________________
स्थानं - २, - उद्देशकः -२
६७
'जे देवे' त्यादि, ये देवाः सुराः वक्ष्यमाणविशेषणेभ्योवैमानिका अनशनादेरुत्पन्नाः, किंभूताः'उद्ध’त्ति ऊर्द्धलोकस्तत्रोपपन्नकाः- उत्पन्ना ऊर्ध्वोपपन्नकास्ते च द्विधा- कल्पोपपन्नकाः-सौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नकाः-ग्रैवेयकानुत्तरलक्षणविमानोत्पन्नाः कल्पातीता इत्यर्थः, तथा परे 'चारोववन्नग' त्ति चरन्ति-भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो ज्योतिश्चक्रक्षेत्रं समस्तमेव, व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्तिनिमित्ताश्रयणात्, तत्रोपपन्नकाश्चारोपपत्रकाः -ज्योतिष्काः, न च पादपोपगमनादेज्योतिष्कत्वं न भवति, परिणामविशेषादिति, तेऽपि च द्विधैव, तथाहिचारे-ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिकाः-समयक्षेत्रबहिर्वर्त्तिनो घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिकाः, समय क्षेत्रवर्त्तिन इत्यर्थः, गतिरतयश्चासततगतयो ऽपि भवन्तीत्यत आह-गतिं-गमनं समिति- सन्ततमापन्नकाः - प्राप्ता गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः, तेषां देवानां द्विविधानां पुनर्द्धिविधानां सदा नित्यं समितं-सन्ततं यत्पापं कर्म-ज्ञानावरणादि, सततबन्धकत्वात् जीवानां क्रियते बध्यते, कर्मकर्तृप्रयोगोऽयं, भवति सम्पद्यत इत्यर्थः, ते देवास्तस्य कर्मणः अबाधाकालातिक्रमे सति 'तत्थगयावि'त्ति अपिरेवकारार्थस्तस्य चैवं प्रयोगः-तत्रैवदेवभव एव कल्पातीतानां क्षेत्रान्तरादिगमनासम्भवादिह तत्रान्यत्रशब्दाभ्या भव एव विवक्षितः, न क्षेत्रशयनासनादीति, गताः - वर्त्तमाना 'एके' केचन देवा वेदनाम् उदयं विपाकं 'वेदयन्ति' अनुभवन्ति, ‘अन्नत्थगयावित्ति देवभवादन्यत्रैव भवान्तरे गता - उत्पन्ना वेदनामनुभवन्ति, केचित्तूभयत्रापि, अन्ये विपाकोदयापेक्षया नोभयत्रापीति, एतच्च विकल्पद्वयं सूत्रे नाश्रितं, द्वित्वाधिकारादिति ।
सूत्रोक्तमेव विकल्पद्वयं सर्वजीवेषु चतुर्विंशतिदण्डकेन प्ररूपयन्नाह- 'नेरइयाण'मित्यादि, प्रायः सुगमम्, नवरं, “तत्थगयावि अन्नत्थगयावि” एवमभिलापेन दण्डको नेयो यावत्पञ्चेन्द्रियतिर्यञ्चेऽत एंवाह-'जावे'त्यादि, मनुष्येषु पुनरभिलापविशेषो दृश्यः, यथा 'इहगतावि एगइया' इति सूत्रकारो हि मनुष्योऽतस्तत्रेत्येवंभूतं परोक्षानासन्ननिर्देशं विमुच्य मनुष्यसूत्रे इहेत्येवं निर्दिशति स्म, मनुष्यभवस्य स्वीकृतत्वेन प्रत्यक्षासन्नवाचिन इदंशब्दस्य विषयत्वादिति, अत एवाह 'मणुस्सवज्जा सेसा एक्क गम'त्ति शेषाः - व्यन्तरज्योतिष्कवैममानिका एकगमाः-तुल्याभिलापाः, ननु प्रथमसूत्र एव ज्योतिष्क-वैमानिकदेवानां विवक्षितार्थस्याभिहितत्वात् किं पुनरिह तद्मणनेनेति ?, उच्यते, तत्रानुष्ठानफल- दर्शनप्रसङ्गेन भेदतश्चोक्तत्वाद्, इह तु दण्डकक्रमेण सामान्यतश्चोक्तत्वादिति न दोषो, दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिरितरोक्तौ त्वितरेति ।।
तत्रगता वेदनां वेदयन्तीत्युक्तमतो नारकादीनां गतिं तद्विपर्यस्तामागतिं च निरूपयन्नाह-मू. (७८) नेरतिता दुगतिया दुयागतिया पं० तं०-नेरइए २ सु उववज्रमाणे मणुस्सेहिंतो वा पंचिंदियतिरिक्खजोणिएहिंतो वा उववज्जेज्जा, से चेव णं से नेरइए नेरइयत्तं विप्पजहमाणे मनुस्सत्ताए वा पंचेदियतिरिक्खजोणियत्ताए वा गच्छेजा, एवं असुरकुमारावि, नवरं, से चेव णं से असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मनुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छिज्जा, एवं सव्वदेवा,
पुढविकाइया दुगतिया दुयागतिया पं० तं० पुढविकाइए पुढविकाइएसु उववज्रमाणे पुढविकाइएहिंतो वा नोपुढविकाइएहिंतो वा उववज्जेज्जा, से चेव णं से पुढविकाइए पुढविकाइयत्तं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International