________________
स्थानं-१०,
५७५
दसपतेसिताखंधाअनंतापन्नतादसपतेसोगाढापोग्गलाअनंतापन्नत्ता दससम-तठितीता पोग्गला अनंता पन्नत्ता दसगुणकालगा पोग्गला अनंतापन्नत्ता एवं वनेहिं गंधेहिं रसेहिं फासेहिं दसगुणलुक्खा पोग्गला अनंता पन्नता।।
वृ. 'जीवाणमित्यादि,अथवाजातियोनिकुलादिविशेषाजीवाणांकर्मणश्चयोपचयादिभ्यो भवन्तीति त्रिकालभाविनो दशस्थानकानुपातेन कर्मणश्चयादीनाह-'जीवा ण'मित्यादि, जीवाजीवनधर्माणोन सिद्धाइतिभावः, णमिति वाक्यालङ्कारेदशभिः स्थानः प्रथमसमयैकेन्द्रियत्वादिभिः पर्यायैः हेतुभिर्ये निर्विर्तिता-बन्धयोग्यतया निष्पादितास्ते तथा दशभिः स्थानैर्निर्वृत्तिर्वा येषां ते तथा तान् पुद्गलान-कर्मवर्गणारूपान् पापं-घातिक सर्वमेव वा कर्म तच्चतक्रियमाणत्वात् कर्मच पापकर्म तद्भावस्तत्ता तया पापकर्मतया 'चिणिंसुत्ति चितवन्तो गृहीतवन्तः चिन्वन्तिगृह्णन्ति चेष्यन्ति-गृहीष्यन्त्यनेनात्मनां त्रिकालन्वयित्वमाह, सर्वथा अनन्वयित्वेऽकृताभ्यागमकृतविप्रणाशप्रसङ्गादिति, वाशब्दा विकल्पार्थाः,
__ तद्यथा-प्रथमः समयो येषामेकेन्द्रियत्वस्य ते तथा ते च ते एकन्द्रियाश्चेति प्रथमसमयैकेन्द्रियास्तैः सद्भिर्ये निर्वर्त्तिताः-कर्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा तान्, एतद्विपरीतैरप्रथमसमयैकेन्द्रियैर्निवर्तिता येते तथा तान्, एवं द्विभेदता द्वित्रिचतुष्पञ्चेन्द्रियाणां . प्रत्येकं वाच्येति, एतदेवातिदेशेनाह-जावे'त्यादि, यथा चितवन्त इत्यादि कालत्रयनिर्देशन सूत्रमुक्तमेवमुपचितवन्त इत्यादीन्यपि पञ्च वक्तव्यानीत्येतदेवाह
_ 'एवं चिणे'त्यादि, इह चैवमक्षरघटना-चिणत्ति-यथा चयनं कालत्रयविशेषितमुक्तमेवमुपचयोबन्ध उदीरणा वेदना निर्जराच वाच्याः, 'चेव'त्ति समुचये नवरंचयनादीनामयं विशेषः-चयनं नाम कषायादिपरिणतस्य कर्मपुगद्गलोपादानमात्रं, उपचयनं गृहीतानां ज्ञानावरणादिभावेन निषेचनं बन्धन-निकाचनं उदीरणा-करणत उदये प्रवेशनं वेदनं-अनुभवनं निर्जरा-जीवप्रदेशेभ्यः परिशटनमिति।
पुद्गलाधिकार एवेदमाह-दसे त्यादि सूत्रवृन्दं सुगमंच, नवरंदशप्रदेशा येषां ते तथा त एव दशप्रदेशिका-दशाणुकाः स्कन्धाः-समुच्चया इतिद्रव्यतः पुद्गलचिन्ता, तथा दशसुप्रदेशेष्वाकाशस्यावगाढा-आश्रिता दशप्रदेशावगाढा इति क्षेत्रतः तथा दश समयान् स्थितिर्येषां ते तथेति कालतःतथादशगुणः-एकगुणकालापेक्षयादशाभ्यस्तःकालो-वर्णविशेषो येषांतेदशगुणकालकाः एवमन्यैश्चतुर्भिर्वाभ्यां गन्धाभ्यां पञ्चमी रसैरष्टाभिः स्पर्शः विशेषिताः पुद्गलाः अनन्ता वाच्याः अतएवाह-एवमित्यादि, जावदसगुणलुक्खापोग्गलाअनंतापन्नत्ते'त्यनेनभावतः पुद्गलचिन्तायां विंशतितम आलापको दर्शितः।
इह चानन्तशब्दोपादानेन वृ-ध्यादिशब्देनेवान्तमङ्गलमभिहितं, अयं चानन्तशब्द इह सर्वायनानामन्ते पठति इति सर्वेष्वप्यन्तमङ्गलतया बोद्धव्य इति ॥
स्थानं -१० समाप्तम् तत्समाप्तौ च समाप्तं स्थानाङ्गविवरणं, तथा च यदादावभिहितं स्थानाङ्गस्य महानिधानस्योवोन्मुद्रणमिवानुयोगःप्रारभ्यत इतितचन्द्रकुलीनप्रवचनप्रणीताप्रतिबद्धविहारहारिचरितश्रीवर्धमानाभिधानमुनिपतिपादोपसेविनः प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रबन्धप्रणायिनः प्रबुद्धप्रतिबन्धप्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्प्रसरस्य सुविहितमुनिजनमुख्यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org