SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ समवायः -१ यानि वर्षाण्यायुर्येषां ते तथा ते च ते सज्ज्ञिनश्च-समनस्कास्ते च ते पञ्चेन्द्रियतिर्यग्योनिकाचेत्यसङ्ख्येयवर्षायुः सज्ज्ञिपञ्चेन्द्रियतिर्यग्योनिकास्तेषा केषाच्चिद् ये हेमवतैरण्यवतवर्षयोरुत्पन्नास्तेषामेकं पल्योपमं स्थिति, एवं मनुष्यसूत्रमपि। नवरंगर्भ-गर्भाशये व्युत्क्रान्ति-उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिका न समूर्छनजा इत्यर्थः । 'वाणमन्तराणंदेवाणं'ति, देवानामेवनतुदेवीनां,तासामर्द्धपल्योपमस्य प्रतिपादितत्वात्, 'जोइसियाणं देवाणं ति चन्द्रविमानदेवानां, न सूर्यादिदेवानां, नापिचन्द्रादिदेवीनां, 'पलियंच सयसहस्सं चन्दाणवि आउयंजाण' इतिवचनात् । ___ 'सोहम्मेकप्पे देवाणं तिइहदेवशब्देन देवा देव्यश्च गृहीताः, सौधर्मे हि पल्योपमाद्धीनतरा स्थितिर्जघन्यतोऽपि नास्ति, इयं च प्रथमप्रस्तटेऽवसेया, 'सोहम्मे कप्पे अत्थे गइयाणं देवाणं एगंसागरोवम'मिति,अत्र देवानामेव ग्रहणंन तुदेवीनां, उत्कृष्टतोऽपितत्र तासांपञ्चाशत्सल्योपमस्थितिकत्वात्, तथा एकं सागरोपममिति मध्यमस्थित्यपेक्षया, उत्कर्षतस्तत्र सागरोपमद्वयसद्भावात्, प्रस्तटापेक्षया त्वेषा सप्तमे प्रस्तटे मध्यमावसेया। 'ईसाणे कप्पेदेवाणमित्यत्रदेवग्रहणेन देवादेव्यश्चगृह्यन्ते, यतस्तत्रसातिरेकपल्योपमादन्याजधन्यतः स्थितिरेव नास्ति, 'ईसाणे कप्पे देवाणं अत्यंगइयाण'मित्यत्रदेवानामेव ग्रहणन देवीनां, तत्र तासामुत्कर्षतोऽपि पच्चपञ्चाशत्पल्योपमस्थितिकत्वादिति, तथा ये देवाः सागरंसागराभिधानमेवंसुसागरंसागरकान्तंभवंमनुमानुषोत्तरंलोकहितमिह चकारोद्रष्टव्यः, समुच्चयस्य द्योतनीयत्वाद्, विमानं-देवनिवासविशेषमासाद्येति शेषः, देवत्वेन न तु देवीत्वेन तासां सागरोपमस्थितेरसम्भवात् उत्पन्ना-जातास्तेषांदेवीनामेकंसागरोपमंस्थिति, एतानिच विमानानि सप्तमे प्रस्तटेऽवसेयानि । स्थित्यनुसारेण च देवानामुच्छ्वासादयो भवन्तीति तान् दर्शयन्नाह-'ते णमित्यादि, येषां देवानामेकं सागरोपमं स्थितिस्ते देवाणमित्यलारेअर्द्धमासस्यान्ते इतिशेषः आनन्तिप्राणन्ति, एतदेवक्रमेणव्याख्यानयन्नाह-उच्छ्वसन्ति निश्वसन्ति, वाशब्दाःविकल्पार्था, तथातेषामेववर्षसहस्रस्यान्तेइति शेषः, आहारार्थ-आहारप्रयोजनमाहारपुद्गलानांग्रहणमाभोगतो भवति, अनाभोगतस्तुप्रतिसमयमेव विग्रहादन्यत्र भवतीति, गाथेह॥१॥ 'जस्स जइ सागरोवमाइं ठिइ तस्स तत्तिएहिं पक्खेहि। ऊसासो देवाणं वाससहस्सेहि आहारो॥ त्ति सन्ति-विद्यन्ते एगइया एके केचन भवसिद्धिय'तिमवा-भाविनी सिद्धि-मुक्तिर्येषां ते भवसिद्धिकाः-भव्याः "भवग्गहणेणंति भवस्य-मनुष्यजन्मनो ग्रहणम्-उपादानं भवग्रहणं तेन सेत्स्यन्तिअएविधमहर्द्धिप्राप्तया भोत्स्यन्ते केवलज्ञानेतत्वं मोक्षन्ति कर्मराशेः परिनिर्वास्यन्तिकर्मकृतविकारविरहाच्छीतीभविष्यन्ति, किमुक्तं भवति ?-सर्वदुःखानामन्तं करिष्यन्तीति । सामान्यनयाश्रयणादेकतया वस्तून्यभिधायाधुना विशेषनयाश्रयणादित्वेनाह समवायः-१ समाप्तः मुनि दीपरत्नसागरेण संशोधिता-सम्पादिता अभय देवसूरि विरचिता समावायाझे प्रथम समवाय टीका परिसमाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy