्दादीन् तांस्तथाविधान् दिव्यान् स्वर्गभवान् 'महार्हान् ' महतःआत्यन्तिकान् अर्हान्-प्रशस्ततथा पूज्यानिति भावः, ततश्च देवलोकात् कालक्रमच्युतानां यथा पुनर्लब्धसिद्धिमार्गाणां मनुजगताववाप्तज्ञानादीनामन्तक्रिया-मोक्षो भवति तथाऽऽ ख्यायन्त इति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International