________________
स्थानाङ्ग सूत्रम् १०/-१०००
दीर्घत्वंप्राकृतत्वात्सहापरेर्गम्यमानत्वात्तेजसापितेजोलेश्यायुक्तमपीत्यर्थः बलवत्त्वात्साधुतेजस इति 'भासं कुज'त्ति प्रसिद्धमित्येकं, शेषाणि नवापि सुगमानि,
नवरं 'से य अचासाइय'ति स च मुनिरत्याशातितस्तदनन्तरमेव च तत्पक्षपाती देवः परिकुपितः सन्तं भस्म कुर्यादिति द्वितीयमुभावपि परिकुपितौ 'ते दुहओ'त्ति तौ द्वौ मुनिदेवौ 'पडिन्न'त्ति उपसर्गकारिणो भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञौ-कृतप्रतिज्ञौ हन्तव्योऽयमित्यभ्युपगतावितियावदितितृतीय, चतुर्थे श्रमणस्तेजोनिसर्ग कुर्यात्, पञ्चमे देवः षष्ठेउभाविति, केवलमयं विशेषः 'तत्रे'ति उपसर्गकारिणि ‘स्फोटाः' स्फोटकाः समुत्पधेरन् अग्निदग्धे इच, ते चस्फोटकाः भिद्यन्ते-स्फुटन्ति, ततस्ते भिन्नाः सन्तस्तमेवोपसर्गकारिणंसह तेजसा-तेजोलेश्यावन्तमपि श्रमणदेवतेजसोर्बलवत्त्वात् तेजसोपहननीयत्वाद् भस्म कुर्युः
निपातयेयुरिति, सप्तमाष्टमनवमेष्वपि तथैव, नवरं तत्र स्फोटाः सम्मूर्च्छन्ति भिद्यन्ते च ततस्तत्र पुलाः-पुलाकिका लघुतरस्फोटिकाः सम्मूछिन्ति ततो भिद्यन्ते, ते च पुलाः भिन्नाः सन्तस्तमेवोपसर्गकारिणं सहैव तेजसाभस्म कुर्युरित्येतानिनवस्थानानिसाधुदेवकोपाश्रयाणि, दशमं तु वीतरागाश्रयं, तत्र ‘उच्चासाएमाणे'त्ति उपसर्गं कुर्वन् गोशालकवत्तेजोनिसृजेत्, ‘से य तत्थ'त्ति तच तेजस्तत्र-श्रमणेनिसृष्टंमहावीरइवनोक्रमतेईषत्नोप्रक्रमते प्रकर्षेणनप्रभवतीत्यर्थः . केवलं 'अंचिअंचियंति उत्पतनिपतां पार्श्वतः करोति, ततश्चादक्षिणतः-पार्वात् प्रदक्षिणापार्श्वभ्रमणमादक्षिणप्रदक्षिणा तां करोति, ततश्चोर्द्धम्-उपरि दिशि 'वेहासंति विहाय आकाशमित्यर्थः उत्पतति, उत्पत्य च,
"से'त्तितत्तेजः ततः श्रमणशरीरसन्निधेस्तन्माहास्यप्रतिहतंसत्प्रतिनिवर्तते प्रतिनिवृत्त्य चतदेव शरीरकमुपसर्गकारिसम्बन्धि यतस्तन्निर्गतं तमनुदहन्-निसर्गानन्तरमुपतापयन् किंभूतं शरीरकं ?-सह तेजसा वर्तमान-तेजोलब्धिमत् भस्म कुर्यादिति, अयमकोपस्यापि वीतरागस्य प्रभावो यत्परतेजो न प्रभवति, अत्रार्थे दृष्टान्तमाह
'जहा वा' यथैव गोशालकस्य-भगवच्छिष्याभासस्य मङ्खल्यभिधानमङ्घपुत्रस्य, मनश्चचित्रफलकप्रधानोभिक्षुकविशेषः, 'तवेतेए'त्तितपोजनितत्वात्तपः किं तत्? -तेजोस्तेजोलेश्येति, तत्र किलैकदा भगवान् महावीरः श्रावस्त्यां विहरति स्म गोशालकश्च, तत्र च गौतमो गोचरगतो बहुजनशब्दमश्रौषीत्-यथा इह श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ-महावीरो गोशालकञ्चेति श्रुत्वा भगवदन्तिकमागत्य गोशालकोत्थानं पृष्टवान्, भगवांचोवाच-यथाअयं शरणवग्रामे गोबहुलब्राह्मणगोशालायांजातो मङ्खलिनाम्नोमङ्खस्यसुभद्राभिधानतद्भार्यायाश्चपुत्रः षड्वर्षाणि यावच्छ
द्भस्थेन मया सार्द्ध विहृतोऽस्मत्त एव बहुश्रुतीभूत इति नायं जिनोनच सर्वज्ञः, इदंचभगवद्वचनमनुश्रुत्य बहुजनो नगर्याःत्रिकचतुष्कादिषुपरस्परस्य कथयामास-गोशालको मङ्खलिपुत्रो न जिनो न सर्वज्ञः,
इदं च लोकवचनमनुश्रुत्य गोशालकः कुपितः आनन्दाभिधानं च भगवदन्तेवासिनं गोचरगतमपश्यत्, तमवादीच्च-भोआनन्द ! एहि तावदेकमौपम्यं निशामय, यथा केचन वणिजोऽभार्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो महाटवी प्रविष्टाः पिपासितास्तत्र जलं गवेषयन्तश्चत्वारि वल्मीकशिखराणिशाड्वलवृक्षस्यान्तरद्राक्षुः, क्षिप्रंचैकंविचिक्षिपुस्ततोऽतिवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org