SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ समवायः - ९१ . ११५ भक्तपानादिभिरुपष्टम्भक्रियास्तद्विषयाः प्रतिमाः-अभिग्रहविशेषाः परवैयावृत्त्यकर्मप्रतिमाः, एतानि च प्रतिमात्वेनाभिहितानि क्वचिदपि नोपलब्धानि, केवलं विनयवैयावृत्त्यभेदाएते सन्ति, तथाहि-दर्शनगुणाधिकेषु सत्कारादिर्दशधा विनयः, आह च - ॥१॥ “सक्कार १ ड्भुट्ठाणे २ सम्माणे ३ आसणग्गहो ४ तहय । आसणअणुप्पयाणं ५ किइकम्मं ६ अञ्जलिगहो य७॥ ॥२॥ इंतस्सगुणच्छणया ८ ठियस्स तह पञ्जुवासणा भणिया ९। ___गच्छंताणुव्वयणं १० एसो सुस्सूसणाविणओ' ।। तत्र सत्कारो-वन्दनस्तवनादि १ अभ्युत्थानं-आसनत्यागः २ सन्मानो-वस्त्रादिपूजनं ३ आसनाभिग्रहः तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनमिति ४ आसानुप्रदानं-आसनस्य स्थानात् स्थानान्तरसञ्चारणं ४ कृतिकमादीनि प्रकटानि, तथा तीर्थङ्करादीनां पञ्चदशानां पदानामनाशातनादिपदचतुष्टयगुणितत्वे षष्टिविधोऽनाशातनाविनयो भवति, तथाहि । ॥१॥तित्थयर १ धम्म २ आयरिय ३ वायग ४ थेरे ५ कुल ६ गणे ७ सङ्घ ८ । सम्भो इय ९ किरियाए १० मइनाणाई १५ य तहेव ॥ अत्र भावना-तीर्थकराणामनाशातना तीर्थकराशातना, तीर्थङ्करप्रज्ञप्तस्य धर्मस्य अनाशातनाविनयः, एवं सर्वत्र भावना कर्तव्या । ॥१॥ . “अणसायणा य भत्ती बहुमाणो तहय वण्णवाओ य। अरहंतमाइयाणं केवलनाणावसाणाणं ।। तथौपचारिकविनयः सप्तधा यदाह। ॥१॥ “अब्भासासण १ छंदाणुक्त्तणं २ कयपडिकिई तहय ३ । कारियनिमित्तकरणं ४ दुक्खत्तगवेसणा तहय॥ ॥२॥ तह देसकालजाणण सव्वत्थे तहय अणुमई भणिया ७। -उवयारिओ उविणओ एसो भणिओ समासेणं ॥ इति अभ्यासासनं-उपचरणीयस्यान्तिकेऽवस्थानं छन्दोऽनुवर्तनं-अभिप्रायानुवृत्तिः कृतप्रतिकृतिर्नाम-प्रसन्नाआचार्या सूत्रादि दास्यन्तिन नामनिऑरतिमन्यमानस्याहारदिदानं कारितनिमित्तकरणं-सम्यकशास्त्रपदमध्यापितस्य विशेषेण विनये वर्तनं तदर्थानुष्ठानं च, शेषाणि प्रसिद्धानि, तथा वैयावृत्यं दशधा, यदाह - ॥१॥ "आयरिय उवज्झाए थेरतवस्सी गिलाणसेहाणं। .. साहम्मिय कुलगणसंघयसङ्गयं तमिह कायव्वं ॥ तत्रप्रव्राजना १ दिगु२ द्देश ३ समुद्देश४ वाचना ५ चार्यविनयोभवति, तथौपचारिकविनयोऽभ्यासवृत्तादिसप्तधा, तथा वैयावृत्त्यं दशभेदादाचार्यस्यचपञ्चविधत्वात्तदेवं चतुर्दशधेत्येकनवतिर्विनयभेदा एते एव अभिग्रहविषयीभूताः प्रतिमा उच्यन्त इति । दर्श० १० अना०६० औप० ७ वैया०.१४॥ तथा 'कालोएण'तिकालोदः समुद्रः, सचैकनकतिर्लक्षाणिसाधिकानिपरिक्षेपेण, आधिक्यं च सप्तत्या सहैः षडभि शतैः पञ्चोत्तरैः सप्तदशभिधुनुःशतैः पञ्चदशोत्तरैः सप्ताशीत्या चाङ्गुलैः साधिकैरिति आहोहिय'त्ति नियतक्षेत्रविषयावधयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy