________________
समवायाङ्गसूत्रम् - १/१
तप्रदेशोऽपि जीवो द्रव्यार्थतया एकः, अथवा प्रतिक्षणं पूर्वस्वभावक्षयापरस्वरूपोत्पादयोगेनानन्तभेदोऽपि कालत्रयानुगामिचैतन्यमात्रापेक्षया एक एव आत्मा, अथवा प्रतिसन्तानं चैतन्यभेदेनानन्तत्वऽप्यात्मनां सङ्ग्रहनयाश्रितसामान्यरूपपेक्षयैकत्वमात्मन इति ।
तथा न आत्मा अनात्मा - घटादिपदार्थः, सोऽपि प्रदेशार्थतया सङ्क्षेययासङ्घयेयानन्तप्रदेशोऽपि तथाविधैकपरिणामरूपद्रव्यार्थापेक्षया एक एव एवं संतानापेक्षयाऽपि, तुल्यरूपापेक्षया तु अनुपयोगलक्षणैस्वभावयुक्तत्वात्कथच्चिद्भिन्नस्वरूपाणामपि धर्मास्तिकायादीनामनात्मनामेकत्व
१०
भवसेयमिति ।
तथा एको दण्डोदुष्प्रयुक्तमनोवाक्कायलक्षणो हिंसामात्रं वा, एकत्वं चास्य सामान्यनयादेशाद, एवं सर्वत्रैकत्वमवसेयं । तथैकोऽदण्डः प्रशस्तयोगत्रयमहिंसामात्रं वा ।
तथैका क्रिया- कायिक्यादिका आस्तिक्यमात्रं वा । तथैका अक्रियायोगनिरोधलक्षणा नास्तिकत्वं वा ।
तथैको लोकः, त्रिविधोऽप्यसङ्घयेयप्रदेशोऽपि वा द्रव्यार्थतया । तथा एकोऽलोकः, अनन्तप्रदेशोऽपि द्रव्यार्थतया, अथवैते लोकालोकयोर्बहुत्वव्यवच्छेदनपरे सूत्रे, अभ्युपगम्यन्ते च कैश्चिद्बहवो लोकाः, अतस्तद्विलक्षणा अलोका अपि तावन्त एवेति, एवं सर्वत्र गमनिका कार्या ।
नवरं धर्मो-धर्मास्तिकायः, अधर्म-अधर्मास्तिकायः, पुण्यं शुभं कर्म, पापम्-अशुभं कर्म, बन्धो जीवस्य कर्मपुदगलसंश्लेषः, स चैकः सामान्यतः, सर्वकर्मबन्धवयवच्छेदावसरेवा पुनर्बन्धाभावाद्, अनेनोद्देशेन मोक्षाश्रवसंवरवेदनानिर्जराणामप्येकत्वमवसेयमिति । इह चानात्मग्रहणेन सर्वेषामनुपयोगवतामेकत्वं प्रज्ञाप्य पुनर्लोकादितया यदेकत्वप्ररूपणं तत्सामान्यविशेषापेक्षमवगन्तव्यमिति । एवं चात्मादीनां सकलशास्त्रपञ्चानमर्थानां प्रत्येकमेकत्वमभिधाय अधुनात्मपरिणामरूपाणामर्थानां तदेवाह 'जम्बू' इत्यादि सूत्रसप्तकमाश्रयविशेषाणां तथा 'इमीसे रयणे 'त्यादिसूत्राष्टथदशकमा श्रयिणां स्थित्यादिधर्माणां प्रतिपानपरं सुबोधं, नवरं 'जम्बुद्दीवे दीवे' इह सूत्रे 'आयामविक्खंभेणं' ति क्वचित्पाठो दृश्यते, क्वचित्तु 'चक्क वालविक्खंभेणं'ति तत्र प्रथमः सम्भवति, अन्यत्रापि तथा श्रवणात्, सुगमश्च, द्वितीयस्त्वेवं व्याख्येयः चक्रवालविष्कम्भेन-वृत्तव्यासेन, इदं च प्रमाणयोजनमंवसेयम्, यदाह -
11911
"आयङ्गुलेण वत्थु उस्सेहपमाणओ मिणसु देहं । नगपुढविविमाणाइं मिणसु पमाणंगुलेणं तु ॥
तथा पालकं- यानविमानं सौधर्मेन्द्रसम्बन्ध्याभियोगिकपालकाभिधानदेवकृतं वैक्रि यं, यानं - गमनं तदर्थं विमानं यायतेऽनेनेति यानं तदेव वा विमानं यानविमानं पारियानिकमिति यदुच्यते
'अत्थी' त्यादि, अस्ति-विद्यते एकेषां केषाञ्चिनैयिकाणामेकं पल्योपमं स्थितिरितिकृत्वा ‘प्रज्ञप्ता' प्रवेदिता मया अन्यैश्च जिनैः, सा चतुर्थे प्रस्तटे मध्यमाऽवसेयेति, एवमेकं सागरोपमं त्रयोदशे प्रस्तटे उत्कृष्टा स्थिति इति ।
'असुरिन्दवज्जियाणं' ति चमरबलिवर्जितानां 'भोमेजाणं' ति भवनवासिनां भूमौपृथिव्यां रत्नप्रभाभिधानायं भवत्वात्तेषामिति, तेषां चैकं पल्योपमं मध्यमा स्थितिर्यत उत्कृष्टा देशोने द्वे पल्योपमे सा, आह च- “दाहिण दिवढ पलियं दो देसूणुत्तरिल्लाणं ति, 'असंखेजे' त्यादि, असङ्घये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org