________________
५७६
स्थानाङ्ग सूत्रम् १०/-/१०१० श्रीजिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशाकर्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचञ्चरीककल्पेन श्रीमदभयदेवसूरिनाम्नामयामहावीरजिनराजसन्तानवर्तिनामहाराजवंशजन्मनेव संविग्नमुनिवर्गश्रीमदजितसिंहाचार्यान्तेवासियशोदेवगणिनामधेयसाधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितं । तदेवं सिद्धमहानिधानस्येवसमापिताधिकृतानुयोगस्य मम मङ्गलार्थं पूज्यपूजा-नमो भगवते वर्तमानतीर्थनाथाय श्रीमन्महावीराय नमः प्रतिपन्धिसार्थप्रमथनाय श्रीपार्श्वनाथाय नमः प्रवचनप्रबोधिकायै श्रीप्रवचनदेवतायै नमः प्रस्तुतानुयोगशोधिकायै श्रीद्रोणाचार्यप्रमुखपण्डितपर्षदे नमश्चतुर्वर्णाय श्रीश्रमणसङ्घभट्टारकायेति । एवं च निजवंशकत्सरलराजसन्तानिकस्येव ममासमानमिमायासमतिसफलतां नयन्तो राजवंश्या इव वर्द्धमानजिनसन्तानवर्तिनः स्वीकुर्वन्तु यथोचितमितोऽर्थजातमनुतिष्ठन्तु सुष्ठूचितपुरुषार्थसिद्धिमुपयुञ्जताञ्च योग्येभ्योऽन्येभ्य इति ।। किंच
सत्सम्प्रदायहीनत्वात्, सदूहस्य वियोगतः ।
सर्वस्वपरशास्त्राणामहटेरस्मृतेश्च मे ॥१॥ ॥२॥ वाचनानामनेकत्वात्, पुस्तकानामशुद्धितः ।
सूत्राणामतिगाम्भीर्यान्मतभेदाच्च कुत्राचित् ।। ॥३॥ सूणानि सम्भवन्तीह, केवलं सुविवेकिभिः ।
सिद्धान्तानुगतो योऽर्थः, सोऽस्माद् ग्राह्यो न चेतरः ।। ॥४॥ शोध्यं चैतजिने भक्तैमभिवद्भिर्दयापरैः ।
संसारकारणाघोरादपसिद्धान्तदेशनात् ॥ कार्या न चाक्षमाऽस्मासु, यतऽस्माभिरनाग्रहैः ।
एतद् गमनिक्रामात्रमुपकारीति चर्चितम् ॥ ॥६॥ तथा सम्भाव्य सिद्धान्ताद, बोध्यं मध्यस्थया धिया ।
द्रोणाचार्यादिभिः प्राज्ञैनरेकैराध्तं यतः॥
जैनग्रन्थविशालदुर्गमवनादुच्चित्य गाढश्रमं, सद्वयाख्यानफलान्यमूनि मयका स्थानाङ्गसद्भाजने । संस्थाप्योपहितानि दुर्गतनरप्रायेण लब्ध्यर्थिना,
श्रीमत्सङ्गविभोरतः परमसावेव प्रमाणं कृती॥ ॥८॥
श्रीविक्रमादित्यनरेन्द्रकालाच्छतेन विंशत्यधिकेन युक्ते।
समासहेऽतिगते विहब्धा, स्थानाङ्गीटीकाऽल्पधियोऽपिगम्या॥ ॥१॥ प्रत्यक्षरं निरुप्यास्या, ग्रन्थमानं विनिश्चितम् ।
अनुष्टुभां सपादानि, सहस्राणि चतुर्दश। | ३ तृतीयं अगसूत्रस्थानाङ्ग सूत्रं समाप्तम् | मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्ग-तृतीय अङ्गसूत्रस्य टीका परिसमाप्ता ।
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org