SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ स्थानं - २, - उद्देशकः ३ 'जंबू' इत्यादि, 'एगजुगे 'त्ति पञ्चाब्दिकः कालविशेषो युगं तत्रैकस्मिन् तस्याप्येकस्मिन् समये 'एसमए एगजुगे' इत्येवं पाठेऽपि व्याख्योक्तक्रमेणैव, इत्थमेवार्थसम्बन्धादन्यथा वा भावनीयेति । द्वावर्हतां वंशौ- प्रवाहावेको भरतप्रभवोऽन्य एरवतप्रभव इति । 'दसार' तिदसारा:समय भाषया वासुदेवाः। ‘जंबू' इत्यादि, सदा-सर्वदा 'सुसमसुसमं ति प्रथमारकानुभागः सुषमसुषमा तस्याः सम्बन्धिनी या सा सुषमसुषमैव तां उत्तमर्द्धि-प्रधानविभूर्ति उच्चैस्त्वायुः कल्पवृक्षदत्तभोगोपभोगादिकां प्राप्ताः सन्तस्तामेव प्रत्यनुभवन्तो-वेदयन्तो न सत्तामात्रेणेत्यर्थः, अथवा सुषमसुषमांकालविशेषं प्राप्ताः-अधिगता उत्तमामृद्धिं प्रत्यनुभवन्तो विहरन्ति आसत इति, अभिधीयते च“दोसुवि कुरासु मनुया तिपल्लपरमाउणो तिकोसुच्चा । पिट्टिकेरंडसयाई दो छप्पन्नाई मनुयाणं 119 11 ॥२॥ सुसमसुसमानुभावं अनुभवमाणाणऽवच्चगोवणया । अउणापन्नदिणाइं अट्ठमभत्तस्स हारो " (इति) । देवकुरवो दक्षिणाः उत्तरकुरव उत्तरास्तेष्विति । 'जंबू' इत्यादि, 'सुसमं 'ति सुषमा द्वितीयारकानुभागः, शेषं तथैव, पठ्यते च 119 11 ८७ "हरिवासरंमएसुं आउपमागं सरीरउस्सेहो । पलि ओवमाणि दोत्रि उ दोन्नि य कोसा समा भणिया छठ्ठस्स य आहारो चउसडिदिनानुपालणा तेसिं । पिट्टिकरंडाण सयं अट्ठावीसं मुणेयव्वं " (इति) । ॥ २ ॥ 'जंबू' इत्यादि, 'सुसमदुस्समं 'ति सुषमदुष्षमा तृतीयारकानुभागस्तस्या या सा सुषमदुष्षमा ऋद्धिः, शेषं तथैव, उच्यते च 119 11 “गाउयमुच्चा पलिओवमाउणो वज्ररिसहसंघयणा । हेमवएरन्नवए अहमिंदनरा मिहणवासी चउसठ्ठी पिट्ठिकरंडयाण मनुयाण तेसिमाहारो । भत्तस्स चउत्थरस य उणसीतिदिनानुपालणया " (इति) | 'जंबू' इत्यादि, 'दूसमसुसमं ति दुष्षमसुषमा चतुर्थारप्रतिभागस्तत्सम्बन्धिनी ऋद्धिर्दुष्षमसुषमैव, शेषं तथैव, अधीयते च 119 11 'मणुयाण पुव्वकोडी आउं पंचुस्सिया धनुसयाई । दूसमसुसमानुभावं अनुहोंति नरा निययकाल” (इति) | 'जंबूद्दीवे' इत्यादि, 'छव्विहंपि' त्ति सुषमसुषमादिकं उत्सर्पिण्यवसर्पिणीरूपमिति । अनन्तरं जम्बूद्वीपे काललक्षणद्रव्यपर्यायविशेषा उक्ताः, अधुना तु जम्बूद्वीप एव कालपदार्थव्यञ्जकानां ज्योतिषां द्विस्थानकानुपातेन प्ररूपणामाह मू (९०) जंबुद्दीवे दीवे दो चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, दो सूरिआ तविंसु वा तवंति वा तविस्संति वा, दो कत्तिया, दो रोहिणीओ, दो मगसिराओ, दो अद्दाओ, एवं भाणियव्वं, । ॥२॥ वृ. 'जंबुद्दीवे' इत्यादि सूत्रद्वयं, 'पभासिंसुव' त्ति प्रभासितवन्तौ वा प्रकाशनीयमेवं प्रभासयतः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy