SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११६ समवायाङ्गसूत्रम्-९१/१७० आयुर्गोत्रवजानां षण्णा'मिति ज्ञानावरणदर्शनावरणवेदनीयमोहनीयनामान्तरायाणां क्रमेण पञ्चनवद्यष्यविंशतिर्द्विचत्वारिंशत्पञ्चभेदानामिति । समवायः-९१ समाप्तः (समवायः-९२) मू. (१७१) बाणउई पडिमाओ पं०। थेरे णं इंदभूती बाणउइ वासाइंसव्वाउयं पालइत्ता सिद्धे बुद्धे । मंदरस्सणंपव्ययस्स बहुमज्झदेसभागाओगोथुभस्स आवासपव्वयस्सपञ्चच्छिमिल्लेचरमंते एस णं बाणउई जोयणसहस्साइंअबाहाए अंतरे प० एवं चउण्हपि आवासपव्ययाणं। वृ. अथ द्विनवतिस्थानके किमप्यभिधीयते, द्विनवति प्रतिमाः-अभिग्रहविशेषाः, ताश्च दशाश्रुतस्कन्धनिर्युक्तनुसारेण दर्श्यन्ते, तत्र किल पञ्च प्रतिमा उक्ताः, तद्यथा-समाधिप्रतिमा द्विविधा १ उपधानप्रतिमा २ विवेकप्रतिमा ३ प्रतिसंलीनताप्रतिमा ४ एकविहारप्रतिमा चेति ५ तत्र समाधिप्रतिमा द्विविधा श्रुतसमाधिप्रतिमा चारित्रसमाधिप्रतिमा च, दर्शनं ज्ञानान्तर्गतमिति न भिन्ना दर्शनप्रतिमा विवक्षिता, तत्र श्रुतसमाधिप्रतिमा द्विषष्टिभेदा, कथं ?, आचारे प्रथमे श्रुतस्कन्धे पञ्च द्वितीये सप्तत्रिंशत् स्थानाङ्गे षोडश व्यवहारे चतम्रइत्येता द्विषष्टिः, एताश्च चारित्रस्वभावा अपि विशिष्टश्रुतवतां भवन्तीति श्रुतप्रधानतया श्रुतसमाधिप्रतिमात्वेनोपदिष्टा इति सम्भावयामः, पञ्च सामायिकच्छेदोपस्थापनीयाधाश्चारित्रसमाधिप्रतिमाः, उपधानप्रतिमा द्विविधा भिक्षुश्रावकभेदात्, तत्र भिक्षुप्रतिमा मासाइसत्तंता' इत्यादिनाऽभिहितस्वरूपा द्वादशउपासकप्रतिमास्तु दंसणवय' इत्यादिनाऽभिहितस्वरूपाएकादशेति सर्वायोविंशतिर्विवेकप्रतिमा त्वेका क्रोधादेराभ्यन्तरस्य गणशरीरोपधिभक्तपानादेर्बाह्यस्य च विवेचनीयस्थानेकत्वेऽप्येकत्वविवक्षणादिति, प्रतिसंलीनताप्रतिमाऽप्येकैव इन्द्रियस्वरूपस्य पञ्चविधस्य नोइन्द्रियस्वभावस्य च योगकषायविविक्तशयनासनभेदतस्त्रिविधस्य प्रतिसंलीनताविषयस्य भेदेनाविवक्षणादिति, पञ्चम्येकविहारप्रतिमैकैव,नचेहसाभेदेन विवक्षिता, भिक्षुप्रतिमास्वन्त वितत्वादित्येवं द्विषष्टि पञ्च त्रयोविंशतिरेका एका च द्विनवतिस्ता भवन्तीति। स्थविर इन्द्रभूतिर्महावीरस्य प्रथमगणनायकः, सच गृहस्थपर्याये पञ्चाशतं वर्षाणि त्रिंशतं छद्मस्थपर्यायं द्वादश च केवलित्वं पालयित्वा सिद्ध इति सर्वाणि द्विनवतिरिति । _ 'मंदरस्से' त्यादि, भावार्थः, मेरुमध्यभागात् जम्बूद्वीपस्य पञ्चाशत्सहस्राणि ततो द्विचत्वारिंशत् सहनाण्यतिक्रम्य गोस्तुभपर्वत इति सूत्रोक्तमन्तरं भवतीति, एवं शेषाणामपि । समवायः-९२ समाप्तः (समवायः-९३) मू. (१७२) चंदप्पहस्सणं अरहओ तेणउई गणा तेणउई गणहरा होत्था, संतिस्स णं अरहओ तेणउई चउद्दसपुब्बिसया होत्था । तेणउईमंडलगते णं सूरिए अतिवट्टाणे निवट्टमाणे वा समं अहोरत्तं विसमं करेइ । वृ. अथ त्रिनवतिस्थानके किमपि वितन्यते, 'तेणउईमंडले'त्यादि, तत्र.अतिवर्तमानो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy